०७

अथ सप्तमोऽनुवाकः।


अथ लब्धानां वेदानामविस्मरणाय जप्यं मन्त्रमाह— नमो॒ ब्रह्म॑णे धा॒रणं॑ मे अ॒स्त्वनि॑राकरणं धा॒रयि॑ता भूयासं॒ कर्ण॑योः श्रु॒तं मा च्यो॑ढ्वं॒ ममा॒मुष्य॒ ओम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि सप्तमोऽनुवाकः॥ ७॥

ब्रह्मणे जगत्कारणाय नमोऽस्तु। तत्प्रसादान्मदीये चित्ते ग्रन्थतदर्थयो- र्धारणमस्तु। [अनिराकरणं ] निराकरणं विस्मरणं यथा न भवति तथा धारयिता भूयासम्। अमुष्येत्थं प्रार्थयमानस्य मम कर्णयोर्यत्किंचिद्वेदशास्त्रादिकं यदा कदाचिदपि श्रुतमासीत्तत्सर्वं हे देवा मा च्योढ्वं मा विनाशयत। ततोऽहर्मो प्राप्नुयां स्थिरं धारणमिति शेषः॥

इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि सप्तमोऽनुवाकः॥ ७॥