२४

अथ चतुर्विंशोऽनुवाकः।


सायंसंध्याकाले जलपानार्थं मन्त्रमाह— अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः। पापेभ्यो॑ रक्ष॒न्ताम्। यदह्ना पाप॑मका॒र्षम्। मनसा वाचा॑ हस्ता॒- भ्याम्। पद्भ्यामुदरे॑ण शि॒श्ना। अह॒स्तद॑वलु॒- म्पतु। यत्किंच॑ दुरि॒तं मयि॑। इदमहं माममृ॑त- यो॒नौ। सत्ये ज्योतिषि जुहो॑मनि स्वा॒हा, इति॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि चतुर्विंशोऽनुवाकः॥ २४॥

योऽयमग्रिरस्ति यश्च मन्युः क्रोधाभिमानी देवः, ये च मन्युपतयः क्रोध-स्वामिनस्तन्नियामका देवाः सन्ति ते सर्वेऽपि मन्युकृतेभ्यो मदीयकोपनिष्पादितेभ्यः पापेभ्यो मा मां रक्षन्तां पापिनं मां तत्पापविनाशनेन पालयन्तु। किं चातीते–

[[742]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ २५] नाह्ना तस्मिन्नहनि यत्पापमकार्षं कृतवानस्मि। केन साधनेन मनआदिभिः शिश्नान्तैरवयवैः। तत्सर्वं पापमहरवलुम्पतु, अहरभिमानी देवो विनाशयतु। परहिंसादिचिन्तनं मानसं पापम्। अप्रियानृतादिभाषणं वाचिकम्। अभिचारमोहादिकं हस्तकृतम्। पादेन गोब्राह्मणस्पर्शादिकं पादकृतम्। अभोज्यभोजनमुदरकृतम्। अगम्यागमनं शिश्नकृतम् । अथवा किमनेन परिमितगणेन यत्किमपि दुरितं मयि निष्पन्नमिदं पापजातं सर्वं तत्कर्तारं मां च लिङ्गशरीररूपममृतयोनौ मरणरहिते जगत्कारणे सत्ये बाधरहिते ज्योतिषि स्वयंप्रकाशे वस्तुनि जुहोमि प्रक्षिपामि, अहमनेन होमेन तत्सर्वं भस्मी करोमीत्यर्थः। तदर्थमिदमभिमन्त्रितं जलं स्वाहा मदीयवक्त्राग्नौ स्वाहुतमस्तु॥ इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि चतुर्विंशोऽनुवाकः॥ २४॥