१७

अथ सप्तदशोऽनुवाकः।


रुद्रदेवताकं द्वितीयं मन्त्रमाह— कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से। वो॒चेम॒ शंत॑म ँ

[[737]]

[प्रपा॰ १० अनु॰ १८] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। हृ॒दे। सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि सप्तदशोऽनुवाकः॥ १७॥ कत्थ श्लघायामितिधातोरुत्पन्नः कच्छब्दः प्रशंसामाह। ततः कद्रुद्रः प्रशस्तो रुद्रः, तस्मै। प्रचेतसे प्रकृष्टज्ञायुक्ताय मीढुष्टमाय मिह सेचन इति धातुः। अभीष्टानां कामामनामतिश्येन सेक्त्रे, कामप्रदायेत्यर्थः। तव्यसेऽत्राऽऽदौ सकारस्य च्छान्दसो लोपः। स्तव्याय स्तोतुं योग्यायेत्यर्थः। हृद हृदयवर्तित्वेन तद्रूपाय। शंतममतिशयेन सुखकरं स्तुतिरूपवाक्यं वोचेम कथयाम। सर्वो हीति पूर्ववत्॥

इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि सप्तदशोऽनुवाकः॥ १७॥