०६

अथ षष्ठोऽनुवाकः।


अथ ज्ञानप्रतिपादककृत्स्रवेदान्तप्राप्तिकामेन जप्यं मन्त्रमाह— यश्छन्द॑सामृष॒भो वि॒श्वरू॑प॒श्छन्दो॑भ्य॒श्छन्दा॑ ँ स्यावि॒वेश॑। सता ँ शिक्य प्रोवाचो॑पनि॒षदिन्द्रो॑ ज्ये॒ष्ठ इ॑न्द्रि॒याय॒ ऋषि॑भ्यो॒ नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुवः॒ ऋषि॑भ्यो॒ मनो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुवः॒ सुव॒रोम्, इति। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि षष्ठोऽनुवाकः॥ ६॥

यः प्रणवश्छन्दसां वेदानां मध्य ऋषभः श्रेष्ठः, विश्वरूपः सर्वजगदात्मकः, एत द्वेदसारत्वं विश्वरूपत्वं च सांहित्यामुपनिषदि प्रपञ्चितम्। तादृशः प्रणवश्छन्दोभ्यो वेदेभ्यः प्रादुर्भूत इति शेषः। वेदसारत्वेन प्रजापतेः प्रत्यभादित्यर्थः। स पुनश्छन्दांसि गायत्र्यादीन्याविवेश। छन्दोभिरुपलक्षितेषु मन्त्रेषु प्रयोक्तव्यः। तथाच प्रपञ्चसारेऽभिहितम्________________________ “अस्य तु वेदादित्वात्सर्वमनूनां प्रयुज्यते ह्यादौ " इति। तेन प्रणवेन प्रतिपाद्य इन्द्रः परमैश्वर्ययुक्तः परमात्मोपनिषत्प्रोवाचोपनिषदं ब्रह्मविद्यां सर्ववेदान्तसिद्धामुक्तवान्। कीदृश इन्द्रः। सतां शिक्यः सद्भिः कर्मानुष्ठायिभिरुपासकै- र्ज्ञानिभिश्च प्राप्तुं शक्यः, ज्येष्ठः कारणत्वेन सर्वस्मात्प्रथमः। किमर्थं विद्यामुक्तवानित्युच्यते—ऋषिभ्य ऋषीणामन्तर्मुखाणां जिज्ञासूनामिन्द्रियाय ज्ञानसामर्थ्यार्थम्। अतोऽहं तत्प्रतिबन्धनिवारणाय देवेभ्यः पितृभ्यश्च नमस्करोमि। भूर्भुवः सुवरों लोकत्रयाव-


१ ध. सचा ँ। २ ख. झ. ०क्यः पुरोवा०। ३ ग. झ. वश्छन्द ओप्। ४ ख. द्धान्तमेवमु०। झ. ०द्धान्तमु०। ५ ख. ०निति तदुच्य०। ६ ग. झ ०र्थ्याय। अ०।

[[713]]

[प्रपा॰ १० अनु॰ ७–८] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। स्थितान्प्रप्नोमि। देवा(वेदा)निति शेषः। एतदेवाभिप्रेत्य केचिद्भूर्भुवः सुवश्छन्द ओमिति पठन्ति॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि षष्ठोऽनुवाकः॥ ६॥