१९

अथैकोनविंशोऽनुवाकः


अथाग्निहोत्रकर्मणि होमसाधनद्रव्यस्य कारणभूतं वृक्षविशेषं विधत्ते– यस्य॒ वैक॑ङ्कत्यग्निहोत्र॒हव॑णी भवति॒ *प्रतिष्ठिताः प्रत्ये॒वास्याऽऽहु॑तयस्तिष्ठ॒न्त्यथो॒ प्रति॑ष्ठित्यै, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि निषद्येकोनविंशोऽनुवाकः॥ १९॥

अग्निहोत्रे हविर्हूयते यया दर्व्या सेयमग्निहोत्रहवणी। सा च वैकङ्कती विकङ्कताख्येन वृक्षेण निष्पादिता यस्याग्निहोत्राणो भवति, अस्याग्निहोत्रिण आहुतयः प्रतिष्ठितास्तयाऽग्निहोत्रहवण्या प्रक्षिप्ताः सत्यः प्रतितिष्ठन्त्येव फलप्रदा भवन्त्येव। अथो अपि च प्रतिष्ठित्या अनुष्ठातुश्चित्तशुद्धिद्वारा तत्त्वज्ञानप्रतिष्ठार्थं संपद्यन्ते। मुमुक्षोश्चित्तशुद्धिद्वारा वेदोक्तानां कृत्स्नकर्मणां मोक्षसाधनत्वं द्योतयितुमुपलक्षणत्वेन कर्माङ्गाभूतो विकङ्कतवृक्षोऽत्र विहितः॥

इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषद्येकोनविंशोऽनुवाकः॥ १९॥