०१

अथ दशमः प्रपाठकः। अथ नारायणोपनिषत्। (तत्र प्रथमोऽनुवाकः।)


ह॒रिः॒ ॐ

स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्य॑ करवावहै। ते॒ज॒स्वि नावधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑+। इति शान्तिः।

वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे। यं नत्वा कृतकृत्याः स्युस्तं नमामि गजानानम्॥ १॥ यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्। निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥ २॥ वारुण्युपनिषद्युक्ता ब्रह्मविद्या ससाधना। याज्ञिक्यां खिलरूपायां सर्वशेषोऽभिधीयते॥ ३॥

यथा बृहदारण्यके सप्तमाष्टामाध्यायौ खिलकाण्डत्वेनाऽऽचार्यैरुदात्द्दतौ, तथेयं नारायणीयाख्या याज्ञिक्युपनिषदपि खिलकाण्डरूपा तल्लक्षणोपेतत्वात्। कर्मोपासनब्रह्मकाण्डेषु त्रिष्वपि यद्यद्वक्तव्यमवशिष्टं तस्य सर्वस्याभिधानेन प्रकीर्णरूपत्वं खिलत्वम्। बृहदारण्यके सप्तमाध्याये– “पूर्णमदः पूर्णमिदम् " इत्यादिना ब्रह्मतत्त्वमभिहितम्। “ॐ खं ब्रह्म " इत्यादिभिरष्टमाध्यायगतैश्च “यो ह वै ज्येष्ठं च श्रेष्ठं च वेद " इत्यादिभिर्वाक्यैर्नानाविधान्युपासनान्यभिहितानि। “स यः कामयेत महत्प्राप्नुयाम् " इत्यादिना मन्थाख्यं कर्माभिहितम्। तथा पुत्रविशेषादिकामनायुक्तानां तत्कर्माण्यभिहितानि। एवमत्राप्यम्भस्य पार इत्यादिना ब्रह्मतत्त्वमभिहितम्। “आदित्यो


  • अयमेव दशमः प्रपाठक उपनिषत्पञ्चकान्तर्गतनारायणोपनिषदितिनामधेयवान्। इयमेव याज्ञिक्युपनिषत्खिलकाण्डरूपेति भाष्यकृता स्पष्टीकृतम्।

१ ङ. सनातना। २ ग. ०णीया व्याख्या। ३ ख. झ. च. यद्व०। ४ ख. ग. च. ०र्णकरूपं खि०। ५ ख. ०गतैः स यो। ६ ख. ग. महान्प्रप्नु०। ७ ख. तत्पुत्र०। ८ च. ०नां तु त ०। ८७

[[690]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १ ] वा एष एतन्मण्डलम् " इत्यादिनोपासनमभिहितम्। “भूरन्नमग्नये पृथिव्यै स्वाहा " इत्यादिना कर्माण्यभिहितानि। तत्र कर्मणां बाहुल्याद्याज्ञिकीत्युच्यते। तदीयपाठसंप्रदाय उपक्रमे ब्रह्मतत्त्वाभिधानादुपसंहारे च ब्रह्मज्ञानसाधानानां सत्यादीनां संन्यासान्तानामभिधानादुपनिषदित्युच्यते। तदीयपाठसंप्रदायस्तु देशविशेषेषु बहुविध उपलभ्यते। तत्र यद्यपि शाखाभेदः कारणं तथाऽपि तैत्तिरीयशाखाध्यापकैस्तत्तद्देशनिवासिभिः शिष्टैरादृतत्वात्सर्वोऽपि पाठ उपादेय एव। तत्र द्रविडानां चतुःषष्ठ्यनुवाकपाठः। आन्ध्राणामशीत्यनुवाकपाठः। कर्णाटकेषु केषांचिच्चतुःसप्ततिपाठः। अपरेषां नवाशीतिपाठः। तत्र वयं पाठान्तराणि यथासंभवं सूचयन्तश्चतुःषष्टिपाठं प्राधान्येन व्याख्यास्यामः। तत्र प्रथमानुवाकस्याऽऽदौ काश्चिदृचो ब्रह्मतत्त्वं प्रतिपादयन्ति। तासु प्रथमामृचमाह— अभ्भ॑स्य पा॒रे भुव॑नस्य॒ मध्ये॒ नाक॑स्य पृ॒ष्ठे म॑ह॒तो मही॑यान्।

शु॒क्रेण॒ ज्योती ँ॑षि समनु॒प्रवि॑ष्टः प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः, इति। अम्भस्य बहुविधसमुद्रमध्यवर्तिजलस्य पारे परतीरे यो महान्प्रौढो लोका- लोकपर्वतादिस्ततोऽपि महीयान्महन्तरोऽयं परमेश्वरः। भुवनस्य पृथिव्यादिलोकस्य मध्ये यो महान्मेर्वादिस्ततोऽपि महत्तरः। नाकस्य पृष्ठे स्वर्गस्योपरि यो महान्ब्रह्मलोकादिस्ततोऽपि महत्तरः। तथा च च्छन्दोगा आमनन्ति—“ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः " इति। “स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स एवेद ँ सर्वम् " इति च। स परमेश्वरः शुक्रेण भासकेन जीवचैतन्यरूपेण ज्योतींषि निर्मलत्वेन भासकान्यन्तःकरणानि सम्यगनुप्रविष्टः। “तत्सृष्ट्वा तदेवानुप्राविशत् " इति श्रुतेः। गर्भे ब्रह्माण्डरूपेऽन्तर्मध्ये प्रजापतिर्विराड- रूपो भूत्वा चरति वर्तते। विराड्रपमाधर्वणिका आमनन्ति—“अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः। वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी " इत्यादि। अग्निः प्रकाशयुक्तो द्युलोकः। सर्वव्यापी परमेश्वरो वस्तुतस्तथाविध एव सन्मायावशाद्देहेषु जीवरूपेण ब्रह्माण्डे च विराड्रूपेणावस्थित इत्यर्थः।

द्वितीयामृचमाह— यस्मि॑न्नि॒द ँ सं च॒ वि चैति॒ सर्वं॒ यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः। तदे॒व भूतं तदु॒ भव्य॑मा इ॒दं तद॒क्षरे॑ पर॒मे व्यो॑मन्, इति।


१ ग. च. झ. ०ते। उ०। २ ख. च. ०भेदाः का०। ३ ख. ०यकशा०। ४ ग. च. झ. ०यन्तोऽशीतिपा०। ५ च. ०रः। तथा भु०। ६ ख. ग. ०था छन्दो०। ७ ख. वाग्वृत्ताश्च। ८ च. ०वृत्ताश्च।

[[691]]

[प्रपा॰ १० अनु॰ १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्।

इदं सर्वं जगद्यस्मिन्नव्याकृते मूलकारणे समेति च व्येति च। सृष्टिकाले समुत्पन्नं सत्संगतमपि भवति। शं चेति पाठे सुखमपि प्राप्नोतीति व्याख्येयम्। व्यत्ययेन वा संगतमिति द्रष्टव्यम्। संहारकाले विलीनं सद्विगतमपि भवति। अध्यधिका हिरण्यगर्भविराडायोऽग्नीन्द्रादयश्च विश्वे सर्वे देवा यस्मिन्नव्यक्ते मूलकारणे निषेदुर्नितरामाश्रित्यावस्थिताः। तदेव सृष्टिसंहारयोर्देवानां चाऽऽधारभूतमव्याकृतमेव। भूतमतीतं जगत्। भव्यं भविष्यज्जगत्, इदं वर्तमानमपि जगत्, तदु तदेवाव्याकृतम्। आ इत्याश्चर्ये। आसीदिति प्रसिद्धिर्वा तस्यार्थः। तत्तादृशमव्याकृतमक्षरे विनाशरहिते परम उत्कृष्टे व्योमन्नाकाशवदमूर्ते परमात्मनि वर्तत इति शेषः।

तृतीयामृचमाह— येना॑ऽऽवृ॒तं खं च॒ दिवं॑ म॒हीं च॒ येना॑ऽऽदि॒त्यस्तप॑ति॒ तेज॑सा॒ भ्राज॑सा च। यम॒न्तः स॑मु॒द्रे क॒वयो॒ वय॑न्ति॒ *तद॒क्षरे॑ पर॒मे प्र॒जाः, इति।

वाजसनेयिनो गार्गिब्राह्मणे परमात्मन्याश्रितं यदव्याकृतमभिधीयते–“एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च " इति, तत्पूर्वस्यामृच्यभिहितम्। अस्यां तु तेनाव्याकृतेनोपहितं जगत्कारणं चैतन्यमभिधीयते। येन सच्चिद्रूपेण कारणेन खमन्तरिक्षलोको दिवं द्युलोको महीं महीलोके इत्येतत्सर्वमावृतं व्याप्तम्। चकाराभ्यां तत्तल्लोकवासिनो देहाः समुच्चीयन्ते। तेऽपि कारणेन व्याप्ताः। अत एवोक्ताः सर्वेऽपि सद्रूपतया भासन्ते। येन परमेश्वरेणानुगृहीत आदित्यस्तेजसा स्वकीयमण्डलान्तर्गतभास्वररूपेण भ्राजसा च प्रसारितरश्मिरूपया दीप्त्या च तपति सर्वमिदं जगदभितप्तं प्रकाशितं च करोति। कवयस्तत्त्वविदो यं परमात्मानं समुद्रेऽन्तः समुद्रोपलक्षितस्य कृत्स्नस्य जगतो मध्ये तन्तूनिव वयन्ति यथा पटस्वरूपे तन्त-वोऽनुगतास्तथा जगति ब्रह्मतत्त्वमनुगतं पश्यन्ति। तच्च ब्रह्मतत्त्वमक्षरे विनाशरहिते परम उत्कृष्टे निजस्वरूपेऽवस्थाय प्रजा उत्पादयतीति शेषः। स्वरूपेऽवस्थानं छन्दोगाः प्रश्नोत्तराभ्यामामनन्ति—“स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि " इति। आधारान्तरराहित्यमेव स्वस्मिन्नवस्थानम्। +यदक्षर इति पाठेऽपि तच्छब्दार्थत्वेनैव व्या ख्येयम्।


  • यदक्षर इति ख. च. झ. पुस्तकपाठः। +ख. पुस्तके तदक्षर इति पाठः।

२ ग. च. वा गतमि०। २ ख. ०न्नव्याकृते मू०। ३ ख. ०दिव प्र०। ४ ग. ०र्वा। तस्यान्तर्गतं तादृ०। ५ ख. ०न्यास्ते यत्तद०। ६ झ. ०मधी०। ७ ग. ०हितम्। तेन कारणेन व्याप्ता अत। ८ ग. ०ण्डलया भा०। च झ. ०ण्डलदीप्त्या। भा। ९ ग. ०स्वद्रूपे०। १० ग. ०च्छब्दोऽर्थत्वेन व्या०। ११ ग. व्याख्येयः।

[[692]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १ ] चतुर्थीमृचमाह— यतः॑ प्रसू॒ता ज॒गतः॑ प्रसूती॒ तोये॑न जी॒वान्व्यच॑सर्ज॒ भूम्या॑म्। यदोष॑धीभिः पु॒रुषा॑न्प॒शू ँश्च॒ भूतानि॑ चराच॒राणि॑, इति।

पूर्वमन्त्रे जगत्कारणमव्याकृतोपहितं यच्चैतन्यमुक्तं तस्यात्र जगदुपादानत्वं प्रपञ्च्यते। “आत्मन आकाशः संभूतः” इत्यारभ्य “अन्नात्पुरुषः” इत्यन्तेन ग्रन्थेन पूर्वमभिहिता जगतः प्रसृती प्रसूतिः सृष्टिरुत्पत्तिर्यस्मादव्याकृतोपहिताच्चैतन्यात्प्रसूता प्रवृत्ता, तच्चैतन्यं कारणभूतं तोयेन जलोपलक्षितेन भूतपञ्चकेन जीवान्मनुष्यगवादीञ्जीवदेहान्व्यचसर्ज भूम्यां जगत्यां विशेषेणोत्सृ(णासृ)जत्। व्यससर्जेति पाठेऽपि तथैव व्याख्येयम्। तथा यच्चैतन्यरूपं मायाविशिष्टं कारणमोषधीभिर्व्रीहियवादिभिरुपलक्षितमन्नं भूत्वा मनुष्यान्पशूंश्च तदुपलक्षितस्थावरजङ्गमशरीराणि सर्वाण्यपि प्रविवेश वृक्षादिषु स्थावरेषु वृष्टिजलरूपेण प्रवेशः। तेन चैतन्येन सर्वं जगत्कवलितमिति शेषः।

पञ्चमीमृचमाह- अतः॑ परं नान्य॒दणी॑यस ँ हि॒ परा॑त्परं॒ यन्मह॑तो म॒हान्त॑म्। यदे॑कम॒व्यक्त॒मन॑न्तरूपं॒ विश्वं॑ पुरा॒णं तम॑सः पर॑स्तात्, इति।

पूर्ववाक्योक्तेन जगत्कारणत्वाकारेणोपलक्षितं शुद्धं वस्त्वत्र निरूप्यते। यद्वस्तु परादुत्कृष्टाद्धिरण्यगर्भादेरपि परमत्यन्तमुत्कृष्टम्। यच्च महत आकाशादेर्महान्तं महत्। यदप्येकं सजातीयविजतीयस्वगतभेदरहितम्। अव्यक्तमिन्द्रियागम्यम्। अनन्तरूपं देशकालवस्तुपरिच्छेदशून्यम्। विश्व जगदात्मकम्। पुराणमनादिसिद्धम्। तमसः परस्तादज्ञानात्पृथग्वर्तते। अतो वस्तुनोऽन्यद्वस्त्वणीयसमत्यन्तदुर्लक्ष्यं परमुत्कृष्टं नास्ति।

विश्वविशेषणेन यत् स र्वजगदात्मकत्वमुक्तं तदे तत्षष्ठीसप्तमी भ्यामृग्भ्यां प्रपञ्चयति— तदे॒वर्तं तदु॑ स॒त्यमा॑हु॒स्तदे॒व ब्रह्म॑ पर॒मं क॑वी॒नाम्। इ॒ष्टा॒पू॒र्तं ब॑हु॒धा जा॒तं जाय॑मानं वि॒श्वं बि॑भर्ति॒ भुव॑नस्य॒ नाभिः॑॥ तदे॒वाग्निस्तद्वा॒युस्तत्सूर्यस्तदु॑ च॒न्द्रमाः॑। तदे॒व शु॒क्रममृ॒तं तद्ब्रह्म॒ तदापः॒ स प्र॒जाप॑तिः, इति।


१ ख. ०दुत्पादनत्वं च प्र०। ग. च. ०दुत्पादनं च प्र०। २ ग. ०सूतिः। प्रसूतिः सूतिरु०। ३ ख. ग. च. ०न्व्यसस०। ४ च. झ. ०गत्याम्। व्य०। ५ ख. ग. व्यचस०। ३ ख. ०गत्पालि०। ग. ०गत्परिदलि०। ७ ख. ०त्वात्कारणो०। ८ ग. च. झ. ०यर०। ९ ग. ०दरूपम्। १० ख. ०श्वं सर्वज०। ११ ख. यस्य सर्व०। १२ ग. च. ०त्सर्वं ज०। १३ ख. ०देव षष्ठी०। १४ ख. ०मीभ्यां प्र०। १५ ०दापस्तत्प्रजा०।

[[693]]

[प्रपा॰ १० अनु॰ १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्।

मनसा यथावस्तुचिन्तनमृतम्। वाचा तदुच्चारणं सत्यम्। एतदुभयमपि तदेवाधिष्ठानरूपं ब्रह्मैव। कवीनां वेदशास्त्रपारं गतानां परममुत्कृष्टं प्रमाणत्वेनाऽऽदरणीयं यद्ब्रह्म वेदरूपं वस्तु तदपि स्वाधिष्ठानभूतपरब्रह्मात्मकमेव। इष्टं दर्शपूर्णमासादि श्रौतं कर्म। पूर्तं वापीकूपादि स्मार्तं कर्म। तदुभयमपि तदेव ब्रह्म। तथा बहुधा जातं पूर्वकल्पतत्पूर्वकल्पादिरूपेण बहुप्रकारमुत्पन्नमिदानीमपि तथा जायमानं विश्वं अत आधेयं सर्वमधिष्ठानस्वरूपमेव। अग्निवायुसूर्यचन्द्रमसोऽपि तदेव। तथा शुक्रं दीप्यमानं नक्षत्रादिकममृतं देवैः सेव्यं पीयूषमेतदुभयमपि तदेवाधिष्ठानरूपमेव यद्ब्रह्म हिरण्यगर्भरूपं तदपि तदधिष्ठानात्मकमेव। या आपो जलोपलक्षितानि पच्च भूतानि यश्च प्रजापतिर्विराड्रूपस्तदुभयमप्यधिष्ठानरूपमेव। यद्यज्जगदविद्यादृष्ट्या नानाविधं प्रतीयते तत्सर्वं विद्यादृष्ट्याऽखण्डैकरसं ब्रह्मैव। अत एव दृष्टिद्वयमभिप्रेत्य वाजसनेयिन आमनन्ति—“यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति " इत्याविद्यादृष्टिः, “यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् " इति विद्यादृष्टिः। ननु________________________“प्रकृतिः पुरुषश्चैव नित्यौ कालश्च सत्तम” इति विष्णुपुराणे कल्पस्य नित्यत्वाभिधानाद्विद्यादृष्ट्याऽपि ब्रह्मरूपत्वं नास्तीत्याशङ्क्य पुराणस्याविद्यादृष्टिविषयत्वमभिप्रेत्य विद्यादृष्टया कालस्य ब्रह्मत्वविवक्षया ब्रह्मणः सकाशादुत्पत्तिमष्टमीनवमीभ्यां दर्शयति________________________ सर्वे॑ निमे॒षा ज॒ज्ञिरे॑ वि॒द्युतः॒ पुरु॑षा॒दधि॑। क॒ला मु॑हू॒र्ताः काष्ठा॑श्चाहोरा॒त्राश्च॑ सर्व॒शः॥ अ॒र्ध॒मा॒सा मासा॑ ऋ॒तवः॑ संवत्स॒रश्च॑ *कल्पताम्। स आपः॑ प्रदु॒घे उ॒भे इ॒मे अ॒न्तरि॑क्ष॒मथो॒ सुवः॑, इति।

निमिर्नाम जनकस्य पूर्वज आद्यो मिथिलेश्वर आसीदित्युपनिषदि वर्तते। देववरप्रसादाद्येष्वक्षिपक्ष्मपातेषु स वर्तते ते निमिषाः, त एव निमेषा इत्युच्यन्ते। पक्ष्मपातपरिमिताः सूक्ष्माः कालविशेषा इत्यर्थः। ते सर्वेपि विद्युतः स्वयंप्रकाशमानात्पुरुषात्परिपूर्णात्परमेश्वरादधितज्ञिर आधिक्येनोत्पन्नाः। निमेषेभ्योऽप्यधिकाः कालविशेषाः काष्ठाः। ताभ्योऽप्याधिकाः कलाः। ततोऽप्यधिका मुहूर्ताः। तेभ्योऽप्यधिका अहोरात्राः।


  • ख. ग. च. पुस्तकेषु कल्पन्तामिति पाठः।

१ ग. ०मधि०। २ ०त्तमः इति। ३ ख. ०घे इ०। ४ ख. ग. झ. सूक्ष्मका०। ५ ग. ०लाः। ताभ्योऽधि०।

[[694]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १ ]

तथा च पूर्वग्रन्थकारैरुक्तम्________________________ “अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला। तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम्॥ ते तु त्रिंशदहोरात्रः पक्षस्ते दश पञ्च च” इति।

चकारावनुक्तसमुच्चयार्थौ। तदेव सर्वश इत्यनेन स्पष्टी क्रियते। लवत्रुट्यादिकाः सर्वे कालविशेषाः समुत्पन्ना इत्यर्थः। लवत्रुट्योः स्वरूपं पूर्वाचार्यैरुक्तम्________________________ “नलिनीपत्रसंहत्यां सूक्षमसूच्याऽभिभेदने। दले दले तु यः कालः स कालो लववाचकः॥ लवैस्त्रुटिः स्यात्त्रिंशद्भिः " इति॥

अर्धमासाः शुक्लकृष्णपक्षरूपाः। मासाश्चैत्रवैशाखाद्याः। ऋतवो वसन्तग्नीष्माद्याः। ते सर्वेऽपि परमेश्वरादधिजज्ञिरे। तथा संवत्सरश्च प्रभवविभवादिरूपः कल्पतां परमेश्वरादुत्पन्नः। अत एव स्वप्रयोजनसमर्थो भवति। कल्पन्तामिति बहुवचनपाठे सर्वेऽपि कालविशेषाः स्वस्वप्रयोजनसमर्था इति योज्यम्। स परमेश्वरः स्वनिर्मितेन कालविशेषेणोपहितः संस्तत्तत्कालौचित्येनाऽऽपः प्रदुघे जलोपलक्षितां पृथिवीं दुग्धवान्। प्राणिनामपेक्षितं भोग्यजातं पृथिव्या संपादितवानित्यर्थः। तथैवान्तरिक्षमेकं स्थानमथो अपि च सुवः स्वर्गोऽपरं स्थानमिमे उभे स्थाने प्रदुघे। तयोरपिस्थानयोर्भोग्य- वस्तूनि संपादितवामनित्यर्थः।

ननु काललोकादिसर्वकारणस्य सर्वत्रानुगतत्वात्कुतः प्राणिभिरसौ न गृह्यत इत्याशङ्कय तस्य परमात्मन ऊर्ध्वत्वाद्याकारविशेषाभावाद्रूपाद्यभावाच्चेति मन्त्रद्वयेन दर्शयति— नैनंमूर्ध्वं॒ न ति॒र्यञ्चं॒ न मध्ये॒ परि॑जग्रभत्। न तस्ये॑शे॒ कश्च॒न तस्य॑ नाम म॒हद्यशः॑॥ न संदृशे॑ तिष्ठति॒ रूप॑मस्य॒ न चक्षु॑षा पश्यति॒ कश्च॒नैन॑म्। हृ॒दा म॑नी॒षा मन॑साऽभिक्लृ॑प्तो॒ य ए॑नं वि॒दुरमृ॑ता॒स्ते भ॑वन्ति, इति। कश्चिदपि पुरुष एनं परमात्मानं स्तम्भवदूर्ध्वाकारमुपरिस्थितशालावंश- वत्तिर्यगाकारं वा गृहान्तर्वर्तिदेवदत्तवत्क्वचिन्मध्येऽवस्थितं वा न परिजग्रभत्। नैव परिगृह्णाति। ऊर्ध्वाद्याकाराणां तस्मिन्नभावात्। किंच तस्य परमात्मनः कश्चन कोऽपि


१ च. झ. सूच्यभिवेधने। २ ग. ष्णरूपाः पक्षाः। मा। ३ ग. शालीवं०।

[[695]]

[प्रपा॰ १० अनु॰ १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। पुरुषो नेशे नेष्टे मम ग्रहणसौकर्यार्थमीदृग्रूपो भवेति नियन्तुं न समर्थः। अत एव तस्य परमात्मनो महद्यश इति नाम संपन्नम्। अत्यन्तस्वतन्त्रत्वेन तदीययशसोऽभ्यधिकत्वात्। किंचास्य परमात्मनो रूपं नीलपीतादिकं संदृशे प्राणिनां दृष्टिविषये न तिष्ठति। “अशब्दमस्पर्शमरूपम् " इत्यादिश्रुतेः। अतः कश्चन कुशलोऽपि पुमानत्यन्तपटुना चक्षुषैनं न पश्यति। कथं तर्हि गुरुशास्त्रोपदेशयुक्तो गृह्णातीति चेत्। उच्यते। हृदा हृदयपुण्डरीकमध्यवर्तिना मनीषा भौतिकवस्तुगोचराणि मनांसीष्ट इति मनीट्तथाविधेन मनसाऽन्तःकरणेनाभिक्लृप्तः सर्वतो निश्चितो भवति। योगयुक्तं हि मनो लौकिकीर्मनोवृत्तीर्नियमयति। तेन चान्तर्मुखेनै(णै)काग्रेण मनसा परमात्माऽनु भवितुं शक्यते। “दृश्यते त्वग्र्यया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः " इति श्रुतेः। ये पुरुषा एनं परमात्मानमेकाग्रेण मनसा विदुः साक्षात्कुर्वन्ति, ते पुरुषा अमृता मरणरहिता भवन्ति। देहात्प्राणानामुत्क्रान्तिर्मरणं तच्च तत्त्वविदां नास्ति। “न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते " इति श्रुतेः।

उक्तार्थदार्ढ्याय प्रदेशान्तरपठितान्मन्त्रानुदाहरति— अ॒द्भ्यः संभू॑तो हिरण्यग॒र्भ इत्य॒ष्टौ, इति। “अद्भ्यः संभूतः पृथिव्यै रसाच्च " इति इत्ययमनुवाकश्चातुर्होत्रीयचयनमन्त्रप्रकरणे समाम्नातः। तस्यानुवाकस्य प्रदर्शनार्थमद्भ्यः संभूत इति प्रतीकमिदं पठितम्। तस्मिन्ननुवाके “तमेवं विद्वानमृत इह भवति " इति परमात्मतत्त्वविदो मरणराहित्यमुक्तम्। “हिरण्यगर्भः समवर्तताग्रे " इत्याद्या अष्टावृचः संहितायाश्चतुर्थकाण्डे प्रथमप्रपाठके समाम्नाताः। ता अपि वेदितव्यस्य परमात्मन उपलक्षकत्वेन हिरण्यगर्भाद्यभिधानादत्रोपयुक्ताः। यथा हिरण्यगर्भादयः परमात्मोपलक्षकास्तथा परमात्मना सृष्टं दिगादिकं ज गद्विराण्मूर्तिश्च परमात्मानमुपलक्षयतीति मन्त्रद्वयेन दर्शयति– ए॒ष हि दे॒वाः प्र॒दिशोऽनु॒ सर्वाः॒ पूर्वो॑ हि जा॒तः स उ॒ गर्भे॑ अ॒न्तः। स वि॒जाय॑मानः स जनि॒ष्यमा॑णः प्र॒त्यङ्मुखा॑स्तिष्ठति वि॒श्वतो॑मुखः। वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात्। सं बा॒हुभ्यां॒ नम॑ति॒ सं पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एकः॑, इति।


१ ख. च. झ. ०यस्य य०। २ ख. ०देशो गृ०। ३ ख. झ. ०षा लौकिक०। ४ ग. मनसेष्ट। ५ ख. ०किकविषयानिवृत्तं भवति। ६ झ. ०वनीय०। ७ ग. ०ठितत्वान्म०। ८ च. झ. इत्यष्टा०। ९ ख. च. झ. ०तायां चतु०। १० ग. गद्धिरण्यमूर्ति०।

[[696]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १ ] एष विद्वद्भिरनुभूयमानो देवः स्वप्रकाशः परमात्मा प्रदिशः प्रकृष्टाः प्राच्याद्या दिश आग्नेय्याद्या विदिशश्च सर्वा अनुप्रविश्यावस्थितः। प्रवेशस्य श्रुत्यन्तरप्रसिद्धयर्थो हिशब्दः। तथा पूर्वो जातो हिरण्यगर्भस्वरूपत्वेनायमेव प्रथममुत्पन्नः। हिशब्देन “हिरण्यगर्भः समवर्तत " इति मन्त्रप्रसिद्धिः सूच्यते। स उ स एव परमेश्वरो गर्भे अन्तर्ब्रह्माण्डरूपस्य गर्भस्य मध्ये वर्तते। स एव विजायमानो देवतिर्यगादिरूपेणेदानीं जायते। इतः परमपि जनिष्यमाणः स एव। स च प्रत्यङ्, अन्नमयादिकोशेभ्य आन्तरः। मुखा देहेन्द्रियाध्यक्षत्वेन मुख्यः। विश्वतः सर्वतो मुखानि रूपाद्युपलब्धिद्वाराणि चक्षुरादीनि यस्यासौ विश्वातोमुखः। तादृशोऽयं जगदधिष्ठानत्वेन तिष्ठति। स च ब्रह्माण्डरूपं देहं धूत्वा सर्वप्राणिदेहस्वरूपत्वात्तदीयैः सर्वैश्चक्षुरादिभिर्युक्त इति विश्वतश्चक्षुरित्यादिपदैरभिधीयते। तत्तल्लोकनिवासिनां प्राणिनां चक्षूंषि तत्र तत्र स्थितान्येवैतदीयानि भवन्ति। अतोऽस्य सर्वत्र चक्षुष्मत्त्वम्। एवं विश्वतो मुखत्वादिकमपि द्रष्टव्यम्। स च परमेश्वरो बाहुभ्यां संनमति बाहुसदृशाभ्यां धर्माधर्माभ्यां निमित्तकारणाभ्यां सर्वं जगद्वशी करोति। तथा पतत्रैः पतनशीलैः पञ्चीकृतपञ्चमहाभूतैः संनमति सर्व जगदुत्पदयति। एवमयं देवो द्यावापृथिव्यादिकं कृत्स्रं जगदुत्पादयन्नेक एवावतिष्ठते। उक्तार्थे श्रद्धातिशयमुत्पादयितुं मन्त्रद्वयेन गन्धर्ववृत्तान्तं दर्शयति– वे॒नस्तत्पश्य॒न्विश्वा॒ भुव॑नानि वि॒द्वान्यत्र॒ विश्वं॒ भव॒त्येक॑नीळम्। यस्मि॑न्नि॒द ँ सं च॒ वि चैक॒ ँ स ओतः॒ प्रोत॑श्च वि॒ भु प्र॒जासु॑॥ प्र तद्वो॑चे अ॒मृतं॒ नु वि॒द्वान्ग॑न्ध॒र्वो नाम॒ निहि॑तं॒ गुहा॑सु। त्रीणि॑ प॒दा निहि॑ता॒ गुहा॑सु॒ यस्तद्वेद॑ सवि॒तुः पि॒ता स॑त्, इति।

वेनो नाम गन्धर्वः सर्वप्राणिनां गुहासु बुद्धिषु निहितममृतं विनाशरहितं तद्वस्तु स्वानुभवेन विद्वान्प्रवोचे नु शिष्येभ्यः प्रोवाच खलु। कीदृशो वेनः। यत्र यस्मिन्पमात्मवस्तुनि विश्वं सर्वं जगदेकनी डं भवत्येकत्वेन विश्वमविस्थितं सत्तादात्म्यं प्राप्नोति तद्वस्तु गुरुशास्त्रप्रसादेन पश्यन्साक्षात्कुर्वन्विश्वा भुवनानि सर्वानपि लोकान्विद्वा ञ्जानन्वर्तते। आत्मसाक्षात्कारे हि सर्वं जग त्तदात्मकमित्यवगतिर्भवति। किंच ते न दृष्टे यस्मिन्वस्तुनि परमात्मनीदं जगत्सं च वि च समुत्पद्यते विलीनं च


१ झ. ०त्मा प्रकृ०। २ ख. ग. च. ०द्या आ०। ३ ख. ग. ०द्याश्च वि०। च. ०द्याश्च दि०। ४ ख. ग. ०दिशः स०। ५ ख. ०हत्वात्सर्वप्राणिनां। ६ ग. ०त्र चाक्षुष्यत्व०। ७ ग. ०शय्यमु०। ८ ग. ०नीडम्। ९ झ. चैत्येक०। १० ग. विभुः। ११ ख. च. ०नीळं भ०। १२ ख. द्वान्विजान। १३ ख. ०गदेकात्म०। १४ च. झ. वेनेन। १५ झ. वि चैति स०।

[[697]]

[प्रपा॰ १० अनु॰ १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। भवति। एकमद्वितीयतत्त्वरूपः स परमात्मा विभुर्व्यापी सन्प्रजासु सर्वासु दीर्घतन्तुवदोतस्तिर्यक्तन्तुवत्प्रोतश्चावतिष्ठते। गुहासु प्राणिनां बुद्धिषु त्रीणि पदा जाग्रत्स्वप्नसुषुप्तिरूपाणि त्रीणि स्थानानि निहिताऽवस्थितानि। योऽयं गन्धर्वस्तज्जागराद्यधिष्ठानं वेद स गन्धर्वः सवितुरुत्पादकस्य स्वकीयजनकस्यापि पिता सज्जनको भवति। लोकप्रसिद्धिः पिता पुत्रस्य देहमात्रं जनयति। ब्रह्मतत्त्वाभिज्ञस्तु परमात्मरूपेण सर्वजगदुत्पादकत्पादकत्वाल्लोकप्रसिद्धस्य स्वजनकस्यापि समुत्पादको भवति। “यस्ता विजानात्सवितुः पिता सत् " इतिश्रुत्यन्तरात्।

तस्य परमेश्वरस्य व्यवहारकाले सर्वप्राण्युपकारकत्वं परमार्थदर्शिनो मुक्तिप्रदत्वं च मन्त्रद्वयेन दर्शयति________________________ स नो॒ बन्धु॑र्जनि॒ति स वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑। यत्र॑ दे॒वा अ॒मृत॑मानशा॒नास्तृ॒तीये॒ धामा॑न्य॒भ्यैर॑यन्त॥ परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः परि॑ लो॒कान्परि॒ दिशः॒ परि॒ सुवः॑। ऋ॒तस्य॒ तन्तुं॑ विततं वि॒चृत्य॒ तद॑पश्य॒त्तद॑भवत्प्र॒जासु॑, इति।

स परमेश्वरो नोऽस्माकं सर्वेषां बन्धुः। अस्मदनुष्ठितसुकृतानुसारेण हित- कारित्वात्। जनितोत्पादकः। सर्वस्रष्टृत्वात्। स च विधाता जगतो निर्माता सन्विश्वा भुवनानि सर्वानुत्तमाधमलोकान्धामानि तेषु लोकेषु देवादीनां योग्यानि स्थानानि च वेद जानाति। यत्र तृतीये लोके स्वर्गाख्ये देवा इन्द्रादयोऽमृतमानशानाः सुधां पिबन्तो धामानि स्वकीयस्थानान्यभ्यैरयन्त सर्वतः प्राप्तवन्तः। तत्सर्वं विदित्वा तत्तदनुष्ठितकाम्यकर्मानुसारेण फलं प्रयच्छतीत्यर्थः। ये तु मुमुक्षवस्ते सर्वे विदिततत्त्वाः सन्तो द्यावापृथिवी लोकद्वयं सद्यः परियन्ति बोधक्षण एव सर्वतो व्याप्नुवन्ति। तथा लोकानवशिष्टानन्तरिक्षादीन्परियन्ति। दिशः प्राच्याद्याः परियन्ति। सुवः स्वर्गलोकभोगं परियन्ति। सर्वात्मकत्वेन सर्वव्याप्तिरुक्ता। ऋतस्य सत्यस्य परब्रह्मणस्तन्त-भविच्छेदेनावस्थानं विततं विस्तीर्णं यथा भवति तथा विचृत्य गुरुशास्त्रमुखान्निश्चित्य तद्ब्रह्मतत्त्वमपश्यद्यः साक्षात्कृतवान्स एव प्रजासु मध्ये तद्ब्रह्मतत्त्वमभवत्। तथाच श्रुत्यन्तरम्–” ब्र ह्म वेद ब्रह्मैव भवति " इति।

अम्भस्य पार इत्यादिना तदभवत्प्रजास्वित्यन्तेन ग्रन्थेन प्रतिपादितां ब्रह्म-विद्यामुपसंहरति– प॒रीत्य॑ लो॒कान्प॒रीत्य॑ भू॒तानि॑ प॒रीत्य॒ सर्वाः॑ प्र॒दिशो॒ दिश॑श्च।


१ ख. च. झ. ०पि स्वयमु०। २ च. झ. यस्तं वि०। ३ ख. झ. ०त्स पितुः। ४ ग. विवृत्य। ५ ग. झ. ततः सर्वं। ६ झ. ०च्छन्तीत्य०। ७ ग. तस्य। ८ ग. ०मवच्छे०। ९ ग. विवृत्य। १० ग. ०ह्मविद्ब्रह्मै०। ८८

[[698]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १ ] प्र॒जापतिः प्रथम॒जा ऋ॒तस्या॒ऽऽत्मान॑म॒भिसंब॑भूव, इति। ऋतस्य सत्यस्य ब्रह्मणः प्रथमजाः प्रथमकार्यभूतः प्रजापतिर्हिण्यगर्भो लोकान्भूरादीन्भूतानि देवमनुष्यादिप्राणिदेहान्प्रदिश आग्नेय्याद्या दिशश्च प्राच्याद्याः परीत्य सर्वतो व्याप्य सृष्टिकाले सृष्ट्वा पुनरपि परीत्य स्थितिकाले रक्षित्वाऽऽत्मना स्वस्वकूपेण तद्विषयकतत्त्वज्ञानेनेत्यर्थः। आत्मानं सत्यज्ञानादिलक्षणमभिसंबभूव सर्वतः सम्यक्प्राप्तवान्।

तदेवं ब्रह्मविद्या प्रतिपादिता। अथ तत्प्राप्तिसाधनभूताः सोपाधिकब्रह्म-ध्यानजपस्नानादिकर्माङ्गभूता मन्त्राः कर्मकाण्डे पूर्वमनुक्ता अस्मिन्खिल-काण्डेऽभिधीयन्ते। तत्रैकेन मन्त्रेण ब्रह्मप्राप्त्यर्थमन्तर्यामिणं प्रार्थयते— सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म्। सनिं॑ मे॒धाम॑यासिषम्, इति। सीदत्यस्मिन्नव्याकृते कारणे सर्वं जगदिति सदः। तस्य पतिं पालकमन्तर्या- मिणमयासिषमहं प्राप्तवानस्मि। शीघ्रं प्राप्तवानित्यनया विवक्षया भूतार्थनिर्देशः। कीदृशं सदसस्पतिम्। अद्भुतमाश्चर्यरूपम्। मनसाऽप्यचिन्त्यरचनारूपस्य जगतोऽनायासेन निर्मातृत्वमद्भुतत्वम्। इन्द्रस्य देवराजस्यापि प्रियम्। सोऽप्यन्तर्यामिणं कदा प्राप्स्यामीत्येवमाशास्ते। अत एव सर्वैरन्यैः काम्यमपेक्षणीयम्। सनिं कर्मफलस्य दातारम्। मेधां श्रुताधीतग्रन्थधारणशक्तिं प्रयच्छन्तमिति शेषः।

अथ वह्न्युपाधिकं परमेश्वरं प्रतीष्टप्राप्तिं प्रार्थयते– उद्दी॑प्यस्व जातवेदोऽप॒घ्नन्निर्ऋतिं॒ मम॑। प॒शू ँश्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश, इति। जाते प्राणिशरीरे जाठराग्निस्वरूपेण विद्यतेऽवतिष्ठत इति जातवेदाः। अथवा जातानुत्पन्नान्यजमानांस्तत्तत्फलदानाय वेत्ति स्वचित्ते निश्चिनोतीति जातवेदाः। हे जातवेदो मदनुग्रहार्थमुत्कर्षेण दीप्यस्व। किं कुर्वन्। ममानिष्टकारिणीं निर्ऋतिं पापदेवतामपघ्नन्विनाशयन्। तां विनाश्य ततो [मह्यं ] मदर्थं पशून्गवादीञ्जीवनं दीर्घायुष्यं चकाराभ्यामन्यदपि सर्वं भोग्यजातमावह संपादय। ततः सुखनिवासार्थं दिशः प्राच्याद्या निवासयोग्यानि तत्तद्दिग्गतस्थानानि दिश देहि। संपादितानां गवाश्वादीनामविनाशं प्रार्थयते________________________ मा नो॑ हि ँसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं जग॑त्।


१ ख. ०य्याद्याः प्रा०। २ ख. ०तार्थेऽयं नि०। ३ ग. च. झ. ०द्दिगन्तस्था०।

[[699]]

[प्रपा॰ १० अनु॰ १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय, इति।

हे जातवेदस्त्वत्प्रसादान्मदीयं गवादिकं निर्ऋतिर्मा हिंसीन्मा विनाशयतु। जगच्छब्देन गवादिव्यतिरिक्तं गृहक्षेत्रादिकं विवक्षितम्। हेऽग्ने त्वमबिभ्रदधारयन्नस्मदपराधं मनस्यधारयित्वाऽऽगहि अस्मदनुग्रहार्थमागच्छ। ततो मां श्रिया धनधान्यादिसंपदा परिपातय सर्वतः प्रापय। इत ऊर्ध्वं तेषु तेषु देशेषु श्रुतिपाठा अत्यन्तविलक्षणाः। तत्र विज्ञानात्मप्रभृतिभिः पूर्वैर्निबन्धकारैर्द्राविडपाठस्याऽऽदृतत्वाद्वयमपि तमेवाऽऽदृत्य व्याख्यास्यामः। *तत्र षड्भिर्गायत्रीभिरात्मप्राप्तिद्वारभूता देवताविशेषाः प्रार्थ्यन्ते। तत्राऽऽदौ विश्वरूपधरं रुद्रं प्रार्थयते— पुरु॑षस्य विद्म सहस्रा॒क्षस्य॑ महादे॒वस्य॑ धीमहि। तन्नो॑ रुद्रः प्रचो॒दया॑त्, इति।

“विश्वतश्चक्षुः " इत्यादिमन्त्रोक्तो विराट्पुरुषः सहस्राक्षः, तस्य पुरुषस्य स्वरूपं विद्म जानीमहि लभेमहि वा। तदर्थं तस्य विराड्रूपस्य महादेवस्य स्वरूपं धीमहि ध्यायेम। तत्तत्र ध्याने नोऽस्मान्‍रुद्रो विराड्रूपो महादेवः प्रचोदयात्प्रचोदयतु प्रेरयतु।

अथ “बिभ्रद्दोर्भिः कुठारं मृगमभयवरौ सुप्रसन्नो महेशः " इत्याद्यागमप्रसिद्धमूर्तिधरं रुद्रं प्रार्थयते— तत्पुरु॑षाय विद्म॒हे॑ महादे॒वाय॑ धीमहि। तन्नो॑ रुद्रः प्रचो॒दया॑त्, इति। तमागमप्रसिद्धं पुरुषाकारं महादेवं जानीमो ध्यायाम च। तत्तस्मिन्ध्यानेऽ- स्मान्‍रुद्रः प्ररेयतु। “बीजापूरगदेक्षुकार्मुक " इत्यागमप्रसिद्धमूर्तिधरं विनायकं प्रार्थयते– तत्पुरु॑षाय वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि। तन्नो॑ दन्तिः प्रचो॒दया॑त्, इति।

गजसमानवक्त्त्रत्वेन दीर्घस्य तुण्डस्य रत्नकलशादिधारणार्थं वक्रत्वम्। दन्तिर्महादन्तः।


  • तत्रशब्दानन्तरं—“द्वादशगायत्रीणां मध्ये " इत्यधिकं —च. पुस्तके प्रक्षिप्तम्।

१ च. झ.अत। २ ख. ग. ०न्धनका०। ३ ग. च. ध्यायेम। ४ क. ०यामः। त०। ५ ख. ०त्याद्याग०।

[[700]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १ ] पुराणादिषु प्रसिद्धं पक्षिराजमूर्तिधरं देवं प्रार्थयते– तत्पुरु॑षाय वि॒द्महे॑ सुवर्णप॒क्षाय॑ धीमहि। तन्नो॑ गरुडः प्रचो॒दयात्, इति। शोभनपतनसाधनपक्षोपेतः सुवर्णपक्षः*। “हेमप्रख्यामिन्दुखण्डाङ्कमौलिम् " इत्यागमप्रसिद्धमूर्तिधरीं दुर्गां प्रार्थयते— का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि। तन्नो॑ दुर्गिः प्रचो॒दया॑त्, इति।

कृत्तिं वस्त इति कात्यो रुद्रः। स एवायमनधिष्ठानमुत्पादको यस्या दुर्गायाः सा कात्यायनी। कुत्सितमनिष्टं मारयति निवारयतीति कुमारी। कन्या चासौ कुमारी चेति कन्यकुमारी। दुर्गिर्दुर्गा। लिङ्गादिव्यत्ययः सर्वत्र च्छान्दसो द्रष्टव्यः। “अर्कौघाभं किरीटान्वितमकरलसत्कुण्डलम् " इत्याद्यागमप्रसिद्धमूर्तिधरं देवं प्रार्थयते— ना॒रा॒य॒णाय॑ वि॒द्महे वासुदे॒वाय॑ धीमहि। तन्नो॑ विष्णुः प्रचो॒दया॑त्, इति। नरशरीराणामुपादानरूपाण्यन्नादिपञ्चभूतानि नारशब्देनोच्यन्ते। तेषु भूतेषु या आपो मुख्यास्ता अयनमाधारो यस्य विष्णोः सोऽयं नारायणः। समुद्रजलशायीत्यर्थः।

तथा च स्मर्यते— “आपो नारा इति प्रोक्ता आपो वै नरसूनवः। अयनं तस्य ताः प्रोक्तास्तेन नारायणः स्मृतः” इति स च कृष्णावतारे वसुदेवस्य पुत्रत्वाद्वासुदेवः। स च स्वकीयेन वास्तवेन परब्रह्मरूपेण व्यापित्वाद्विष्णुः। ता एता गायत्र्यश्चित्तशुद्ध्यर्थ ध्यानपुरःसरं जपितव्याः। अथ स्नानाङागभूता मन्त्रा उच्यन्ते। तत्र शिरसि मृत्तिकया सह दूर्वां धारयितुं दुर्वाभिमन्त्रणमन्त्रमाह— स॒ह॒स्र॒पर॑मा दे॒वी॒ श॒तमू॑ला श॒ताङ्कु॑रा। सर्व ँ॑

  • एतदनन्तरं च. पुस्तके प्रथमं नारायणगायत्रीभाष्यं ततो दुर्गागायत्रीभाष्यमिति क्रमः। तत्र नारायणगायत्रीभाष्यसमाप्त्यनन्तरम्—अथाऽऽन्ध्रपाठे गायत्रीपाठः। वज्रनखेति। भास्करेति। वैश्वानरेति। एता उपेक्षिताः " इत्यधिकं प्रक्षिप्तम्।

१ ख. ०नप्रसा०। २ ख. ग. ०ण्डान्तमौ०। ३ ग. ०मारी धी०। ४ ग. कार्त्यो। ५ ग. झ. कार्त्याय०। ६ झ. ०रीरोपा०। ७ झ. ०र्थं देवताध्या०।

[[701]]

[प्रपा॰ १० अनु॰ १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। हरतु॑ मे पा॒पं॒ दु॒र्वा दुः॑स्वप्न॒नाशि॑नी, इति। येयं दूर्वाभिमानिनी देवता सा मे पापं सर्वं हरतु। कीदृशी, सहस्रसंख्याकेभ्यः पावनहेतुभ्यो द्रव्येभ्यः परमोत्कृष्टा। सा च देवी द्योतनात्मिका। शतसंख्याकानि मूलानि यस्याः सा शतमूला। तथा शताङ्कुरा। शतशब्देन बहुत्वमात्रमत्रोपलक्ष्यते। दुःस्वप्नकृतमनिष्टफलं नाशयतीति दुःस्वप्ननाशिनी।

अथ मृत्तिकाभिमन्त्रणन्त्राः, तत्र प्रथममन्त्रमाह— अश्व॑क्रा॒न्ते र॑थक्रा॒न्ते वि॒ष्णुक्रा॑न्ते व॒सुंध॑रा। *शिरसा॑ धारिता देवी र॒क्ष॒स्व मां पदे॒ पदे, इति।

येयं भूमिस्तामश्वाः शुद्धिहेतवः स्वपदैराक्रामन्ति, तादृशी भूमिरश्वक्रान्ता। अग्निचयन उखानिर्माणार्थं भूखननप्रदेशस्याश्वाक्रमणविधानादश्वपादानां मृच्छुद्धिहेतुत्वं गम्यते। तथा रथक्रान्ता पथसंचरणेन क्षुण्णा सती शुद्धा भवति। तथा त्रिविक्रमावतारे विष्णुः स्वपदेन भूमिमाक्रामति ततोऽपि शुद्धत्वम्। अश्वरथविष्णुभिराक्रान्ते शुद्धे हे भूमे वसुंधरा सर्वाणि वसूनि धारयन्ती सती स्नानकर्मण्येतस्मिन्मदीयशिरसा धारिता देवी द्योतमाना त्वं मां स्नानार्थं जलमध्ये गच्छन्तं पदे पदे रक्षस्व।

द्वितीयमन्त्रमाह________________________ उ॒द्धृता॑ऽसि व॑राहे॒ण॒ कृ॒ष्णे॒न श॑तबा॒हुना। भूमिर्धेनुर्धरणी लो॑कधा॒रिणी, इति। हे मृत्तिके त्वं भूमिरूपा सती कृष्णवर्णेन शतसंख्याकबाहुयुक्तेन वराहावतारेण पूर्वमुद्धृताऽसि। कीदृशी भूमिः। धेनुः कामधेनुवत्प्रीणयित्री। धरणी सत्या(स्या?)नां धारयित्री। लोकधारिणी प्राणिनामपि धारयित्री।

तृतीयमन्त्रमाह— मृ॒त्तिके॑ हन॑ मे पा॒पं॒ य॒न्म॒या दु॑ष्कृतं॒ कृतम्। +त्वया हतेन पापेन जीवामि शरदः शतम्, इति स्पष्टोऽर्थः।


  • एतत्पदद्वयमनिश्चितस्वरकम्। + इदमर्धमज्ञातस्वरकम्।

१ ख. ०तमाना०। २ ख. ०ङ्कुराऽत्र श०। ३ ख. च. ०त्रमुप०। ४ ग. झ. धारयिष्यामि र०। ५ झ. ०श्वाक्रम०। ६ ग. स्वयं प०। ७ ख. ०ती तथा स्रा०। ८ ख. ०तीयं म०। ९ ख. झ. ०तीयं म०।

[[702]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १ ] पादद्वयात्मकं चतुर्थं मन्त्रमाह– मृ॒त्तिके॑ देहि॑ मे पु॒ष्टिं॒ त्व॒यि स॑र्वं प्रतिष्ठि॑तम्, इति। यद्यत्पुष्टिसाधनं यवगोधूमादिद्रव्यं तत्सर्वं हे मृत्तिके त्वयि प्रतिष्ठितम्। तस्मान्मह्यं पुष्टिं देहि।

पञ्चममन्त्रमाह— ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी॑म्। ई॒श्वरी॑ ँ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम्, इति।

तां मृत्तिकाभिमानिनीं देवतामिहास्मिन्स्नानकर्मण्युपह्वये सामीप्येऽऽह्वयामि। कीदृशीम् गन्धद्वारां घ्राणग्राह्यो गन्ध उपलब्धिद्वारं यस्यः सा गन्धद्वारा। अत एव गन्धवती पृथिवीति तार्किका लक्षणमाहुः। दुराधर्षां प्रतिकूलैः पुरुषैरसुरादिभिराधर्षितुं तिरस्कर्तुमशक्याम्। नित्यपुष्टां सर्वदा व्रीह्यादिधान्यैः परिपूर्णाम्। करीषिणीं बहुलेन गोमयेन युक्तां गोमहिष्यादिपशुयुक्तामित्यर्थः। सर्वभूतानां देवतिर्यङ्मनुष्यरूपाणां प्राणिदेहानामीश्वरीमुत्पादकत्वेन नियन्त्रीम्। श्रियं सर्वैः सेव्याम्। नाभिदघ्ने जले प्रविश्य जलाभिमन्त्रणमन्त्रमाह— सु॒मि॒त्रा न॒ आप॒ ओष॑धयः सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः, इति।

या एता आपस्ता एतास्तज्जन्या व्रीहियवाद्योषधयश्च नोऽस्मान्प्रति सुमित्राः स्नानपानभोजनादावनुकूलाः सन्तु। यः शत्रुरस्मासु द्वेषं करोति यस्मिंश्च वयं द्वेषं कुर्म उभयविधाय तस्मै शत्रवे दुर्मित्राः प्रतिकूला भूयासुः स्नानपानभोजनादौ ज्वराजीर्णादिकमुत्पादयन्तु।

एतैर्मन्त्रैरभिमन्त्रितां मृत्तिकामनुलिप्य नद्यादिजलप्रदेशे जलाधिपतिप्रार्थनार्थं मन्त्रद्वयमाह– हिर॑ण्यशृङ्गं॒ वरु॑णं प्रप॑द्ये ती॒र्थं मे॑ देहि॒ याचि॑तः। य॒न्माया॑ भु॒क्तम॒साधू॑नां पा॒पेभ्य॑ प्र॒तिग्र॑हः॥ यन्मे॒ मन॑सा वा॒चा॒ क॒र्म॒णा वा दु॑ष्कृतं॒ कृतम्। तन्न॒ इन्द्रो॒ वरु॑णो॒ बृ॒ह॒स्पतिः॑ सवि॒ता च॑ पुनन्तु॒ पुनः॑ पुनः, इति।


१ ख. ०ञ्चमं म०। २ झ. देवीभि०। ३ ग. व्रीहिधा०। झ. व्रीहियवादि०। ४ ०हिषादि०। ५ झ. ०नादिष्वनु०। ६ ख. ग. ०नभो०।

[[703]]

[प्रपा॰ १० अनु॰ १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। सुवर्णमयशृङ्गवदुपर्यवस्थितं मुकुटं यस्यासौ हिरण्यशृङ्गः, तादृशं वरुणं जलाधिपतिं प्रपद्येऽनुग्रहार्थं प्राप्नोमि। तादृशो वरुणस्त्वं मया याचितः प्रार्थितः संस्तीर्थमवतरणस्थानं मे देहि। किंचसाधूनां पापिनां गृहे मया यद्भुक्तं तथा पापेभ्यः पापिनां सकाशात्प्रतिग्रहश्च यः कृतोऽन्यदपि यद्दुष्कृतं कृतं मानसं वाचिकं कायिकं वाऽनुष्ठितं मे मदीयं तत्सर्वमिन्द्रादयो देवास्तदा तदा पुनन्तु शोधयन्तु।

जलावस्थितदेवान्प्रति नमस्कारमन्त्रं दर्शयति— नमो॒ऽग्नये॑ऽप्सु॒मते॒ नम॒ इन्द्रा॑य॒ नमो॒ वरु॑- णाय॒ नमो वारुण्यै॑ नमो॒ऽद्भ्यः, इति।

आपो यस्याग्नेः सन्ति सोऽयमप्सुमान्, जलमध्ये निगूढ इत्यर्थः। तथाविधायाग्नय इन्द्राय वरुणाय वारुण्यै वरुणपत्न्यै जलाभिमानिदेवताभ्यश्च नमस्कारोऽस्तु।

निमज्जनप्रदेशे दुष्टजलापनयनमन्त्रमाह— यद॒पां क्रू॒रं यद॑मे॒ध्यं यद॑शा॒न्तं तदप॑गच्छतात्, इति। अपां संबन्धि यत्क्रूरं रूपं मरणकारणमावर्तादिकं यच्चामेध्यं निष्ठीवनादिदुष्टं यदप्यशान्तं वातश्लेष्मादिजनकं तत्सर्वमस्मान्निमज्जनप्रदेशादपगच्छतु।

निमज्जनमन्त्रावाह— अ॒त्या॒श॒नाद॑तीपा॒ना॒द्य॒च्च उ॒ग्रात्प्र॑ति॒ग्रहा॑त्। य(त)न्मे॒ वरु॑णो रा॒जा॒ पा॒णिना॑ ह्यव॒मर्श॑तु॥ सो॑ऽहम॑पा॒पो वि॒रजो॒ निर्मु॒क्तो मु॑क्तकि॒ल्बिषः। नाक॑स्य पृ॒ष्ठमारु॑ह्य॒ गच्छे॒द्ब्रह्म॑सलो॒कताम्, इति।

देवपितृमनुष्यादियज्ञमतीत्य भुक्तमत्याशनम्, देवर्षिपितृतर्पणमतीत्य पीतमुदकमतीपानम्, अशास्त्रवर्ती यः पुमांस्तस्माद्यो धनप्रतिग्रहः, एतैरत्य- शनातिपानदुष्प्रतिग्रहैः संपादितं यत्पापं मे मदीयं तत्सर्वं वरुणो राजा जलस्वामी स्वकीयेन पाणिनाऽपनयतु। ततः पापरहितः सोऽहं रजोगुणरहितः संसारकारणराद्वेषादिदोषान्निर्मुक्तोऽत एवानुष्ठास्यमानपापरहितः स्वर्गस्योपरिभागमारुह्य ब्रह्मणा हिरण्यगर्भेण समानभोक्तृत्वं गच्छेद्गच्छेयम्।


१ झ. ०मयं शृ०। २ ख. ०पं मार०। ३ झ. ०मस्ममत्रि०। ४ ग. झ. ०त्। तन्नो व०। ५ ख. ०वऋषिपि०। ६ ग. झ. ०म्, उच्छास्त्र०। ७ ख. ०रप्यत्याश०। ८ ख. ०नातीपा०।

[[704]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १ ] तीर्थभूतानां गङ्गादिनदीनामावाहनमन्त्रमाह— इ॒मे मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोम॑ ँ सचता॒ परु॒ष्णिया। अ॒सि॒क्रि॒या म॑रुद्वृधे वि॒तस्त॒याऽऽर्जी॑कीये शृणु॒ह्या सु॒षोम॑या, इति।

हे गङ्गाद्या नद्यो यूयं परुष्ण्यादिर्भिर्नदीभिः सह मे मदीयमिमं स्तोमं स्तोत्रं शृणुहि शृणुत। श्रुत्वा तत्राऽऽसचताऽऽगत्य जले तद्वारेण मयि च समवेता भवत। गङ्गायमुनासरस्वत्यः प्रसिद्धाः। शुतुद्रीति नद्यन्तरस्य संबोधनम्। मरुद्वृध आर्जीकीय इत्यन्ययोर्नद्योः संबोधनद्वयम्। परुष्णियाऽसिक्रिया वितस्तया सुषोमयेति पदचतुष्टयं तृतीयान्तं नदीचतुष्टयवाचकम्।

जले निमग्नस्य प्राणायामार्थमघमर्षणसूक्तमाह— ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत। ततो॒ रात्रि॑रजायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः। स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत। अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी। सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्प- यत्। दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ सुवः॑, इति।

ऋतं मनसं यथार्थसंकल्पनम्। सत्यं वाचिकं यथार्थभाषणम्। चकाराभ्यामन्यदपि शास्त्रीयं धर्मजातं समुच्चीयते। तत्सर्वमभीद्धादभितः प्रकाशमानात्परमात्मन उत्पन्नम्। कदा समुत्पन्नमित्युच्यते। तपसोऽधि स्रष्टव्यपर्यालोचनलक्षणात्तपस ऊर्ध्वम्। “स तपस्तप्त्वा। इद ँ सर्वमसृजत " इति श्रुत्यन्तरात्। “यस्य ज्ञानमयं तपः " इति श्रुत्यन्तराच्च।ततः स्वप्रकाशात्परमेश्वराद्रात्रिरुत्पन्ना।अहोऽप्येतदुपलक्षणम् । तत- स्तस्मात्परमेश्वरात्समुद्र उत्पन्नः। सामान्योक्तस्य लवणोदक्षीरोददध्यादिविशेषमभिप्रेत्यार्ण-वशब्देन पुनर्विशेष्यते। अवान्तरभेदयुक्तात्समुद्रादध्यूर्ध्वं संवत्सरोपलक्षितः कृत्स्नः कालः समुत्पन्नः। स चोत्पादकः परमेश्वरोऽहोरात्रोपलक्षितान्सर्वा-न्कालविशेषान्विदधत्सृजन्मिषतो निमेषादियुक्तस्य विश्वस्य सर्वस्य प्राणिजातस्य वशी स्वामी भूत्वा वर्तते। स तादृशो धाता परमेश्वरः सूर्यादिदेवान्पृथिव्यादिलोकांश्च यथापूर्वमतीतसृष्टौ यस्य यादृशं रूपं तादृशमनतिक्रम्याकल्पयत्संकल्पमात्रेण संपादितवान्। दिवं चेत्युपात्तत्वात्सुवःशब्देन भोगविशेषो विवक्षितः।


१ ख. श्रुतुद्रि। २ ख. ०थार्थं सं०। ३ ख. ०थार्थं भा०। ४ ख. ०मिति तदुच्य०। ५ ख. ग. ०नक्ष०। ६ ख. ०न्नः। स समात्तस्य। ७ ख. ०न्नः। तस्याप्युत्पा०। ८ ख. ०धदसृज०।

[[705]]

प्रपा॰ १० अनु॰ १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। अघमर्षणं कृत्वा तत ऊर्ध्वमगाहनार्थास्तिस्र ऋचो दर्शयति– यत्पृ॑थि॒व्या ँ रजः॑ स्व॒मान्तरि॑क्षे वि॒रोद॑सी। इ॒मा ँस्तदा॒पो व॑रुणः पु॒नात्व॑घमर्षणः। ए॒ष भू॒तस्य॑ म॒ध्ये भुव॑स्य गो॒प्ता। ए॒ष पु॒ण्यकृ॑तां लो॒का॒ने॒ष मृ॒त्योर्हि॑र॒ण्मय॑म्। द्यावा॑पृथि॒व्योर्हि॑र॒- ण्मय ँ स ँ श्रि॑त ँ सुवः॑। नः॒ सुवः॒ स ँ शि॑शाधि, इति।

पृथिव्यां वर्तमानामस्माकं स्वं रजः स्वकीयं पापं यदस्ति। आन्तरिक्षे सर्वतोऽन्तरिक्षलोके विरोदसी विशेषेण रोदस्योर्द्यावापृथिव्योर्यत्पापमस्ति। अत्र रोदस्योः पृथगुक्तत्वात्पृथिव्यामितिपदेन भूमेरधस्ताद्वर्तमानः पाताललोको विवक्षितः। सर्वेष्वपि लोकेषु तत्तज्जन्मान्युनुभवतामस्माकं यत्पापमासीत्तत्सर्वं पापं तदनुष्ठातॄनिमानस्मांश्च वरुणः पुनातु शोधयतु। पापं विनाश्य शुद्धानस्मान्करोतु। कीदृशो वरुणः। आपो जलस्वामित्वेन तद्रूपः। अघानि मर्षयति विनाशयतीत्यघमर्षणः। तादृश एष वरुणो भूतस्यातीतस्य भुवनस्य प्राणिजातस्य गोप्ता रक्षिता। तथा *भाव्यस्य भविष्यतोऽप्यग्रतो गोप्ता। एष वरुणः पुण्यकृतां ज्योतिष्टोमादिकारिणां लोकान्प्रयच्छतीति शेषः। एष वरुणो मृत्योः सर्वप्राणिमारकस्य यमस्य संबन्धिनं हिरण्मयं लोकविशेषं पापिनां प्रयच्छतीति शेषः। यत्र हिरण्मयं ब्रह्माण्डरूपं सुवः स्वर्गशब्दाभिधेयं द्यावापृथिव्योर्द्युलोकभूलोकयोः संश्रितं प्रवर्तते। हे वरुण स त्वं नोऽस्मान्प्रति सुवस्तादृशं स्वर्गलोकं संशिशाधि सम्यगनुगृहाण। इति तिसृभिर्ऋग्भिः स्नातवतः पुरुषस्याऽऽचमनार्थं मन्त्रमाह— आर्द्रं॒ ज्वल॑ति॒ ज्यो॑तिर॒हम॑स्मि। ज्योति॒र्ज्वल॑ति॒ ब्रह्मा॒ह- म॑स्मि। यो॑ऽहम॑स्मि॒ ब्रह्मा॒हम॑स्मि। अ॒हम॑स्मि॒ ब्रह्मा॒हम॑स्मि। अ॒हमे॒वाहं मां जु॑होमि॒ स्वाहा॑, इति।

यदेतदुदकरूपमार्द्रं तदेतत्स्वाधिष्ठानचैतन्येन ज्वलति प्रकाशते। तच्चधिष्ठानचैतन्यरूपं ज्योतिरहमस्मि। देहेन्द्रियादिभ्यो विवेचितस्या मम तदेव जलाधिष्ठान-


*मध्येपदस्य व्याख्यानमेतत्। मध्येपदस्थाने भाव्यस्येति वा पाठः कल्प- नीयः


१ ख. ०तोऽप्यागामिनोऽपि गो०। २ ख. ब्रह्मलोकं। ३ ख. ०ण.। ति०। ४ ग. झ. ०नरू०। ५ ग. झ. ०देवाधि०। ८९

[[706]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १ ] चैतन्यं स्वरूपमित्यर्थः। तदेवोपपाद्यते—यज्ज्योर्ज्वलतीत्युक्तं तज्ज्योतिर्ब्रह्मैव। अतो ज्योतिरहमस्मीति वाक्येन ब्रह्माहमस्मीत्युक्तं भवति। न च पूर्वसिद्धं जीवात्मनः स्वरूपं विनाश्य रूपान्तरस्य ब्रह्मत्वलक्षणस्य प्राप्तिर्भवति। किंतु योऽहं पुराजीवोऽस्मि स एवेदानीमहं ब्रह्मास्मि। वस्तुतो ब्रह्मण्येव मयि पूर्वमज्ञानाज्जीवत्वमारोपितमासीत्। तस्मिन्नज्ञाने विवेकेनापनीते सति वस्तुतः पूर्वसिद्धमेव ब्रह्मस्वरूपमिदानीमनुभविताऽस्मि, नतु नूतनं किंचिद्ब्रह्मत्वमागतम्। तस्मादहमेवाहं ब्रह्मभावानुभववेलायामपि पूर्वसिद्धोऽहमेव न तु योषित्यग्निध्यानवदुपचरितं ब्रह्मत्वम्। तादृशोऽहं जलरूपं मां जुहोमि उदराग्नौ प्रक्षिपामि। हविष्प्रदानवाची स्वाहाशब्दः। मद्देहवर्तिभ्यो देवेभ्यो जलरूपं हविर्दत्तमित्यर्थः।

आचमनादूर्ध्वं पुनरपि स्नाने मन्त्रमाह— अ॒का॒र्य॑का॒र्य॑वकी॒र्णी स्ते॒नो भ्रू॑ण॒हा गु॑रुत॒ल्पगः। वरु॑णो॒ऽपाम॑घमर्ष॒णस्तस्मा॑त्पा॒पात्प्रमु॑च्यते, इति। अकार्यं शास्त्रप्रतिषिद्धं कलञ्जभक्षणादिकं तत्कर्तुं शीलं यस्यासावकार्यकारी प्रतिषिद्धस्त्रीगमनवानवकीर्णी। ब्राह्मणसुवर्णहर्ता स्तेनः। वेदवेदाङ्गविद्ब्राह्मणो गर्भो वा भ्रूणस्तं हन्तीति भ्रूणहा। गुरुदारगामी तु गुरुतल्पगः। एतादृशपापकारिणमपि मामघमर्षणः पापविनाशकोऽपां स्वामी वरुणस्तस्मात्सर्वस्मात्पापात्प्रमुच्यते मोचयति।

रहस्यपापक्षयार्थे स्नानमन्त्रमाह– र॒जोभूमि॑स्त्व॒ मा ँ रोद॑यस्व॒ प्रव॑दन्ति॒ धीराः। *पु॒नन्तु॒ ऋष॑यः पु॒नन्तु॒ वस॑णः पु॒नातु॒ वरु॑णः पु॒नात्व॑घमर्ष॒णः, इति। रजो रजसः पापस्य भूमिः स्थानभूतोऽहमतो हे देव त्वं तत्पापफलभूतया यातनया मां रोदयस्व। यद्यप्येतत्तवोचितं तथाऽपि धीरा बुद्धिमन्तः शास्त्रपारं गता मामनुगृह्णन्त एवं प्रवदन्ति। तदीयं वाक्यमुदाह्रियते ऋषयो व सिष्ठादिमुख्या एनं स्नानकारिणं पुनन्तु शोधयन्तु। तथा वसवोऽष्टसंख्याका देव एनं पुनन्तु। वरुणोऽप्येनं पुनातु। अघमर्षणः पापविनाशकोऽन्योऽपि देव एनं पुनातु। एवं धीरैर्महद्भिरनुगृहीतत्वादृष्यादिभिः पूतं मां त्वमपि यमदेव मा बाधस्व किंत्वनुगृहाणेत्यर्थः।


  • पदद्वयमनिश्चितस्वरकम्।

१ ख. ग. ०ते। ज्योति०। २ ग. ०सिद्धजी०। ३ ख. ०द्ब्रह्मात्मत्व०। ४ ख. ०ह्मत्वानु०। ५ ख. ०र्णी क्षचव्रतः। ब्रा०। ६ ख. ०ह्मणस्तद्गर्भो। ७ झ. ०ति मोचयतु। र०। ८ ग. ०मिस्त्वं मा ँ। ९ झ. ०यात०। १० ग. वशिष्ठमु०। ११ ख. ग. ०स्व, अनु०।

[[707]]

[प्रपा॰ १० अनु॰ १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। स्नानादूर्ध्वं जप्यं मन्त्रमाह– आक्रा॑न्त्समु॒द्रः प्र॑थ॒मे विध॑र्मञ्ज॒नय॑न्प्र॒जा भुव॑नस्य॒ राजा॑। वृषां॑ प॒वित्रे॒ अधि॒ सानो॒ अव्ये॑ बृ॒हत्सोमो॑ वावृधे सुवा॒न इन्दुः॑, इति।

समुद्रवत्प्रौढत्वात्संमोदाख्यपरमानन्दस्वभावत्वाद्वा समुद्रः परमात्मा। स च सर्वं जगदाक्रानाक्रान्तवान्व्याप्तवान्। किं कुर्वन्। प्रथमे सृष्टेरादिकाले प्रजा जनयन्। कीदृशे प्रथमकाले विधर्मन्प्राणिभिः पूर्वकल्पेऽनुष्ठिता विविधा धर्मा यस्मिन्काले स्वफलदानार्थमुद्बोध्यन्ते सोऽयं विधर्मा तस्मिन्। स च परमात्मा भुवनस्य पालकत्वाद्राजा। स्वभक्तानां कामानां वर्षणहेतुत्वाद्वृषा। ईदृशः सर्वत्र व्याप्तवान्। किंच सानो सानौ पर्वतपार्श्वभागे, श्रुत्यन्तरे—“तं ब्रह्मगिरिरित्याचक्षते” इति श्रवणाद्ब्रह्मावबोधयोग्यो देहो गिरिस्तदवयवः सानुर्हृदयपुण्डरीकं तच्च पवित्रं बाह्यदेहावयववदुच्छिष्टस्पर्शादिदोषाभावाच्छुद्धमधि पुरुषार्थहेतुध्यानस्थानत्वादितरावयवेभ्योऽप्यधिकमत एव ध्यातॄणामवनस्य पालनस्य हेतुत्वादव्यम्। हिमवत्पुत्र्या गौर्या ब्रह्मविद्याभिमानिरूपत्वाद्गौरीवाचक उमाशब्दो ब्रह्मविद्यामुपलक्षयति। अत एव तलवकारोपनिषदि ब्रह्मविद्यामूर्तिप्रस्तावे ब्रह्मविद्यामूर्तिः पठ्यते–“बहुशोभमानामुमां हैमवतीं तां होवाच” इति। तद्विषयः परमात्मा तयोमया सह वर्तमानत्वात्सोमः, स च सानौ हृदयपुण्डरीके बृहद्ब्रह्म यथा भवति तथा वावृधे वृद्धिं प्राप्तः। पूर्वमविद्यावृतत्वेन संकुचितो जीवो भूत्वा तस्यामवि- द्यायां विद्ययाऽपनीतायां ब्रह्मत्वाविर्भावात्प्रवृद्ध इव भासत इत्यर्थः। स च सोमः सुवानो जीवानां धर्मार्धमयोः प्रेरकः। इन्दुः फलदानेन चन्द्रवदाह्लादहेतुः।

अथानिष्टपरिहारार्थत्वेन जप्या मन्त्रा उच्यन्ते। तत्रैकामृचमाह— जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो निद॑हाति॒ वेदः॑। स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः, इति॥ वेदांसि वेदनानि ज्ञानानि तानि जातान्युत्पन्नानि यस्मादग्नेः सोऽयं जातवेदाः, आधानेन संस्कृतेऽग्नौ पश्चात्तदा तदा कर्तव्यविषयाणि ज्ञानान्युत्पद्यन्ते। तस्मै जातवेदसे यागकाले लतात्मकं सोमं सुनवामाभिषुतं करवाम। स्वयं सर्वं वेत्तीति वेदोऽग्निः। स चारातीयतोऽस्मास्वरातित्वं शत्रुत्वमिच्छतः पुरुषान्निदहाति नितरां भस्मी करोति। किंच सोऽग्निर्नोऽस्माकं विश्वा दुर्गाणि सर्वा आपदोऽतिपर्षदतिशयेन नाशितवानित्यर्थः। किंच यथा लोके नावा सिन्धुं सनुद्रं नाविकस्तारयति तथाऽग्निर्दुरितानि पापान्यतिशयेन तारयतीति शेषः।


१ झ. ०त्वात्समोदत्वात्पर०। २ झ. ०हद्यथा। ३ झ. ०त्रुत्वं कर्तुमि०।

[[708]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १ ] द्वितीयामृचमाह— ताम॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा॑म्। दु॒र्गां दे॒वी ँ शर॑णम॒हं प्रप॑द्ये सुतर॑सि तरसे॒ नमः॑, इति॥ येयं नवदुर्गाकल्पादिषु मन्त्रशास्त्रेषु प्रसिद्धा तां दुर्गां देवीमहं शरणं प्रपद्ये। कीदृशीम्। अग्निसमानवर्णाम्। तपसा स्वकीयेन संतापेन ज्वलन्तीमस्मच्छत्रून्दहन्तीम्। विशेषेण रोचते स्वयमेव प्रकाशत इति विरोचनः परमात्मा, तेन दृष्टत्वाद्वैरोचनीम्, कर्मफलेषु स्वर्गपशुपुत्रादिषु निमित्तभूतेषु जुष्टामुपासकैः सेवितम्। हे सुतरसि सुष्ठु संसारतरणे हेतो देवि तरसे तारयित्र्यै तुभ्यं नमोऽस्तु।

तृतीयामृचमाह— अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्त्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑। पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उर्वी भवा॑ तो॒काय॒ तन॑याय॒ शंयोः, इति। हेऽग्ने नव्यः स्तोतव्यस्त्वमस्मान्स्वस्तिभिः क्षेमकारिभिरुपायैर्विश्वा दुर्गाण्यति सर्वा आपदोऽतिशयेन लङ्घयित्वा पारय संसारस्य परतीरं नय। नोऽस्माकं त्वत्प्रसादात्पूश्च या निवासयोग्या पुरी साऽपि पृथ्वी विस्तीर्णा भवतु। ऊर्वी सर्वस्य निष्पादनयोग्या भूमिरपि बहुला भवतु। त्वं च तोकाय तनयायास्मदपत्याय तदीयपुत्राय च शंयोर्भव सुखस्य मिश्रयिता भव।

चतुर्थीमृचमाह— विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिन्धुं॒ न ना॒वा दु॑रि॒ताऽति॑पर्षि। अग्ने अत्रि॒वन्मन॑सा गृणा॒नो॑ऽस्माकं॑ बोध्यवि॒ता त॒नूना॑म्, इति॥ हे जातवेदो दुर्गहा सर्वासामापदामपहन्ता त्वं विश्वानि दुरिता सर्वाणि पापानि नावा सिन्धुं न समुद्रमिव नोऽस्मानतिपर्षि अतिशयेन तारयसि। हेऽग्नेऽत्रिवदाध्यात्मिकादितापत्रयरहितत्वेनात्रिशब्दवाच्यो जीवन्मुक्तो महर्षिः “आत्मौपम्येन भूतानां दयां कुर्वीत मानवः " इत्येतच्छास्त्रमनुसृत्य “सर्वे च सुखिनः सन्तु सर्वे सन्तु निरामयाः " इत्येवं मनसा यथा सर्वदा भावयति तथा त्वमपि मनसा गृणानो गृणन्नुच्चारयन्भावयन्नस्माकं तनूनामविता रक्षिता भूत्वा बोधि बुध्यस्व सावधानो भवेत्यर्थः। पञ्चमीमृचमाह________________________ पृ॒त॒ना॒जित॒ ँ सह॑मानमु॒ग्रम॒ग्नि ँ हु॑वेम पर॒मात्स॒धस्था॑त्।

[[709]]

प्रपा॰ १० अनु॰ २ कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वो अति॑ दुरि॒ताऽत्य॒ग्निः, इति। पृतनाः परकीयसेना जायतीति पृतनाजित्तमत एव सहमानं शत्रूनभिभवन्तमुग्रं भीतिदेतुमग्निं परमादुत्कृष्टात्सधस्थात्स्वकैर्भृत्यैः सहावस्थानदेशाद्धुवेमाऽऽह्वयाम। स न इत्यादि पूर्ववत्। किंचाग्निर्देवः क्षामदस्मदपराधान्क्षममाणोऽतिदुरिताऽतिशयितानि पातकानि ब्रह्महत्यादीन्यतिलङ्घयतीति शेषः।

षष्ठीमृचमाह— प्र॒त्नोषि॑ क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑। स्वं चा॑ग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒माय॑जस्व, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि प्रथमोऽनुवाकः॥ १॥ हेऽग्ने त्वमध्वरेषु यागेष्वीड्यः स्तुत्यः सन्कं सुखं प्रत्नोषि प्रतनोषि विस्तरयसि। सनाच्च कर्मफलस्य दाताऽपि सन्होता होमनिष्पादकः, नव्यः स्तुत्योऽपि भूत्वा सत्सि सीदसि यागदेशे तिष्ठसि। अतो हेऽग्ने स्वां च स्वकीयामपि तनुवं पिप्रयस्वास्मदीयहविषा प्रीणय। ततोऽस्मभ्यं च सौभगं शोभनभाग्योपेतत्वमायजस्व सर्वतो देहि॥

इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि प्रथमोऽनुवाकः॥ १॥