अथ पञ्चविशोऽनुवाकः।
प्रातःसंध्याकाले जलपानार्थं मन्त्रमाह— सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः। पापेभ्यो॑ रक्ष॒न्ताम्। यद्रात्रिया पाप॑मका॒र्षम्। मनसा वाचा॑ हस्ता॒भ्याम्। पभ्द्यामुदरे॑ण शि॒श्ना। रात्रि॒स्तद॑- वलु॒म्पतु। यत्किंच॑ दुरि॒तं मयि॑। इदमहं माममृ॑त- यो॒नौ। सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि पञ्चविशोऽनुवाकः॥ २५॥
सूर्येऽहर्निष्पादके सूर्योपाधिके। अन्यत्सर्वं पूर्वव्व्याख्येयम्॥ इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि पञ्चविंशोऽनुवाकः॥ २५॥
[[743]]
[प्रपा॰ १० अनु॰ २६–२७] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्।