अथ नवमोऽनुवाकः।
अथ विहितानुष्ठानरूपं पुण्यं ज्ञानसाधनतया प्रशंसति। निषिद्धचरणं ज्ञानप्रतिबन्धकतया निन्दति— यथा॑ वृ॒क्षस्य॑ सं॒पुष्पि॑तस्य दू॒राद्ग॒न्धो वा॑त्ये॒वं पुण्य॑स्य क॒र्मणो॑ दू॒राद्ग॒न्धो वा॑ति॒ यथा॑ऽसिधा॒रां क॒र्तेऽव॑हि- तामव॒क्रामे॒द्यद्युवे॒ हुवे॒ ह वा॑ वि॒ह्वदिष्यामि क॒र्तं प॑तिष्या॒मीत्ये॒वम॒नृता॑दा॒त्मानं॑ जु॒गुप्से॑त्, इति॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि नवमोऽनुवाकः॥ ९॥ लोके यथा वृक्षस्योद्यानादौ स्थितस्य चम्पकपाटलकेतकीपुंनागादेः संपुष्पितस्य सम्यग्विकसितपुष्पोपेतस्य यो गन्धः सुरभिरस्ति सोऽयं दूराद्देशाद्वाति वायुना सहाऽऽगच्छति एवं पुण्यकर्मणो ज्योतिष्टोमादेः सत्कीर्तिः सुगन्धसमाना दूराद्वाति मनुष्यलोकात्स्वर्गे गच्छति। तस्मात्पुण्यमनुष्ठेयम्। अथ पापस्य दृष्टान्त उच्यते—यथा लोके राजामात्यादीनां विनोदाय प्रवृत्तो वंशाग्रवृत्तादिदुर्घटव्यापारेष्वत्यन्तकुशलमनाः कश्चित्कर्ते कूपादावगाधे कस्मिंश्चिद्गर्तविशेषेऽवहितां प्रसारिताम-
१ ख. झ. यज्ञस्तपो। २ ग. ०पास्स्वैत०। ३ ख. ०पास्य वि०। ४ ख. ०रणरूपं तु ज्ञा०। ५ ख. झ. युवे। ६ झ. ०ह्वयिष्या०। ७ ख. ०ममृता०।
[[715]]
प्रपा॰ १० अनु॰ १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। सिधारां खड्गधारामवक्रामेत्पादाभ्यां धाराया उपरि गन्तुं प्रवर्तते। तदानीमसौ मनस्येवं विचारयति। यद्यदि युवे हुवे हकारो व्यत्ययेन यकारस्थाने पठितः। अत एव केचिद्युवे युव इति पठन्ति। यौमि यौमि पुनः पुनः पादमसिधारया मिश्रयामीत्यर्थः। तदाऽहं विह्वदिष्यामि कर्तं वा पतिष्यामि। अहमित्येतमर्थं हशब्दो ब्रूते। लकारस्थाने व्यत्ययेन दकारः। असिधारायां पादस्य दृढस्पर्शे पादच्छेदेनाहं विह्वलितो विवशो भविष्यामि दृढस्पर्शाभावे त्वधोवर्तिन्यगाधे गर्ते पतिष्यामीति। एवं पापे वर्तमानः पुरुषो विचारयेत्। यद्यहं पापं प्रकटं कुर्यां तदानीमिह लोके निन्दितो भविष्यामि तत्परिहारायाप्रकटं कुर्यां तदाऽपि नरके पतिष्यामीति। ईदृग्विचारयुक्तः पुरुषोऽनृतात्पापादात्मानं जुगुप्सेद्धिङ्मां लोकद्वयभ्रांशहेतुमिति निन्दित्वा पापान्निवारेत्॥
इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि नवमोऽनुवाकः॥ ९॥
- इति प्रथमखण्डः समाप्तः