०३

अथ तृतीयोऽनुवाकः।


अन्नसमृद्धिकामस्य तेष्वेव मन्त्रेषु पाठान्तरमाह– भूरन्न॑म॒ग्नये॑ पृथि॒व्यै स्वाहा॒ भूवोऽन्नं॑ वा॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा॒ सुव॒रन्न॑मादि॒त्याय॑ दि॒वे स्वाहा॒ भूर्भुवः॒ सुव॒रन्नं॑ च॒न्द्रम॑से दि॒ग्भ्यः स्वाहा॒ नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुवः॒ सुव॒रन्न॒मोम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि तृतीयोऽनुवाकः॥ ३॥

अन्नद्रव्यं स्वाहुतमस्तु। समृद्धमन्नमों प्राप्नोमीतियेतावानेव विशेषः॥ इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि तृतीयोऽनुवाकः॥ ३॥



१ झ. ०यपरतां। २ ग. झ. ०तिपाद्या०। ३ ग. ०द्याग्न०।

[[711]]

[प्रपा॰ १० अनु॰ ४–५] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्।