अथ त्रयोदशोऽनुवाकः।
इदानीमादित्यमण्डले परब्रह्मोपासनमाह– आ॒दि॒त्यो वा ए॒ष ए॒तन्म॒ण्डलं॒ तप॑ति तत्र॒ ता ऋच॒स्तद्द॒चा
१ ग. झ. वै नमो न०। २ ख. झ. सत्यत्वं च। ३ ख. झ. ०र्थिकं सत्यत्वं प्र०। ४ झ. ०त्मकपु०। ५ ग. झ ०नुशृत्ये०। ६ ख. ०षाय न०। ७ ख. ०ब्रह्मण उपा०।
[[733]]
[प्रपा॰ १० अनु॰ १३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। म॑ण्डल॒ ँ स ऋ॒चां लो॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न्म॒डले॒ऽर्चिर्दी॒- प्यते॒ तानि॒ सामा॑नि॒ स सा॒म्नां लो॒कोऽथ॒ य एष॒ ए॒त- स्मि॑न्म॒ण्डले॒ऽर्चिषि॒ पुरु॑ष॒स्तानि॒ यजू॑ ँषि॒ स यजु॑षा मण्डल॒ ँ स यजु॑षां लो॒कः सैषा त्र॒य्येव॑ वि॒द्या त॑पति॒ य ए॒षो॑ऽन्तरा॑दि॒त्ये हि॑र॒ण्मयः॒ पुरु॑षः, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि त्रयोदशोऽनुवाकः॥ १३॥
नारायणशब्दवाच्यो यः परमेश्वरः पूर्वानुवाकेऽभिहितः स एष आदित्यो वै सोपाधिकः सन्नादित्यरूपेणैव वर्तते। तस्य चाऽऽदित्यस्यैतदस्माभिर्दृ- श्यमानं मण्डलं वर्तुलाकारमुष्णं तेजस्पति संतापं करोति। तत्र तस्मिन्मण्डले ता अध्यापकप्रसिद्धा “अग्निमीळे " इत्यादिका ऋचो वर्तन्ते। तत्तस्मात्कारणान्मण्डलमृचा निष्पादितमिति शेषः। स मण्डलभाग ऋग्भिर्निष्पादित ऋचामृगभिमानिदेवतानां लोको निवासस्थानम्। एवमृगात्मकत्वं मण्डलस्य ध्यात्वाऽथानन्तरं सामात्मकत्वं तत्र ध्यातव्यम्। कथमिति तदुच्यते—एतस्मिन्मण्डले य एष यदेतदर्चिर्दीप्यते भास्वरं तेजः प्रकाशते तान्यर्चिःस्वरूपाणि बृहद्रथंतरादिसामानीति ध्यायेत्। सोऽर्निर्भागः साम्नां सामाभिमानिदेवतानां लोको निवासस्थानम्। अथ सामध्यानानन्तरं यजुरात्मकं ध्यातव्यम्। कथमिति तदुच्यते—य एष शास्त्रप्रसिद्ध एतस्मिन्दृश्यमाने मण्डले तदीयेऽर्चिषि च पुरुषो देवतात्मा वर्तते। तानि देवतास्वरूपाणि यजूंषि “इषे त्वोर्जे त्वा” इत्यादीनि ध्यायेत्। स यजुरात्मकः पुरुषो यजुषा निष्पादितं मण्डलमिति ध्यायेत्। स यजुर्भागो यजुषां यजुरभिमानिदेवतानां लोको निवासस्थानम्। सैषा मण्डलतदर्चिस्तत्रत्यपुरुषरूपं त्रय्येवर्ग्यजुःसामात्मिकैव विद्या तपति प्रकाशते। यः पुरुषोऽत्राभिहित एषोऽन्तरादित्य आदित्यमण्डलमध्ये हिरण्मयो वर्तते। हिरण्मयत्वं च शाखान्तरे प्रपञ्चितम्________________________“अथ य एषोन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुर्वर्णः॥
इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि त्रयोदशोऽनुवाकः॥ १३॥
१ झ. ०रभूतं ते०। २ ग. झ. ०षः। म०। ३ ग. ०षि पु०। ४ ग. झ. च श्रुत्यन्त०। ५ ख. ग. ०प्रनखा०।
[[734]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १४]