अथ द्वाविंशोऽनुवाकः।
वृष्ट्यभावकृतोपद्रवपरिहारेणोपकारिणमब्देवताकं मन्त्रमाह— आपो॒ वा इ॒द ण् सर्वं॒ विश्वा॑ भू॒तान्यापः॑। प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒मापः॑ स॒म्ना-
१ ख. महता। २ ०हारि०। ३ ग. ०पहारि०।
[[740]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ २३] डापो॑ वि॒राडापः॑ स्वा॒राडाप॒श्छन्दा॒ ँस्यापो॒ ज्योती॒ ँष्यापो॒ यजू॒ ँष्यापः॑ स॒त्यमापः॒ सर्वा॑ दे॒वता॒ आपो॒ भूर्भुवः॒ सुव॒राप॒ ओम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि द्वाविंशोऽनुवाकः॥ २२॥
यदिदं जगदस्ति तत्सर्वमापो वै जलमेव। कथमिति तदेव प्रपञ्च्यते________________________विश्वा भूतानि सर्वाणि प्राणिशरीराण्यापो जलं रेतोरूपेण तदुत्पादकत्वात्। प्राणा वै शरीरवर्तिवायवोऽप्यापः, उदपानेन प्राणानामाप्यायनात्। अत एव च्छन्दोगा आमनन्ति—“आपोमयः प्राणो न पिबतो विच्छेत्स्यते " इति। पशवो गवादयोऽप्यापः क्षीरस्वरूपेण तत्र परिणतत्वात्। *अन्नं व्रीहियवादिकमापः। जलस्यान्नहेतुत्वं प्रसिद्धम्। अमृतं देवैरूपजीव्यं वस्त्वापः। तद्रूपेणापि परिणतत्वात्। सम्यग्राजत इति सूत्रात्मा हिरण्यगर्भः सम्राट्। विस्पष्टं राजत इति ब्रह्माण्डदेहः पुरुषो विराट्। इन्द्रियादिनैरपेक्ष्येण स्वयमेव राजत इत्यव्याकृताभिमानीश्वरः स्वराट्। छन्दांसि गायत्र्यादीनि। ज्योतींष्यादित्यादीनि। यजूंष्यनियताक्षरा मन्त्राः। सत्यं यथार्थकथनम्। सर्वा देवता इन्द्रादयः। भूर्भुवः स्वस्त्रयो लोकाः। सम्राडादिलोकत्रयान्तपदार्थरूपेणाऽऽपः स्तूयन्ते। एताश्चऽऽपो मूलकारणं परमात्मरूपेण प्रणवप्रतिपाद्या इति वक्तुमोंकारः पिठितः॥
इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि द्वाविंशोऽनुवाकः॥ २२॥