१५

अथ पञ्चदशोऽनुवाकः।


उपासनायामसमर्थस्याऽऽदित्यदेवताविषयं जप्यं मन्त्रमाह— घृणिः॒ सूर्य॑ आदि॒त्यो(त्यस्त?)मर्चयति *तपः सत्यं मधु क्षरन्ति तद्ब्रह्म तदाप आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्, इति॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि पञ्चदशोऽनुवाकः॥ १५॥

घृणिदींप्तिमान्सूर्य एतन्नामक आदित्योऽदितिदेवतायाः पुत्रः। एतादृशोऽहमस्मि। ईदृशमादित्यं फलार्थिनः सर्वेऽप्यर्चयन्ति। तथा तमादित्यमुद्दिश्य तपश्चरन्तीति शेषः। सत्यमनृतवर्जनम्। अनुतिष्ठन्तीति शेषः। मधु क्षरन्ति मधुरं क्षीरादिकं नैवेद्यरूपेण समर्पयन्ति। तददित्यरूपं ब्रह्म वेदात्मकं परं ब्रह्म वा। तथा तदादित्यरूपमापः, आपो जलरूपं वृष्टिनिष्पादकत्वात्। तथा समुद्रादिगता या


  • एतदादि तदाप इत्यन्तमनिश्चितस्वरकम्।

१ झ. ०मेव दे०। २ ०त्यो न प्रभावा॒त्यक्ष॑रम्। मधु क्षरन्ति॒ तद्र॑सम्। स॒त्यं वै तद्रस॒मापो॒।

[[736]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १६–१७] आपो यच्चाग्न्यादिकं ज्योतिर्योऽपि मधुरादिरसो यच्च देवैः पातव्यममृतं यदपि ब्रह्म मन्त्रजातं ये च भूर्भुवः सुवस्त्रयो लेकास्तत्सर्वमोमादित्यरूपं भवतीत्यर्थः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि पञ्चदशोऽनुवाकः॥ १५॥