२०

अथ विंशोऽनुवाकः।


अथ चित्तशुद्धिहेतूनां कर्मणां संग्रहेणोपयोगमस्मिन्मोक्षप्रकरणे सूचयित्वा प्रतिबन्धकनिवारकात्रक्षोघ्नमन्त्रञ्जप्यत्वेन विधत्ते— कृ॒णु॒ष्व पाज॒ इति॒ पञ्च॑, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि विंशोऽनुवाकः॥ २०॥ संहितायाः प्रथमकाण्डे द्वितीयप्रपाठकस्यान्तिमानुवाके समाम्नाताः “कृष्णुष्व पाजः " इत्याद्या ऋचः पञ्च जपितव्या इति शेषः॥

इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि विंशोऽनुवाकः॥ २०॥


  • एतत्पदमनिश्चितस्वरकम्।

१ झ. स्य कर। २ ख. ग. ति प्रत्ये। ३ ख. झ. विवक्षितः।

[[739]]

[प्रपा॰ १० अनु॰ २१–२२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्।