अथ षोडशोऽनुवाकः।
रुद्रदेवताकं मन्त्रमाह— सर्वो॒ वै रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु। पुरु॑षो॒ वै रु॒द्रः सन्म॒हो नमो॒ नमः॑। विश्वं॑ भू॒तं भुव॑नं चि॒त्रं ब॑हु॒धा जा॒तं जाय॑- मानं च॒ यत्। सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि षोडोशोऽनुवाकः।।१६।।
यो रुद्रः पार्वतीपतिः पुराणेषु प्रसिद्धः स एव सर्वो जीवरूपेण सर्वशरीरेषु प्रविष्टत्वात्तस्मै सर्वात्मकाय रुद्राय नमोऽस्तु। प्रकृतिपुरुषयोर्मध्ये जडात्मिकां प्रकृतिमपोह्य चिदात्मकः पुरुषो यो विद्यते स एव भक्तानुग्रहाय रुद्रमूर्तिरूपेणावभासते। तस्माद्वस्तुतः स रुद्रः सन्माहः “सदेव सोम्येदमग्र आसीत् " इत्यादिप्रतिपाद्यमबाधितं सद्रूपं तेजः। तादृशाय रुद्राय पुनः पुनर्नमस्कारोऽस्तु। यज्जडं विश्वमस्ति यच्च भूतं चेतनं प्राणिजातमस्ति, इत्थं चेतनाचेतनरूपेण विचित्रं यद्भुवनं जगत्तत्रापि यज्जगज्जातं पूर्वमेवोत्पन्नं यच्चेदानीं जायमानं स सर्वोऽपि प्रपञ्च एष रुद्रो हि तव्द्यतिरेकेण वास्तवस्य जगतो निरूपयितुमशक्यत्वात्। तादृशाय सर्वात्मकाय रुद्राय नमस्कारोऽस्तु॥
इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि षोडशोऽनुवाकः॥ १६॥