०८

अथाष्टमोऽनुवाकः।


अथ ज्ञानसाधनं यत्तपश्चित्तैकाग्र्यमस्ति “मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः " इति श्रुतेः। तत्तपः श्रौतस्मार्तसर्वकर्मस्वरूपतया प्रशंसति। यद्वा तथाविधतपःसिद्ध्यर्थं जप्यं मन्त्रमाह— ऋ॒तं तपः॑ स॒त्यं तपः॑ श्रु॒तं तपः॑ शा॒न्तं तपो॒ दानं॒


१ ख. झ. ०स्तु। त्वत्प्र०। २ ग. झ. देव। ३ ग. झ. ०य। ततोऽ०। ४ झ. स्मृतेः। ५ ग. झ. ०पो दमस्तपो दा०। ९०

[[714]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ ९ तपो॒ यज्ञं॒ तपो॒ भूर्भुवः॒ सुव॒र्ब्रह्मै॒तदुपास्स्यै॒तत्तपः॑, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्यष्टमोऽनुवाकः॥ ८॥ ऋतं मनसा यथार्थवस्तुचिन्तनम्। सत्यं वाचा यथार्थभाषणम्। श्रुतं वेदस्य पुर्वोत्तरभासार्थावबोधयोर्मीमांसयोः श्रवणम्। शान्तं शान्तिर्बाह्येन्द्रिया- भ्यन्तरेन्द्रियोपरतिः। दानं धनेषु स्वत्वनिवृत्तिः परस्वत्वापादनपर्यन्ता। यज्ञो-ऽग्निहोत्रादिः। तदेतत्सर्वमर्वाचीनं तपः। भूरादिलोकत्रयात्मकं विराहरूपं यद्ब्रह्मास्ति हे मुमुक्षो एतद्ब्रह्मोपास्स्व विजातीयप्रत्ययरहितं कुरु। तदेतदुपासनमुत्तमं तपः॥

इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषद्यष्टमोऽनुवाकः॥ ८॥