अथ दशमोऽनुवाकः।
यथोक्तप्रशंसोपेतपुण्यानुष्ठानेन निषिद्धाचरणवर्जितेन शुद्धान्तःकरणस्य पुरुषस्य तत्त्वमुपदेष्टुमयमनुवाक आरभ्यते। तत्र प्रथमामृचमाह________________________ अ॒णोरणी॑यान्मह॒तो मही॑याना॒त्मा गुहा॑यां॒ निहि॑तोऽस्य ज॒न्तोः। तम॑क्रतुं पश्यति वीतशो॒को धा॒तुः प्र॒सादा॑न्महि॒मान॑मीशम्, इति।
सच्चिदानन्दैकरसः परमेश्वरः सर्वाधिष्ठानत्वेन सर्वस्य जगतः स्वरूपत्वा-दात्मशब्देनोच्यते। आत्मशब्दश्च स्वरूपवाचीति प्रसिद्धम्। मायाकार्यभूते लौकिकव्यवहारे सूक्ष्मत्वेन प्रसिद्धः परमाणुर्व्द्यणुकादिरणुशब्दवाच्यः। तस्मादप्ययमात्माऽतिशयेन सूक्ष्मत्वादणीयान्। परमाणुव्द्यणुकादीना- मस्मदादिप्रत्यक्षगम्यत्वाभावेऽपि योगिजनचक्षुर्गम्यत्वमस्ति तदप्यात्मनो नास्तीत्यभिप्रेत्याणीयस्त्व-
- ख. पुस्तके नास्त्येतत्।
२ ग. झ. ०दानीमहं। २ झ. यकारः। ३ ग. यदि पा०। ४ ख. ०मि। अथ त०। ५ ग. ०धिष्ठत्वे०। ६ झ. ०णुव्द्यणु०। ७ ग. ०न सर्वसू०।
[[716]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १० मुक्तम्। आकाशदिगादीनामेकब्रह्माण्डवर्तित्वात्तादृशब्रह्माण्डलक्षकोट्य-धिष्ठानत्वमभिप्रेत्य महीयस्त्वमुक्तम्। तादृशः परमात्माऽस्य देवमनुष्यादिरूपस्य जन्तोर्गुहायां निहितः। गुहाशब्देन हृदयपुण्डरीकमध्यवर्तिनी बुद्धिरुच्यते। गुहू संवरण इत्यस्माद्धातोरत्पन्नो गुहाशब्दः। बुद्धिश्च हृदयपुण्डरीकेण संवृता तन्मध्यवर्तित्वात्। तस्यां बुद्धावस्य परमात्मनो निहितत्वं नाम विद्ययोपलभ्यमानत्वं नतु बुद्धावाधेयत्वम्। सर्वजगदाधारस्य तदसंभवात्। तं तथाऽवस्थितमीशं शमादिगुणयुक्तोऽधिकारी पुरुषः पश्यति साक्षात्करोति। स चाधिकारो धातुः प्रसादादुपजायते। धाता जगतो विधाता परमेश्वरः, तस्य प्रसादोऽनुग्रहः।
तथा च पूर्वाचार्यैरुक्तम्— ईश्वरानुग्रहादेषां पुंसामद्वैतवासना। महाभयकृतत्राणा द्वित्राणामेव जायते" इति। कीदृशमीशम्। अक्रतुं संकल्परहितम्। स्त्र्यन्नपानादिभोगजातं समीचीनमिति संकल्पनं जीवस्यैव न त्वीशस्य। संकल्पहेतुभूतान्तःकरणोपाधेरभावात्। अतो निरुपाधिकत्वान्महिमानमतिशयेन महान्तम्। ईदृशं परमेश्वरं साक्षात्कृत्य वीतशोको जन्ममरणादिशोकरहितो भवति।
द्वितीयामृचमाह— स॒प्त प्रा॒णाः प्र॒भव॑न्ति॒ तस्मा॑त्स॒प्तर्चिषः॑ स॒मिधः॑ स॒प्त जि॒ह्वाः। स॒प्त इ॒मे लो॒का येषु॒ चर॑न्ति प्रा॒णा गु॒हाश॑यान्निहि॑ताः स॒प्त स॑प्त, इति। शुद्धान्तःकरणैर्ज्ञातव्यो यः परमात्मोक्तस्तस्य शाखाचन्द्रन्यायेनोपलक्षणार्थं जदत्कारणत्वमुच्यते। तस्मात्परमात्मनो मायाशक्तिविशिष्टात्सप्त प्राणाः प्रभवन्ति। अन्यत्र—“सप्त वै शीर्षण्याः प्राणाः " इत्युक्तत्वात्, शिरोवर्तिसप्तच्छिद्रगताः सप्तसंख्याकाश्चक्षुरादयः प्राणाः परमेश्वरादुत्पद्यन्ते। द्वे चक्षुषी द्वे श्रोत्रे द्वे नासिके वागेकेति सप्तत्वम्। तेषां चक्षुरादीनां स्वस्वविषयप्रकाशनशक्तयः सप्तार्चिषः। तैरर्चिर्भिर्गृह्यमाणत्वेन सप्तसंख्याका विषयाः समिधः। विषयैर्हीन्द्रियाणि समिध्यन्ते प्रकाशयुक्तानि क्रियन्ते। यथैकस्यापि चक्षुरिन्द्रियस्य गोलकभेदेन द्वित्वं तथा रूपस्याप्येकस्य वामदक्षिणरूपग्राहकचक्षुर्वृत्तिभेदाद्द्वित्वं द्रष्टव्यम्। एवं शब्दगन्धयोर्द्वित्वे सति विषयाः सप्त संपद्यन्ते। अथवा समिच्छब्देन सप्तसंख्या न संबध्यते किंतु जिह्वाशब्देन। अग्निजिह्वानां च सप्तत्वमाथर्वणिकैराम्नातम्—
१ ख. ०ण्डमध्ये व०। २ ग. ०र्तिनीत्वा०। ३ ख. शमदमादि०। ४ ख. ग. ०त्राणां यदि जा०। ५ ख. ०ण्याः प्राणाः प्रा०। ६ ग. ०के मुखमेकमिति।
[[717]]
[प्रपा॰ १० अनु॰ १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। “काली कराली च मनोजवा च लुलोहिता चापि सुधूम्नवर्णा। स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः” इति ताश्च परमेश्वरात्प्रभवन्ति। इमे भूरादयः सप्तसंख्याका लोकास्तस्मात्प्रभवन्ति। येषु सप्तसु लोकेषु देवमनुष्यादिशरीरवर्तिनः प्राणाश्चरन्ति, तादृशा लोका उत्पन्ना इति पूर्वात्रान्वयः। गुहा बुद्धिस्तस्यां शेत उपलभ्यत इति गुहाशयः परमेश्वरस्तस्मादुत्पन्नां सप्तर्षयः सप्त समुद्रा इत्यादिकाः सप्तसंख्याका पदार्थविशेषा निहितास्तत्र तत्रावस्थापिताः।
तृतीयामृचमाह— अतः॑ समृ॒द्रा गि॒रय॑श्च॒ सर्वे॒ऽस्मात्स्यन्द॑न्ते॒ सिन्ध॑वः॒ सर्व॑रूपाः। अत॑श्च॒ विश्वा॒ ओष॑धयो॒ रसा॑श्च॒ येनै॑ष भू॒तस्ति॑ष्ठत्यन्तरा॒त्मा, इति। क्षीरोदधिप्रभृतयः समुद्रविशेषा मेरुप्रभृतयो गिरिविशेषाश्चास्मात्परमेश्वरात्सर्वे प्रभवन्ति ।गङ्गागोदावर्यादयः सर्वरूपा बहुविधा नद्योऽस्मात्परमेशेवरादुत्पन्नाः स्यन्दन्ते प्रवहन्ति। व्रीहियवाद्या विश्वाः सर्वा ओषधयश्च मधुराम्लादयो रसाश्चातः परमेश्वरात्प्रभवन्ति। एषोऽहंप्रत्ययेन गम्यमानोऽन्तरात्मा स्थूलदेहचिदात्मनोर्मध्यवर्ती लिङ्गदेहो यैनौषधिरसेन भूत संबद्धः सञ्शरीरे तिष्ठति, तादृशो रस उत्पन्न इति पूर्वत्रान्वयः। चतुर्थीमृचमाह— ब्र॒ह्मा दे॒वानां॑ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणाम्। श्ये॒नो गृध्रा॑णा॒ ँ स्वधि॑तिर्वना॑ना॒ ँ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभ॑न्, इति।
अन्तर्बहिर्वर्तिनां प्राणसमुद्रादीनामचेतनानां सृष्टिमुक्त्वा चेतनेषु परमे- श्वरस्योत्कृष्टरूपेणावस्थानमुच्यते। देवानामग्नीन्द्रादीनां मध्ये ब्रह्मा चतुर्मुखो भूत्वा परमेश्वरो नियामकत्वेनावतिष्ठते। तथा कवीनां काव्यनाटकादिकर्तॄणां पुरुषाणां मध्ये पदवीर्भूत्वाऽवतिष्ठते। व्याकरणे निष्पन्नः सुशब्दविशेषः पदं तद्वेति गच्छतीति पदवीः शब्दसामार्थ्याभिज्ञो व्यासवाल्मीक्यादिरूप इत्यर्थाः। विप्राणां वैदिकमार्गवर्तिनां ब्राह्माणानां मध्य ऋषिस्तत्तद्गोत्रप्रवर्तको वसिष्ठादिरूपो बभूव। मृगाणां चतुष्पदां मध्ये शक्त्याधिक्येन युक्तो महिषो बभूव। गृध्रोपलक्षितानां सर्वेषां पक्षिणां मध्ये प्रबलः श्येनो बभूव। वनानां वृक्षसमूहरूपाणां मध्ये छेदनार्थः स्वधितिः परशुर्बभूव। यागहेतुभू-
१ ख. ०ता या च सु०। २ ग. झ. तेषु। ३ झ. ०ष्टत्वरू०।
[[718]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १०] तबल्यात्मकः सोमो भूत्वा रेभन्मन्त्रशब्दयुक्तः सन्पवित्रं शुद्धिकारणं गङ्गा-जलकुशदर्भादिद्रव्यजातं सर्वमत्येति।
पञ्चमीमृचमाह— अ॒जामेकां॒ लोहि॑तशुक्लकृष्णां व॒र्ह्वी प्र॒जां ज॒नय॑न्ती॒ ँ सरू॑पाम्। अ॒जो ह्येको॑ जु॒षमा॑णोऽनु॒शेते॒ जहा॑त्येनां भुक्तभो॑गामजो॑ऽन्यः, इति।
व्यवहारदशायां परमेश्वरस्य चतुर्मुखब्रह्मादिशरीरेषु विशेषेणावस्थानम- भिधाय यथोक्तजगत्सृष्टेर्मूलकारणभूतां मायाशक्तिमुपजीव्य बद्धमुक्तपुरु- षव्यवस्था प्रदर्श्यते। न जायत इत्यजा मूलप्रकृतिरूपा माया। न ह्यनादेस्तस्या जन्म संभवति। सा च मायैका, सर्वस्य जगतस्तत्कार्यत्वात्। यदाऽसौ तेजोवन्नानि त्रीणि भूतान्युत्पाद्य तद्रूपाऽवतिष्ठते तदानीं लोहितशुक्लकृष्णवर्णैरुपेता भवति। तथा च च्छन्दोगा आमनन्ति—“यदग्ने रोहित ँ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य " इति। अन्नशब्देनात्र पृथिव्युपलक्ष्यते। रजःसत्त्वतमोगुणा वा लोहितादिशब्दैरुपलक्ष्यन्ते। गुणत्रयात्मिका मायेत्युक्तं भवति। सा च देवतिर्यङ्मनुष्यादिरूपां गुणत्रयात्मकत्वेन सरूपां बहुविधां प्रजां जनयति। न जायत इत्यजो जीवः, तस्यापि मायावदनादित्वादुत्पत्तिर्नास्ति। तादृशो जीवो द्विविध: — आसक्तो विरक्तश्चेति। तयोर्मध्य एक आसक्तो योऽजो जीवः पूर्वोक्तामजां मायां जुषमाणः प्रीतिपूर्वकं सेवमानोऽनुशेते तदनुसारेणैव वर्तते। विषयानेव भुञ्जानो विवेकरहितो जन्ममरणप्रवाहरूपेण संचरतीत्यर्थः। अन्योऽजो विरक्तो जीवो भुक्तभोगामेनां मायां जहाति परित्यजति। विरक्तेः प्रागेव भोगान्भुक्त्वा(घा भुक्ता) न तूपरिष्टाद्भोक्ष्यन्ते तादृशैर्भोगैर्युक्ता माया भुक्तभोगा तां मायां तत्त्वविवेकेन बाधत इत्यर्थः।
षष्ठीमृचमाह— ह॒ ँसः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत्। नृ॒षद्व॑र॒सद्द॑त॒सव्द्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत्, इति।
यः पुमान्विवेकेन मायां परित्यजति तस्य सर्वमपि जगद्ब्रह्मरूपेणानभासत इत्ययमत्रो(त्रा)र्थः प्र दर्श्यते। तदर्थमादौ जगदनुद्यते हन्ति सर्वदा गच्छतीति हंस आदित्यः। स च शुचौ शुद्धे मण्डले ज्योतिर्मये सीदतीति शचिषत्, सूत्रात्मरूपेण
१ ख. झ. ०णि रूपाण्युत्पा०। २ झ. ०न्ते। सा गु०। ३ ग. ०यात्मिक०। ४ ख. झ. जनयन्ती। ५ ग. ०रणं प्र०। ६ संसर०। ७ झ. ०क्ष्यते ता०। ८ झ. बाधितामित्य०। ९ ग. इत्येवमात्रोऽर्थोऽत्र प्रदृश्यते। झ. इत्येवं मन्त्रर्थोऽत्र प्र०। १० ख. प्रदिश्यते।
[[719]]
प्रपा॰ १० अनु॰ १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। जगन्निवासहेतुत्वात्। वसुर्वायुः, तद्रूपः सन्नन्तरिक्षे सीदतीत्यन्तरिक्षसति। होमनिष्पादक आहवनीयाद्यग्निर्होता तद्रूपेण सोमयागाद्यङ्गभूतायां वेद्यां सीदतीति वेदिषत्। अमावास्यादितिथिविशेषमनपेक्ष्य भोजनयाच्ञार्थं तत्र तत्र गच्छन्पुरुषो वैदेशिकोऽतिथिः, तद्रूपेण दुरोणेषु गृहेषु परकीयेषु सीदतीति दुरोणसत्। नृषु मनुष्येषु कर्माधिकारिजीवरूपेण सीदतीति नृषत्। वरे श्रेष्ठे क्षेत्रे काशीद्वारावत्यादौ पूजनीयदेवरूपेण सीदतीति वरसत्। ऋते सत्ये वैदिके कर्मणि फलरूपेण सीदतीति ऋतसत्। व्योम्न्याकाशे नक्षत्रादिरूपेण सीदतीति व्योमसत्। अद्भ्यो नदीसमुद्रादिगताभ्यः शङ्खमकरादिरूपेण जायत इत्यब्जाः। गोभ्यः क्षीरादिरूपेण जायत इति गोजाः। ऋतं सत्यवचनं तस्मात्कीर्तिरूपेण जायत इति ऋतजाः। अद्रिभ्यः पर्वतेभ्यो वृक्षादिरूपेण जायत इत्यद्रिजाः। हंस इत्यारभ्याद्रिजा इत्यन्तेनोक्तं यज्जगदस्ति तज्जगदृतं सत्यं वृहद्ब्रह्म, अज्ञानिदृष्ट्या जगद्रूपेण भासमानं सर्वं ज्ञानिदृष्ट्या ब्रह्मैवैत्यर्थः।
सप्तमीमृचमाह________________________ *यस्माज्जाता न परा नैव किंचनाऽऽस य आविवेश भुवनानि विश्वा। प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नस्त्रीणि ज्योतीँ॑षि सचते॒ स षोड॒शी, इति।
हंसादेः सर्वस्य जगतो ब्रह्मरूपत्वं यदुक्तं तदत्र प्रतिपाद्यते। ब्रह्मव्यतिरिक्तं वस्तु किंचिदस्तीति वदन्वादी प्रष्टव्यः। किमचेतनं जगद्ब्रह्मव्यतिरिक्तमाहोस्विच्चेतनो जीवः। अचेतनत्वपक्षेऽपि किं सृष्टेरूर्ध्वभावि वस्तु ब्रह्मव्यतिरिक्तमुत पूर्वभावि। न तावदूर्ध्वभाविनो व्यतिरिक्तत्वमित्युच्यते । जाता सृष्टेरूर्ध्वमुत्पन्ना प्रजा यस्मात्परमेश्वरात्परा व्यतिरिक्ता न भवति। नापि पूर्वभाविनो व्यतिरिक्तत्वमित्युच्यते सृष्टेः पूर्वं किंचन किमपि ब्रह्मव्यतिरिक्तं वस्तु नैवाऽऽस । “एकमेवाद्वितीयम्” इति श्रुत्यन्तरात्। नापि चेतनस्य जीवनस्य ब्रह्मव्यतिरिक्तत्वमित्युच्यते। यः परमेश्वरो विश्वा भुवनानि सर्वलोकवर्तीनि शरीरराण्याविवेश जीवरूपेण प्रविवेश। “अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य " इति श्रुत्यन्तरात्। स प्रजापतिः प्रजापालकः परमेश्वरः प्रजया स्वस्मादुत्पन्नया देवतिर्यगादिरूपया संविदानः संसर्ग तादात्म्यं लभमानो वर्तते। स परमेश्वरस्रीणि ज्योतिंष्यग्न्यादित्यचन्द्ररूपाणि सचते समवैति तादात्म्यसंबन्धं प्राप्नोति। कीदृशः परमेश्वरः। षोडशी प्रश्नोपनिषत्प्रोक्तषोडशकलोपेतः। तत्र हि प्राणश्रद्धादिकं कृत्स्नमपि जगत्षोडशावयरूपं परमात्मा
- एतदर्धमनिश्चितस्वरकम्।
१ ख. झ. द्वारव०। २ ख. ०सर्गता०।
[[720]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १०] ससर्जेति श्रुतम्। तथा सति मृद्धटन्यायेन कार्यकारणयोरव्यतिरेकात्षोडशकलारूपेण जगता सह तादात्म्यसंबन्धादयं षोडशीत्युच्यते। अष्टमीमृचमाह–
- विधर्तार ँ हवामहे वसोः॑ कु॒विद्व॒नाति॑ नः।
- सवितारं नृचक्षसम्, इति॥
यथोक्तब्रह्मतत्त्वज्ञानलाभाय परमेश्वरप्रार्थनारूपाः केचिन्मन्त्रा इत आरभ्योच्यन्ते। वसोर्धनस्य ब्रह्मज्ञानरूपस्य विधर्तारं विशेषेण संपादयितारं परमेश्वरं हवामहेऽस्मदनुग्रहार्थमाह्वयामः। नोऽस्माकं तादृशानां कुवित्प्रभूतं तत्त्वज्ञानरूपं धनं वनाति संभजते स परमेश्वरो ददातीत्यर्थः। कीदृशं विधर्तारम्। सवितारमस्मद्बुद्धेः प्रेरकम्। नृचक्षसं नृणां मनुष्याणामधिकारिणामाचार्यरूपेण तत्त्वविद्याप्रवक्तारम्।
नवमीमृचमाह– अ॒द्या नो॑ देव सवितः प्र॒जाव॑त्सावीः॑ सौभ॑गम्। परा॑ दुष्ष्वप्नि॑य ँ सुव, इति। हे सवितः प्रेरक देवाद्यास्मिन्दिने नोऽस्माकं विद्यार्थिनां प्रजावच्छिष्य-प्रशिष्यादिप्रजोपेतं सौभगमाचार्यरूपं भाग्यं सावीः प्रेरय प्रयच्छेत्यर्थः। दुष्ष्वप्नियं दुष्टस्वप्नसदृशं द्वैतप्रतिभासं परासुव निराकुरु। दशमीमृचमाह– विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव। यद्भ॒द्रं तन्म॒ आसु॑व, इति।
हे सवितः प्रेरक देव दुरितानि ज्ञानप्रतिबन्धकानि पापानि विश्वानि सर्वाणि परासुव पराकुरु। भद्रं कल्याणमसंभावनाविपरीतभावनारहितं तत्त्वज्ञानं यदस्ति तन्मे मह्यमुपासकायाऽऽसुव साकल्येन प्रयच्छ। एकादशीमृचमाह— मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः। माध्वीर्नः स॒न्त्वोष॑धीः, इति। ऋतायत ऋतं परं ब्रह्म तदिच्छते मह्यं वाता वायवो मधु माधुर्योपलक्षितं सुखं
- एतत्पदद्वयमनिश्चितस्वरकम्। + एतत्पदद्वयनिश्चितस्वरकम्।
१ ग. ०सर्ज वै " इति श्रुत्यन्तरात्। त०। झ. २ विधातार०। ३ झ. विधातारं। ४ झ. विधातार०। ५ ख. ०म्ह तं प्र(तत्प्र)त्ययते गच्छ०।
[[721]]
प्रपा॰ १० अनु॰ १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। यथा भवति तथा वान्त्विति शेषः। प्रबले तु वायौ रोगोत्पत्त्या तत्त्वज्ञानविघ्नः संपद्यते। अतः स मा भूदिति वायोरानुकूल्यं प्रार्थ्यते। एवमुत्तरत्रापि तत्तदानुकूल्यं द्रष्टव्यम्। सिन्धवो नद्यो मधु क्षरन्ति मधुरमारोग्यकरमुदकं संपादयन्त्वित्यर्थः। ओषधीर्व्रीहियवादयोऽपि नोऽस्माकं माध्वीर्मधुराः पथ्यरूपाः सन्तु। द्वादशीमृचमाह– मधु॒ नक्त॑मुतोषसि॒ मधु॑म॒त्पार्थि॑व ँ रजः॑। मधु॒ द्यौर॑स्तु नः पि॒ता, इति। नक्तं रात्रावुतापि चोषसि प्रभाते दिवसेऽपि विद्यार्थिनो मधु मधुरमनुकूलं सूखमस्तु कालकृतोऽपि विघ्नो मा भूदित्यर्थः। पार्थिवं रजः पृथिव्यामवस्थितं शयनादिस्थानगतं रजोऽपि मधुमन्माधुर्योपेतं कण्टकपाषाणादिराहित्येनानुकूलमस्तु। नोऽस्माकं पिता पितृसदृशी द्यौरपि मध्वस्तु, अतिवृष्ट्यादिप्रातिकूल्यरहिताऽस्तु। “द्यौः पिता पृथिवी माता " इति मन्त्रान्तराद्दिवः पितृत्वम्। त्रयोदशीमृचमाह________________________ मधु॑मान्नो॒ वन॒स्पति॒र्म॑धुमा ँ अस्तु॒ सूर्यः॑। माध्वी॒र्गावो॑ भवन्तु नः, इति।
वनस्पतिश्चूतपनसादिर्नोऽस्मान्प्रति मधुमान्मधुरफलोपेतो जीवनहेतुरस्तु। सूर्योऽपि प्रभूतं संतापमकृत्वा मधुमान्माधुर्येणानुकूलप्रकाशनेन युक्तोऽस्तु। गावोऽपि नोऽस्मान्प्रति माध्वीर्जीवनहेतुमधुरक्षीरोपेता भवन्तु। चतुर्दशीमृचमाह— घृ॒तं मि॑मिक्षिरे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तमु॑वस्य॒ धाम॑। अ॒नु॒ष्व॒धमाव॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम्, इति। भोग्यजातस्य ज्ञानयोग्यदेहानुकूल्यं प्रार्थ्य ज्ञानसाधनयागादिकर्महेतोरग्नेरानुकूल्यं प्रार्थयते। पूर्वे यजमाना अग्नावाहवनीयादिरूपे घृतं मिमिक्षरे सिक्तवन्तः। मिह सेचन इति धातुः। तद्घृतमस्याग्नेर्योनिरुत्पत्तिकारणम्। घृतेन ज्वालाभिवृद्धिदर्शनात्। अतोऽयमग्निर्घृते श्रितो घृतमाश्रित्यावस्थितः। घृतमेवास्याग्नेर्धाम स्थानं तेजोहेतुर्वा। हेऽग्नेऽनुष्वधं स्वधामन्वस्मदीयं हविःस्वरूपमनुसृत्याऽऽवहा देवानत्राऽऽनय। आनीय
१ ख. ०था भवन्त्वि०। २ ख. ०विघ्नाः सं०। ३ ख. ०द्यन्ते। अ०। ४ ख. सुपच्यरूपाः। ५ ख. ०योग्यं दे०। ६ ख. ०तमुवा०। ९१
[[722]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १०] च मादयस्व त्द्दष्टान्कुरु। हे वृषभ श्रेष्ठ स्वाहाकृतं स्वाहाकारेणास्माभिर्दत्तं हव्यं वक्षि वह देवान्प्रापय।
पञ्चदशीचमाह— स॒मु॒द्रादूर्मिर्मिधु॑मा॒ ँ उदा॑रदुपा॒ ँ शुना॒ सम॑मृत॒त्वमा॑नट्। घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभिः॑, इति। समुद्रवदतिप्रभूतात्परमात्मन ऊर्मिरूर्मिसदृशो जडप्रपञ्चो मधुमान्भोग्यत्वेन माधूर्ययुक्त उदारदुदगच्छत्। उत्पन्न इत्यर्थः। यथा लोके समुद्रात्तरङ्गा उत्पद्यन्त एवं हि चिदेकरसात्परमात्मनो जडं भोग्यजातं सर्वमुत्पन्नम्। घृ क्षरणदीप्त्योरिति धातोरुत्पन्नो घृतशब्दः। घृतं दीप्तं स्वप्रकाशं ब्रह्मेत्यर्थः। तस्य ब्रह्मणो यन्नाम प्रणवरूपं गुह्यं सर्ववेदिषु गोप्यमस्ति। तथा च कठैराम्नातम्—“सर्वे वेदा यत्पदमामनन्ति " इति प्रस्तुत्य “तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत् " इति। तेन प्रणवरूपेणोपांशुना ध्यानकाले शौनैरुच्चार्यमाणेनामृतत्वमुत्पत्तिविनाशरहितं ब्रह्मतत्त्वं समानट्सम्यगानशे प्राप्नोतीत्यर्थः। तच्च प्रणवाख्यं नाम देवानां जिह्वा देवैर्ध्यानपरैर्निरन्तरमुच्चार्यमाणत्वेन जिह्वेव सर्वदा मुखमध्ये वर्तते। किंचेदं प्रणवरूपं नामा मृतस्य विनाशरहितस्य मोक्षस्य नाभी रथचक्रस्य नाभिरिवाऽऽश्रयभूतम्। अनेन हि मुक्तिरूपं फलं प्राप्यते। अत एव कठैराम्नातम्________________________“एतदेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् " इति। एतस्यामृचि प्रणवस्य मोक्षसाधनत्वमुक्तम्। षोडशीमृचमाह________________________ व॒यं नाम॒ प्रब्र॑वामा घृ॒तेना॒स्मिन्य॒ज्ञे धा॑रयामा॒ नमो॑भिः। उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतुः॑शृङ्गोऽवमीद्गौ॒र ए॒तत्, इति।
वयं ज्ञानार्थिनः पुरुषा अस्मिञ्ज्ञानयज्ञे घृतेन दीप्तेन स्वप्रकाशेन ब्रह्मणा निमित्तभूतेन प्रणवरूपं नाम प्रब्रवाम सर्वदा ध्यायन्त उच्चारयाम। ततो नमोभिर्नमस्कारैर्युक्ता वयं चित्ते ब्रह्मतत्त्वं सर्वदा धारयाम। ज्ञानस्य यज्ञत्वं भगवतोक्तम्________________________“स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः " इति। शस्यमानमस्माभिः प्रणवेन स्तूयमानमु-पशृणवत्पार्श्ववर्तिभिस्तत्त्ववेदिभिः स्तूयमानमेतद्ब्रह्मतत्त्वं चतुःशृङ्गोऽकारोकारमकारनादरूपशृङ्गचतुष्टयोपेतो गौरः श्वेतः प्रणवाख्य ऋषभोऽवमीद्वान्तवान्, ब्रह्मतत्वं प्रत्यापादयदित्यर्थः । अकारादीनां प्रणवमात्राणां शृङ्गत्वमुत्तरतापनीये श्रुतम्—“शृङ्गेष्वशृङ्गं संयोज्य " इति। निष्कामैरनुष्ठेयत्वेन निर्मलत्वात्प्रणवस्य
१ ग. ०मममृ०। २ ख. ०र्मिस०।
[[723]]
[प्रपा॰ १० अनु॰ १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। गौरत्वम् । वृषभरूपत्वं च संहिकोपनिषद्याम्नातम्—“यश्छन्दसामृषभो विश्वरूपः " इति। एवमनेन प्रतिपादनमुपलक्ष्यते। सप्तदशीमृचमाह— च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अ॒स्य। त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्या॒ ँ आवि॑वेश, इति।
शृङ्गा प्रणवस्य यान्यकारादीनि शृङ्गाणि तानि चत्वारि। अस्य प्रणवप्रतिपाद्यत्वेन प्रणवरूपस्य ब्रह्मणस्त्रयः पादाः। पद्यते गम्यते ब्रह्मतत्त्वमेभिरिति पादाः। अध्यात्मं विश्वतैजसप्राज्ञाः। अधिदैवं विराङ्ढिरण्यगर्भाव्याकृतानि। द्वे शीर्षे उत्तमाङ्गस्थानीये चिदचिद्रूपे द्वे शक्ती। तथैवास्य ब्रह्मणो भूरादयः सप्त लोका हस्तासो हस्तस्थानीयाः। त्रिधा बद्धोऽकारोकारमकारेषु विश्वतैजसप्राज्ञैर्विराड्ढिरण्यगर्भाव्याकृतैश्च त्रिप्रकारेण संबद्धो वृषभः प्रणवो महस्तेजोरूपं ब्रह्मतत्त्वं रोरवीति, अतिशयेन प्रतिपादयति। तदेव प्रतिपाद्यं स्पष्टी क्रियते—देवः परमेश्वरो मर्त्यान्मनुष्यदेहानाविवेश सर्वतः प्रविष्टः “स एष इह प्रविष्ट आ नखाग्रेभ्यः " इति श्रुत्यन्तरात्।
अष्टादशीमृचमाह— त्रिधा॑ हि॒तं पणि॒भि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन्। इन्द्र॒ एक॒ ँ सूर्य॒ एकं॑ जजान वे॒नादेकं॑ ँ स्व॒धया॒ निष्ट॑तक्षुः, इति।
त्रिधा हितं शरीरे विश्वतैजसप्राज्ञाख्येन त्रिप्रकारेण ब्रह्माण्डे विराड्ढिर- ण्यगर्भाव्याकृताख्येन च त्रिः(त्रि)प्रकारेणावस्थितं घृतं दीप्तं स्वप्रकाशं ब्रह्मतत्त्वं देवासो देववत्सात्त्विका अन्तर्मुखाः पुरुषा गवि वाचि तत्त्वमस्या-दिवेदरूपायामन्वविन्दन्ननुक्रमेण लब्धवन्तः। कीदृशं घृतम्—पणिभिर्गुह्यमानम्। पण व्यवहारे स्तुतौ चेति धातुः। पणिभिः स्तोतृभिरुपदेष्टृभिराचार्यैः परमरहस्यत्वेन गोप्यमानम्। त्रिधा हितमित्येतदेव विविच्यते। इन्द्रः परमैश्वर्ययुक्तो विराट्पुरुष एकं जागरणरूपं जजानोत्पादितवान्। सूर्यशब्दस्तेजस्वित्वेन हिरण्यगर्भमुपलक्षयति। स च हिरण्यगर्भ एकं स्वप्नरूपं जजान। वेने(वे? )ति धातुः कान्तिकर्मा। वेनात्सर्वदुःखराहित्येन कमनीयादव्याकृतादेकं सुषुप्तरूपं निष्पन्नमिति शेषः। स्वस्मिन्नेव धीयतेऽवस्थाप्यत इत्याश्रयान्तररहिता ब्रह्मरूपा चित्स्वधाशब्देनोच्यते “स भगवः कस्मिन्प्र-
१ ख. ०ति। चत्वारि शृ०। २ ख. झ. ०दैवतं वि०। ३ ग. ०श्च त्रिःप्र०। ४ झ. त्रिभिः प्र०।
[[724]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १०] तिष्ठित इति स्वे महिम्नि " इति श्रुत्यन्तरात्। तया स्वधया ब्रह्मरूपया चिता पूर्वोक्ता इन्द्रसूर्यवेना निष्टतक्षुर्जागरणादिकं निष्पादितवन्तः। एताभ्यां द्वाभ्यामृग्म्यां प्रणवतत्प्रतिपाद्यार्थौ प्रपच्चितौ।
एकोनविंशीमृचमाह— यो दे॒वानां॑ प्रथ॒मं पु॒रस्ता॒द्विश्वा॒धिको॑ रु॒द्रो म॒हर्षिः॑। हि॒र॒ण्य॒ग॒र्भं प॑श्यत॒ जाय॑मान॒ ँ स नो॑ दे॒वः शु॒भया॒ स्मृत्या॒ संयु॑नक्तु, इति। यो देवो हिरण्यगर्भं पश्यत साक्षात्करोति। कीदृशं हिरण्यगर्भम्। देवानां प्रथममग्नीन्द्रादीनां मध्य आदिभूतम्। पुरस्ताज्जायमानमग्नीन्द्राद्युत्पत्तेः पूर्वमेवोत्पद्यमानम्। अनेन प्राथम्यं स्पष्टीकृतम्। कीदृशो देवः। विश्वाधिको विश्वस्य जगतः कारणत्वेन तस्मादधिकः। रुद्रो रुद्वैदिकः शब्दस्तं द्रवति प्राप्नोति। वेदप्रतिपाद्य इत्यर्थः। महर्षिर्ऋषीणामतीन्द्रियद्रष्टॄणां मध्ये महान्। “यः सर्वज्ञः सर्ववित् " इत्यादिश्रुतिप्रतिपाद्य इत्यर्थः। स देवस्तादृशः परमेश्वरो नोऽस्माञ्शुभया स्मृत्या सर्वसंसारनिवर्तकत्वेन शोभनया ब्रह्मतत्त्वानुस्मृत्या संयुनक्तु संयुक्तान्करोतु। सोऽयं मन्त्रो ब्रह्मविद्यालब्धये जपितव्य इति मन्त्रलिङ्गादवगम्यते।
विंशीमृचमाह– यस्मा॒त्परं॒ नाप॑र॒मस्ति॒ किंचि॒द्यस्मा॒न्नाणीयो॑ न ज्यायो॑ऽस्ति॒ कश्चि॑त्। वृ॒क्ष इ॑व स्तब्धो दि॒वि ति॑ष्ठ॒त्येक॒स्तेने॒दं पू॒र्णं पुरु॑षेण॒ सर्व॑म्, इति। यदुक्तं शुभया स्मृत्या संयुनक्त्वति तत्र स्मरणीयं तत्त्वमत्र निर्दिश्यते—यस्माद्ब्रह्मतत्त्वात्परमुत्कृष्टमपरं निकृष्टं वा वस्तु किंचिदपि नास्ति। यस्माद्ब्रह्मतत्त्वाद णीयोऽत्यल्पं वस्तु नास्ति। तथा ज्यायोऽधिकमपि कश्चित्किंचिदपि वस्तु नास्ति। परापरशब्दाभ्यां गुणोत्कर्षनिकर्षौ विवक्षितौ। ज्यायोणीयःशब्दाभ्यां परिमाणोत्कर्षापकर्षौ। सर्वप्रकारोत्कर्षापकर्षनिषेधेनाद्वितीयत्वं सिध्यति। यथा लोके वृक्षो गमनागमनरहित एकत्रैव स्तब्धोऽवतिष्ठते तद्वदयमद्वितीय एकः परमेश्वरः स्तब्धो निर्विकारो दिवि द्योतनात्मके स्वप्रकाशस्वरूपे तिष्ठति। तेन पुरुषेण पूर्णेन चिदेकरसेन परमात्मना सर्वमिदं जगत्पूर्णम्। जगदाकारो नास्ति ब्रह्मतत्त्वमेवावस्थितमित्यर्थः। एकविंशीमृचमाह— न कर्म॑णा न प्र॒जया॒ धने॑न॒ त्यागे॑नैके अमृत॒त्वमा॑न॒शुः।
१ ख. ०पयोपचि०। २ झ. ०को यो रु०। ३ ख. च.। ४ ख. ०ण चि०।
[[725]]
[प्रपा॰ १० अनु॰ १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। परे॑ण॒ नाकं॒ निहि॑तं॒ गुहा॑यां वि॒भ्राज॑ते॒ यद्यत॑यो वि॒शन्ति॑, इति
यतोक्तब्रह्मतत्त्वानुस्मरणस्यान्तरङ्गं सर्वत्यागरूपं साधनमत्रोच्यते। अग्निहोत्रादिकं सहस्रसंवत्सरसत्रान्तं यत्कर्म तेन कर्मणा तदमृतत्वं न लभ्यते। “प्रजया पितृभ्यः " इति श्रुतेः पितृविषयादृणाद्विमोचनहेतुर्या पुत्रादिरूपा प्रजा तयाऽप्यमृतत्वं न लभ्यते। “दाने सर्वं प्रतिष्ठितं तस्माद्दानं परमं वदन्ति” इति श्रुतेर्धनदानस्य बहुधफलसाधनत्वावगमात्तस्य दानस्य निष्पादकं यद्धनमस्ति तेन धनेनाप्यमृतत्वं न लभ्यते। किं तर्हि कर्मप्रजादीनां सर्वेषां लौकिकवैदिकव्यापाराणां त्यागेनैके केचिदेवान्तर्मुखा अमृतत्वमानशुः प्राप्नवुन्ति। यदमृतत्वं यतय इन्द्रियनियमनशीला विशन्ति प्राप्नुवन्ति तदमृतत्वं नाकं परेण स्वर्गादप्युत्कृष्टं सद्गुहायां स्वकीयबुद्धावेका- ग्रायां निहितमवस्थितं सद्विभ्राजते विशेषेण दीप्यते। अन्तर्मुखैरनुभूयत इत्यर्थः। द्वाविंशीमृचमाह________________________ वे॒दा॒न्त॒वि॒ज्ञान॒सुनि॑श्चिता॒र्थाः संन्या॑सयो॒गाद्यत॑यः शुद्ध॒सत्त्वाः॑। ते ब्र॑ह्मलो॒के तु परा॑न्तकाले॒ परा॑मृता॒त्परि॑मुच्यन्ति॒ सर्वे, इति।
पूर्वस्यामृचि त्यागस्य मोक्षसाधनत्वमुक्तम्। अन्यत्र—“तरति शोकमात्मवित्” “ज्ञानादेव तु कैवल्यं प्राप्यते येन मुच्यते " इत्यादिश्रुतिस्मृतिषु ज्ञानस्यैव मोक्षहेतुत्वमुच्यते। अथोऽस्यामृचि विरोधपरिहाराय ज्ञानसंन्यासयोर्मोक्षे पुथगुपयोग उच्यते। वेदान्ता उपनिषद्वाक्यानि तैरुत्पन्नं सर्वसंसारनिवर्तकत्वेन विशिष्टं ज्ञानं यदस्ति तेन निश्चितो जीवब्रह्मैक्यलक्षणोऽर्थो यैः पुरुषैस्ते वेदान्तविज्ञानसुनिश्चितार्थाः। संन्यासयोगात्संन्यासः पूर्वोक्तः प्रजादित्यागस्तत्पूर्वको योगः, प्रमाणविपर्ययविकल्पनिद्रास्मृतिरूपाणां पञ्चानां चित्तवृत्तीनां निरोधो योगः, “योगश्चित्तवृत्तनिरोधः " इति पतञ्जलिना सूत्रितत्वात्। तस्माद्योगात्। शुद्धसत्त्वा विषयभोगव्यावृत्तचित्ताः। अतः एव यतयो नियमनशीलाः। एतेन ज्ञानं तत्त्वप्रकाशनेनाविद्यानिवर्तकं त्यागस्तु विषयभोगवृत्तिद्वारा चित्तशुद्धिहेतुरिति पृथगुपयोग उक्तो भवति। ब्रह्मणो लोको दर्शनं साक्षाच्कारः, तस्मिन्नुत्पन्ने सति संसारि-विलक्षणास्ते पुरुषा। वैलक्षण्यद्योतनार्थस्तुशब्दः। तादृशाः पुरुषाः सर्वे परिमुच्यन्ति। ज्ञानिषु देवमनुष्यत्वादिकृत उत्तमाधमभावोऽप्रयोजक इति विवक्षया सर्व इत्युक्तम्। कदा मुच्यन्त इत्याशङ्कय परान्तकाल इत्युक्तम्। सत्यज्ञाने यो देहपातावसरः सोऽयमपरान्तकालः। पुनर्देहस्य
१ झ. ०जदेतद्य०। २ ख. ०माद्दान०। ३ ग. ०जाधनादी०। ४ ख. झ. ०न्यासः। ५ ग. तेन। ६ झ. ०च्यन्ते। ज्ञा ०। ७ ग. ०मानुत्तम०।
[[726]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १०] विद्यमानत्वात्। नष्टे त्वज्ञाने यो देहपातावसरः सोऽयं परान्तकालः। पुनर्देह- ग्रहणरहितत्वात्। तस्मिन्परान्तकाले संसारबन्धान्मुच्यन्ते। नन्वज्ञानिनोऽपि प्रलयकाले स्थूलसूक्ष्मशरीरद्वयलक्षणाद्बन्धान्मुच्यन्त एवेत्याशङ्कय परामृतादित्युक्तम्। जगत्कारणत्वेनोत्कृष्टं परम्। तत्त्वज्ञानमन्तरेण विनाशरहितत्वादमृतं तादृशात्परामृतादव्याकृतादज्ञानिनः प्रलयकालेऽपि न मुच्यन्ते। ज्ञानिनस्तु देहपातावसर एव तादृशादव्याकृतादपि मुच्यन्त इति विशेषः। त्रयोविंशीमृचमाह________________________ द॒ह्रं॒ वि॒पा॒पं॒ व॒रवे॑श्मभूतं॒ यत्पु॑ण्डरी॒कं पु॒रम॑ध्यस॒ ँस्थम्। त॒त्रा॒पि॒ द॒हे ग॒गनं॑ विशोकं॑ तस्मि॑न्यद॒न्तस्तदुपा॑सित॒व्यम्, इति।
तत्त्वं ज्ञातुमसमर्थस्यात्रोपासनमुच्यते। यदेतत्पुण्डरीकमष्टदलं हृदयकमलमस्ति। कीदृशम्। दह्रमल्पनमङ्गुष्ठमात्रपरिमितत्वात्। विपापं चित्तैकाग्न्यस्थानत्वेन पापरहितम्। वरवेश्मभूतं वरस्य श्रेष्ठस्य परमात्मन उपलब्धिस्थानत्वेनोपास्तिस्थानत्वेन च गृहरूपम्। पुरमध्यसंस्थं हस्तपादिभिः सर्वैरवयवैः पूर्यत इति पुरं तस्य मध्ये कुसुमरस इवान्तराऽवस्थितम्। तत्रापि तस्मिन्नपि पुण्डरीके दह्रेऽल्पप्रदेशे गगनमाकाशवदमूर्तं ब्रह्मरूपमस्ति। ब्रह्मणः सर्वगतत्वेऽपि घटाकाशवत्पुण्डरीकस्थानापेक्षयाऽल्पत्वमुपचर्यते। तथा च श्रुत्यन्तरम्________________________“अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः " इति। दहराकाशस्य च ब्रह्मत्वं दहराधिकरणे निर्णीतम्। अत एव विशोकं शोकरहितं गगनशब्दवाच्यं ब्रह्म। एवं सति तस्मिन्पुण्डरीकेऽन्तर्मध्ये यद्ब्रह्मतत्त्वमस्ति तदुपासितव्यं विजातीयप्रत्ययरहितेन सजातीयप्रत्ययप्रवाहेण चिन्तनीयम्।
चतुर्विशीमृचमाह— यो वेदादौ स्व॑रः प्रो॒क्तो॒ वे॒दान्ते॑ च प्र॒तिष्ठि॑तः। तस्य॑ प्र॒कृति॑लीन॒स्य॒ यः परः॑ स म॒हेश्व॑रः, इति। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि दशमोऽनुवाकः॥ १०॥
वेदानाम् “अग्निमीळे पुरोहितम् " " इषे त्वोर्जे त्वा " इत्यादीनामादिरुपक्रमः, तस्मिन्नुपक्रमे यः स्वरो यो वर्णः प्रणवरूपोऽस्ति स च स्वरः प्रणवो वेदान्ते चोपनिष-
१ ख. ०रल०। २ ०मृतत्वम्। ता०। ३ ग. दहरं। ४ ग. विपाप्म। ५ ग. ०शोक- स्तस्मि०। ६ झ. ०र्थस्य सूत्रो०। ७ ग. दहरम०। ८ ग. झ. कुक्ष्युरसोरन्त०। ९ झ. विवेचनीयम्।
[[727]]
[प्रपा॰ १० अनु॰ १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। द्योमित्येतदक्षरमिदं सर्वमित्यादिकायां प्रतिष्ठितः प्रतिपादितः, स च स्वः प्रणवो ध्यानकाले प्रकृतावव्याकृते जगत्कारणे लीनो भवति। अकारोकारमकारेषु विराड्ढिरण्यगर्भाव्याकृतानि ध्यात्वा विराड्रूपमकारमुकारे प्रविलाप्य तं चोकारं हिरण्यगर्भरूपं मूलप्रकृतिरूपे मकारे प्रविलापयेत्। तस्य च प्रकृतौ लीनस्य प्रणवस्य यः परश्चतुर्थमात्रारूपेण नादे ध्यातव्य उत्कृष्टोऽस्ति, सोऽयं महेश्वरो विज्ञेयः। अनेन मन्त्रेण पूर्वोक्तं गगनशब्दवाच्यं वस्तु प्रपञ्चितम्।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि दशमोऽनुवाकः॥ १०॥