०४

अथ चतुर्थोऽनुवाकः।


पूजाकामस्य पुनरप्यन्यपाठमाह— भूर॒ग्नये॑ च पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा॒ भुवो वा॒यवे॑ चा॒न्तरि॑क्षाय च मह॒ते च॒ स्वाहा॒ सुव॑रादि॒त्याय॑ च दि॒वे च॑ मह॒ते च॒ स्वाहा॒ भूर्भुवः॒ सुव॑श्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ मह॒ते च॒ स्वाहा॒ नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुवः॒ सुव॒र्मह॒रोम्, इति॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि चतुर्थोऽनुवाकः॥ ४॥ महते प्रौढाय पूज्याय वा हिरण्यगर्भाय। चकारैस्तत्तद्देवतानां सेवका देवाः परिगृह्यन्ते। तेभ्योऽपि स्वाहुतमित्युक्तं भवति। महर्रो पूजां प्राप्नवानि॥ इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि चतुर्थोऽनुवाकः॥ ४॥