१८

अथाष्टादशोऽनुवाकः।


पुनरपि तद्देवताकं मन्त्रान्तरमाह________________________ नमो *हिरण्यबाहवे हिरण्यपतयेऽम्बिका- पतय उमापतये॑ नमो॒ नमः, इति। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि निषद्यष्टादशोऽनुवाकः॥ १८॥

बाहुशब्दस्य सर्वावयवोपलक्षणात्वाद्धिरण्यबाहवे भक्तानुग्रहाय सुवर्गमयकृत्स्नशरीरयुक्ताय। हिरण्यपतयेऽस्मदीयहिरण्यपालकाय। अम्बिका जगन्माता पार्वती तस्याः +पतये भर्त्रे। तस्या एवाम्बिकाया ब्रह्मविद्यात्मको देह उमाशब्देनोच्यते। तादृश्या उमायाः पतये स्वामिने रुद्राय पुनः पुनर्नमस्कारोऽस्तु। अनेनानुवाकत्रयेणोक्तानां मन्त्राणां त्वरितरुद्राख्या मन्त्रकल्पेषु प्रसिद्धा। तद्विनियोगस्तु रुद्राध्यायजपशेषत्वेन कल्पेषु द्रष्टव्यः॥

इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषद्यष्टादशोऽनुवाकः॥ १८॥


  • ख. पुस्तक एतदग्रे—हिरण्यवर्णायति ग. पिस्तके________________________हिण्यवर्णाय हिरण्यरूपायेति चाधिकं तद्भाष्यासंमतम्। +अत्राग्रे च पत्य इति युक्तं पठि- तुम्।

१ ग. झ. ०न रुद्ररूपत्वेन च शं०। २ ग. झ. ०ये पशुपतये न०। ३ ख. ०जपे शे०। ९३

[[738]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १९–२०]