विस्तारः (द्रष्टुं नोद्यम्)
- परिशिष्टसंगृहीतमेतन्नारायणोपनिषद्भाष्यं केन प्रणीतमिति न जानीमः, परं चास्य पुस्तकद्वयमुपलब्धम्। भाष्यं चैतदशीत्यनुवाकात्मकैत-द्देशीयवैदिकपाठप्रसिद्धमूलानुरोध्यस्त्यतोऽत्र परिशिष्टरूपेण समूलं संगृहीतम्। अस्मिंश्च भाष्य उपक्रमे प्रायः सायणाचार्यकृतभाष्यस्यैवोल्लेखो दृश्यते। अग्नेऽपि यत्र सायणाचार्यभाष्यानुरोधिमूलं वर्तते तत्र प्रायः सायणाचार्यकृतभाष्योल्लेखो दृश्यते।