१४

अथ चतुर्दशोऽनुवाकः।


पूर्वोक्तस्यैवाऽऽदित्यपुरुषस्य सर्वात्मकत्वलक्षणमवशिष्टमुपास्यगुणं दर्श- यति________________________ आ॒दि॒त्यो वै तेज॒ ओजो॒ बलं॒ यश॒श्चक्षुः॒ श्रोत्र॑मा॒त्मा मनो॑ म॒न्युर्मनु॑र्मृ॒त्युः स॒त्यो मि॒त्रो वा॒युराका॒शः प्रा॒णो लो॑क- पा॒लः कः किं कं तत्स॒त्यमन्न॑मायुर॒मृतो॑ जी॒वो विश्वः॑ कत॒मः स्व॑यं॒भूः *प्रजापतिरिति संवत्सरोऽसावादित्यो य ए॒ष पुरु॑ष ए॒ष भू॒ताना॒मधि॑पतिः॒, इति।

योऽयमादित्य उपास्यत्वेनोक्तः स एव तेजआद्यधिपत्यन्तसर्वजगदात्मकः। तेजो दीप्तिः। ओजो बलकारणम्। बलं शरीरशक्तिः। यशः कीर्तिः। चक्षुःश्रोत्रे बाह्येन्द्रिये। आत्मा देहः। मनोऽन्तःकरणम्। मन्युस्तद्धर्मः कोपः। मनुः स्यायंभुवादिः। मुत्युर्यमः। सत्यादयः सत्यवचनाद्यभिमानिनो देवताविशेषाः। कः प्रजापतिः। किमित्यनेन वाचा विशेषनिर्देशानर्हं वस्तुजातं विवक्षितम्। कं सुखम्। तच्छब्देन परोक्षं वस्तु विवक्षितम्। सत्यमनुतवर्जनम्। अन्नं व्रीहियवादिकम्। आयुः शतसंवत्सरादिकम्। अमृतो मरणरहितः। जीवश्चिदात्मा। स च विश्वः शरीरभेदेनानेकविधः। कतमोऽतिश्येन सुखस्वरूपः। स्वयंभूः कारणान्तरादनुत्पन्नः प्रजापतिः। प्रजापतिः प्रजापालको राजादिः। इतिशब्दः प्रदर्शनार्थः। इत्यादिकं सर्वमुदाहरणीयमित्यर्थः। तत्र संवत्सररूपस्य कालस्याऽऽदित्येन निष्पादितत्वात्संवत्सर आदित्यस्वरूपः। य एष सर्वात्मकः पुरुषः स एष भूतानां प्राणिनामधिपतिः स्वामी।

उपास्यगुणानभिधाय फलं दर्शयति— ब्रह्म॑णः॒ सायु॑ज्य ँ सलो॒कता॑माप्नोत्ये॒तासा॑मे॒व दे॒वता॑ना॒ ँ सायु॑ज्य ँ सा॒र्ष्टिता॑ ँ समानलो॒कता॑माप्नोति॒ य ए॒वं वेद॑, इति॥ यः पुमानेवमुक्तप्रकारेण वेदोपास्ते स पुमान्सायुज्यादिफलमाप्नोति। द्विविधमुपासनं हिरण्यगर्भोपासनं तदवयवभूतदेवतोपासनं चेति। तत्र हिरण्यगर्भोपास्तौ भावनाधिक्ये सति ब्रह्मणो हिरण्यगर्भस्य सायुज्यं सहभावं तादात्म्यं प्राप्नोति।


  • पडषट्कमनिश्चितस्वकम्।

१ ख. ०न्नममृ०। २ ग. ०यंभु ब्रह्मैतदमृत एष पुरु०। ३ ख. ०ष आदित्ये पु०। ४ ग. ०यंभु। का०। ५ ग. ०भावता०।

[[735]]

[प्रपा॰ १० अनु॰ १५] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। भावनामान्द्ये सलोकतां हिरण्यगर्भेण सहैकलोकनिवासं प्राप्नोति। देवतोपास्तवपि भावनाधिक्ये सत्येतासामेवेन्द्रादीनां देवतानां सायुज्यं प्राप्नोति। भावनाया मध्यमत्वे सति सार्ष्टितां समानैश्वर्यतां प्राप्नोति। मान्द्ये तु समानलोकतां प्राप्नोति।

उत्तरमन्त्रजपविवक्षयोपास्तिप्रकारमुपसंहरति________________________ इत्युप॒निषत्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि चतुर्दशोऽनुवाकः॥ १४॥ इत्येवं पूर्वोक्तैरनुवाकैरुक्तोपनिषद्रहस्यभूता विद्या समाप्तेति शेषः॥

इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि चतुर्दशोऽनुवाकः॥ १४॥