२६

अथ षड्विंशोऽनुवाकः।


संध्यात्रये मार्जनादूर्ध्वं गायत्र्या आवाहनमन्त्रमाह— आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षरं॑ ब्रह्म॒ संमि॑तम्। गा॒य॒त्री॑ छन्द॑सां मा॒ता इदं ब्र॑ह्म जुषस्व॑ नः। ओजो॑ऽसि सहोऽसि॒ बल॑- मसि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒नामा॑ऽसि॒ विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि स॒र्वायुरभिभूरों गायत्रीमावा॑हया॒मि॒, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि षड्विंशोऽनुवाकः॥ २६॥

वरदाऽस्मदभीष्टवरप्रदा देवी गायत्री छन्दोभिमानिनी देवताऽक्षरं विनाशरहितं संमितं सम्यग्वेदान्तप्रमाणेन निश्चितं ब्रह्म जगत्कारणं परत- त्त्वमुद्दिश्याऽऽयात्वागच्छत्वस्माकं ब्रह्मतत्त्वं बोधयितुमागच्छत्वित्यर्थः। अयमेवार्थ उत्तरार्धेन स्पष्टी क्रियते—छन्दसां गायत्रीत्रिष्टुबादीनां वेदानां वा माता जननी देवता गायत्री गायत्रीशब्दाभिधेया नोऽस्मानिदं ब्रह्म वेदान्तप्रतिपाद्यं तत्त्वं जुषस्व जोषयतु, उपदिशत्वित्यर्थः। हे गायत्रि देवि त्वमोजोऽसि बलहेतुभूताष्टमधातुरूपाऽसि। सहोऽसि शत्रूणामभिभवनशक्तिरसि। बलमसि शरीरगतव्यवहारसामर्थ्यरूपाऽसि। भ्राजोऽसि दीप्तिरूपाऽसि। देवानामग्नीन्द्रादीनां धाम तेजो यदस्ति तन्नामाऽसि तदेव तव नामेत्यर्थः। विश्वं सर्वजगद्रूपं त्वमेवासि। विश्वायुः संपूर्णायुःस्वरूपाऽसि। उक्तस्यैव व्याख्यानं सर्वमसि सर्वायुरिति। अभिभूः सर्वस्य पापस्य तिरस्कारहेतुरो प्रणवप्रतिपाद्यः परत्माऽसि। तादृशीं गायत्रीं मदीये मनस्यावाहयामि।

इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि षड्विंशोऽनुवाकः॥ २६॥