अथ त्रयोविंशोऽनुवाकः।
माध्याह्निकसंध्यानुष्ठानेऽभिमन्त्रजलपानार्थं मन्त्रमाह— आपः॑ पुनन्तु पृ॑थि॒वी पृ॑थि॒वी पू॒ता पु॑नातु॒ माम्। पु॒नन्तु॒ ब्रह्म॑णस्पति॒र्ब्रह्म॑ पू॒ता पु॑नातु॒ माम्। यदुच्छि॑ष्ट॒मभो॑ज्यं॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑। सर्वं॑ पुनन्तु॒
- ख. झ. पुस्तकयोरन्नामुतशब्दयोर्ब्याख्याने व्यत्यासो वर्तते।
[[741]]
[प्रपा॰ १० अनु॰ २४] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। मामापो॑ऽस॒तां च॑ प्रति॒ग्रह॒ ँ स्वाहा॑, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि त्रयोविंशोऽनुवाकः॥ २३॥
या आपः सन्ति ताः पृथिवीं पुनन्तु प्रक्षालनेन शोधयन्तु। सा च पृथिवी पूता शुद्धा सती मामनुष्ठातारं पुनातु शोधयतु। तथा ब्रह्मणो वेदस्या पतिः पतिं प्रतिपालकमाचार्यमेता आपः पुनन्तु। तेनाऽऽचार्येणोपदिष्टं ब्रह्म वेदस्वरूपं पूता स्वयं पूतं सन्मां पुनातु। अन्यभुक्तावशिष्टरूपमुच्छिष्टं यदस्ति यच्चाभोज्यं भोक्तुमयोग्यं तादृशं कदाचिन्मया भुक्तं यद्वा दुश्चरितमन्यदपि प्रतिषिद्धाचरणरूपं मम किंचित्संपन्नं तत्सर्वं परिहृत्येति शेषः। ततो मामापः पुनन्तु। तथाऽसतां शूद्रादीनां प्रतिग्रहं च मया कृतं पुनन्तु। तदर्थमिदमभिमन्त्रितमुदकं स्वाहा मदीयवक्त्राग्नौ स्वाहुतमस्तु॥ इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि त्रयोविंशोऽनुवाकः॥ २३॥