अथाशीतितमोऽनुवाकः।
संन्यासस्यैव ब्रह्मज्ञानं प्रत्यन्तरङ्गसाधनत्वाज्जिज्ञासोः संन्यास एव युक्तो न तु कर्मानुष्ठानमित्युक्तम्। तर्हि निष्पन्ने तत्त्वसाक्षात्कारे कर्माण्यनुष्ठीयन्तामित्येतां शङ्कां निवारयितुं तत्त्व[ज्ञानि]व्यवहाराणां लौकिकानां सर्वेषां यागरूपत्वमुच्यते। न हि यागस्य यागाधिकारशङ्काऽस्ति। अतोऽस्मिन्ननुवाके पूर्वभागेण योगिनोऽवयवा यज्ञाङ्गद्रव्यत्वेनाऽऽम्नायन्ते- तस्यै॒वं वि॒दुषो॑ य॒ज्ञस्या॒ऽऽत्मा यज॑मानः श्र॒द्धा पत्नी॒ शरीरमि॒ध्यमुरो॒ वेदि॒र्लोमा॑नि ब॒र्हिर्वेदः॒ शिखा॒ हृद॑यं॒ यूपः॒ काम॒ आज्यं॑ म॒न्युः प॒शिस्तपो॒ऽ- ग्निर्दमः॑ शमयि॒ता दक्षि॑णा॒ वाग्घोता॑ प्रा॒ण उ॑द्गा॒ता चक्षु॑रध्व॒र्युर्मनो॒ ब्रह्मा॒ श्रोत्र॑मग्नीत्–, इति।
[[905]]
[अनु॰ ८०] सभाष्यो दशमप्रपाठकः। तस्य पूर्वोक्तस्य संन्यासिन एवं विदुषः पूर्वोक्तेन प्रकारेण ब्रह्मणो महत्त्वं साक्षात्कृतवतो जीवन्मुक्तस्य संबन्धी यो यज्ञोऽस्ति तस्य यज्ञस्य देहेन्द्रियादिसाक्षो य आत्मा सभाष्यो दशमप्रपाठकः। एव यजमानसदृशः, तस्य स्वामित्वात्। या तु तदन्तःकरणे श्रद्धा सा पत्नी। यच्च शरीरं तदिध्मम्। एवमुरआद्यवयवानां वेद्यादिरूपत्वोपचारो योजनीयः। यस्तु दमः शमयिता सर्वेन्द्रियोपशमकारी चित्तवृत्तिविशेषस्तस्य दक्षिणारूपत्वमुन्नेयम्। जघनस्यानुवाकस्य द्वितीयभागेन योगिव्यवहारस्य ज्योतिष्टोमावयवक्रियारूपत्वं दर्शयति- याव॒द्ध्रिय॑ते॒ सा दी॒क्षा यदश्ना॑ति॒ तद्धवि॒र्यत्पिव॑ति॒ तद॑स्य सोमपा॒नं यद्रम॑ते॒ तदु॑प॒सदो॒ यत्सं॒चर॑त्युप॒- विश॑त्यु॒त्तिष्ठ॑ते च॒ स प्र॑व॒र्ग्यो॑ यन्मुखं॒ तदा॑हव॒- नीयो॒ या व्याहृ॑तिराहु॒तिर्यद॑स्य वि॒ज्ञानं॒ तज्जु॒- होति॒ यत्सा॒यं प्रा॒तर॑त्ति॒ तत्स॒मिघं॒ यत्प्रा॒तर्म॒घ्यं- दि॑न ँ सा॒यं च तानि सव॑ननि॒–, इति। यावन्तं कालं भोजनकृत्वा ध्रियते विदुषा धार्यते सा धृतिर्दीक्षाख्यसंस्काररूपा। एवं भोजनादौ हविरादिरूपत्वमुन्नेयम्। अथास्यानुवाकस्य तृतीयभागेन जीवन्मुक्तस्य संबन्धिनां कालविशेषाणां नानाविधयागरूपत्वमाह– ये अ॑होरा॒त्रे ते द॑र्शपूर्णमा॒सौ ये॑ऽर्धमा॒साश्च॒ मासा॑श्च॒ ते चा॑तुर्मा॒स्यानि॒ य ऋ॒तव॒स्ते प॑शुब॒न्धा ये सं॑वत्स॒राश्च॑ परिवत्स॒राश्च॒ तेऽह॑र्ग॒णाः स॑र्ववेद॒सं वा ए॒तत्स॒त्रं यन्मर॑णं॒ तद॑व॒भृथः॑–, इति।
संवत्सराश्च परिवत्सराश्चेतिचकाराभ्यामिदावत्सरानुवत्सरेद्वत्सराः समुच्चीयन्ते। प्रभवादिषु षष्टिसंवत्सरेष्वेकैकं पञ्चकं युगशब्दाभिधेयं तस्मिंश्च पञ्चापि क्रमेण संवत्सरपरिवत्सरेदावत्सरानुवत्सरेद्वत्सरसंज्ञका द्रष्टव्याः। तथाच कालनिर्णये संग्रहकारेणोदाहृतम्— “चान्द्राणां प्रभवादीनां पञ्चके पञ्चके युगे। संपरीगान्विदित्येतच्छब्दपूर्वास्तु वत्सराः” इति॥ ११४
[[906]]
परिशिष्टत्वेन संगृहीतः– [अनु० ८०] अहर्गणा द्विरात्रादयः। सर्ववेदसं सर्व[स्व]दक्षिणाकम्। अत्रैतच्छब्देन प्रकृताहोरात्रादिपरिवत्सरान्तसर्वकालसमु(मष्ट्यु)पलक्षितं योगिन आयुर्विवक्ष्यते। यदायुस्तत्सर्वस्वदक्षिणोपेतं सूत्रमित्यर्थः। अस्यानुवाकस्य चतुर्थभागेन सर्वयज्ञात्मकं योगिन उपासीनस्य क्रममुक्तिलक्षणं फलमाह– ए॒तद्वै॒ ज॑रामर्यमग्निहो॒त्र ँ स॒त्रं ए॒वं वि॒द्वानु॑द॒ग- य॑ने प्र॒मीय॑ते दे॒वाना॑मे॒व म॑हि॒मानं॑ ग॒त्वाऽऽदि॒- त्यस्य॒ सायु॑ज्यं गच्छ॒त्यथ॒ यो द॑क्षि॒णे प्र॒मीय॑ते पितृ॒णामेव म॑हि॒मानं॑ ग॒त्वा च॒न्द्रम॑सः॒ सायु॑ज्य ँ सलो॒कता॑माप्नोत्ये॒तौ वै सु॑र्याचन्द्र॒मसो॑र्महि॒मानौ॑ ब्राह्म॒णो वि॒द्वान॒भिज॑यति॒ तस्मा॑द्ब्र॒ह्मणो॑ महि॒- मान॑माप्नोति॒ तस्मा॑द्ब्रह्मणो॑ महि॒मान॑म्, इति॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषद्य- शीतितमोऽनुवाकः॥८०॥
जरामरणावधिकं यद्योगिचरितमस्ति त[देत]द्वेदोक्ताग्निहोत्रादिसहस्रसंवत्सरसत्रान्तकर्मस्वरूपमित्येवं यः पुमान्विद्वानुपासीन उत्तरायणे म्रियते, स उपासको देवानामिन्द्रादीनां महिमानमैश्वर्यं प्राप्य तदूर्ध्वमादित्य[स्य] सायुज्यं सहवासं तादात्म्यं वा भावनातारतम्येन प्राप्नोति। अथ पूर्वोक्तवैलक्षण्येन य उपासको दक्षिणायने म्रियते स उपासकः पितृणामग्निष्वात्तादीनामैश्वर्यं प्राप्य चन्द्रमसः सायुज्यं पूर्ववत्प्राप्नोति। य एवमेतौ सूर्याचन्द्रमसोर्महिमानावनुभवन्ब्राह्माणस्तत्त्वं(त्र) सगुणब्रह्मरूपं हिरण्यगर्भ विद्वाँस्तल्लोकवासिनामुपदेशिनामुपासीनोऽभिजयति हिरण्यगर्भसाक्षात्काररूपं प्राप्नोति। अ(त)स्मात्साक्षात्कारा[त्त]ल्लोकवासिदेहपातादूर्ध्वं हिरण्यगर्भलोके गत्वा तत्र ब्रह्मणो हिरण्यगर्भस्य महिमानमैश्वर्यं प्राप्नोति। तत्रोत्पन्नब्रह्म[तत्त्व]साक्षात्कारस्तस्माज्ज्ञानाद्ब्रह्मलोकविनाशादूर्ध्वं सत्यज्ञानादिलक्षणस्य ब्रह्मणो महिमानं महत्त्वं च प्राप्नोति। (*इत्युपनिषदिति वाक्येन यथोक्तविद्यायास्तत्प्रतिपादकस्य ग्रन्थस्य चोपसंहारः क्रियते)
- धनुश्चिह्नान्तर्गतोऽधिको ग्रन्थः प्रमादात्पतितः।
१ ङ. तुर्यभागेन(ण)।
[[907]]
[अनु॰ ८०] सभाष्यो दशमप्रपाठकः। अथ मीमांसा। तृतीयाध्याये तृतीयपादे चिन्तितम्- पुंविद्यैका विभिन्ना वा तैत्तिरीयकताण्डिनोः॥ महणावभृथत्वादिसाम्यादेकेति गीय(गभ्य)ते। बहूनां रूपभेदेन किंचित्साम्यस्य बाधनात्। न विद्यैक्यं तैत्तिरीये ब्रह्मविद्याप्रशंसनात्॥
अस्ति तैत्तिरीये पुरुषविद्या - “तस्यैवं विदुषो यज्ञस्याऽऽत्मा यजमानः” इति। तथा ताण्डिशाखायामपि श्रूयते - “पुरुषो वाव यज्ञः” इति। सेयमेकैव पुरुषविद्या। यन्मरणं तदवभृथो मरणमेवावभृथ इत्यभयत्र समानधर्मश्रवणात्प्रातःसवनादीनां च समानत्वादिति प्राप्ते ब्रूमः। वेद्यस्वरूपस्य भूयांस्तत्र भेद उपलभ्यते। तथा हि-विदुषो यो यज्ञस्तस्य यज्ञस्याऽऽत्मेति तैत्तिरीयके व्यधिकरणे षष्ठ्यौ। अन्यथाऽऽत्मा यजमान इति कथं [न] व्याहन्येत। ताण्डिनां तु पुरुषयज्ञयोः सामानधिकरण्यं श्रुतमित्येको रूपभेदः। आत्मयजमानादिकं च सर्वमत्र श्रुतं ताण्डिशाखायां नोपलभ्यते। यत्तु ताण्डिनामुपलभ्यते त्रेधा विभक्तस्याऽऽयुषः सबनत्रयत्वमित्यादि न तत्किंचिदपि तैत्तिरीयके पश्यामः। अतो मरणावभृथत्वाद्यल्पसाभ्येऽपि बहूनां रूपभेदानां विद्यमानत्वाद्विद्ययोर्भेद एवोचितः। अपिच न तैत्तिरीयाणां कर्मसाधनत्वमुपलभ्यते किं तर्हि ब्रह्मविद्याप्रशंसा। तस्यैवं विदुष इति ब्रह्मविद उत्कर्षणात्। तस्मान्न विद्यैक्यशङ्कायामप्यवकाशोऽस्ति। क्रममुक्तिन्न(श्च) तस्मिन्ननुवाके तत्त्वज्ञानिसेवानिमित्ताऽऽभिहितेत्यदोषमतिमङ्गलम्॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्येऽशीतितमोऽनुवाकः॥८०॥
[* अम्भ॒स्यैक॑पञ्चा॒शच्छ॒तं जा॒तवे॑दसे॒ चतुर्दश॒ भूरन्नं॒ भू॒रग्नये॒ भूर॒ग्नये॒ चैक॑मेकं पा॒हि पा॒हि च॒त्वारि॑ चत्वारि॒ यश्छन्द॑सां॒ द्वे नमो॒ ब्रह्म॑ण ऋ॒तं तपो॒ यथा॑ वृ॒क्षस्यैक॑मेकम॒णोरणी॑या॒ ँश्चतु॑- स्त्रि ँशत्सहस्र॒शी॑र्ष॒ ँ षड्वि॑ ँतिरादि॒त्यो वा ए॒ष आ॑दि॒त्यो वै तेज॒ एक॑मेकं॒ निध॑नपतये॒ त्रयो॑वि ँशतिः स॒द्योजा॒तं त्रीणि॑ वामदे॒वायैक॑म॒धोरे॑भ्य॒स्तत्पुरु॑षाय॒ द्वे द्वे ईशानो नमो हिरण्यबा- हव॒ एक॑मेकमृ॒त ँ स॒त्यं द्वे सर्वो॒ वै च॒त्वारि॒ कद्रु॒द्राय॒ त्रीणि॒
- एतचिहान्तर्गतो ग्रन्थो ज. पुस्तके नास्ति।
[[908]]
परिशिष्टत्वेन संगृहीतः - [अनु॰ ८०]
यस्य॒ वैक॑ङ्कती कृणु॒ष्व पाजोऽदि॑तिरापो॒ वा इ॒द ँ सर्व॒मेक॑मे- क॒मापः॑ पुनन्तु च॒त्वार्यग्निश्च सूर्यश्च नव॑ न॒वोमिति॑ च॒त्वार्याया॑तु॒ पञ्चौजो॑ऽसि॒ दशो॒त्तमे॑ च॒त्वारि॒ घृणि॒स्त्रीणि॒ ब्रह्म॑मेतु॒ मां यास्ते॑ ब्रह्मह॒त्यां द्वाद॑श॒ ब्रह्म॑मे॒धया॒ऽद्या न॑ इ॒मं भ्रू॑णह॒त्यां ब्रह्म॑ मे॒धवा॑ ब्र॒ह्मा दे॒वाना॑मि॒दं वीरह॒त्यामेका॒न्नवि॑ ँ शतिरेकान्नवि॑ ँ- शतिर्मे॒धा दे॒वो मे॒धां म॒ इन्द्र॑श्च॒त्वारि॑ चत्वा॒र्यामां॑ मे॒धा द्वे मयि॑ मे॒धामेक॒मपै॑तु॒ परं॒ वातं॑ प्रा॒णम॑मुत्र॒भूया॒द्धरि॒ ँशल्कै॑र॒ग्निं मा छि॑दो मृत्यो॒ मा नो॑ म॒हान्तं॒ मा न॑स्तो॒के प्रजा॑पते स्वस्ति॒दा त्र्य॑भ्बकं॒ ये ते॑ स॒हस्रं॒ द्वे द्वे मृ॒त्यवे॒ स्वाहैकं॑ दे॒वकृ॑त॒स्यैका॑दश॒ यद्वो॑ देवाः॒ कामोऽकार्षी॒न्मन्युरकार्षी॒द्द्वे द्वे तिलाञ्जुंहोमि गावः श्रियं प्र॑जाः पञ्च॒ तिलाः कृष्णाश्चोर॑स्य॒ श्रीः प्रज्ञा तु जातवे॑दः स॒प्त प्राण- वाक्त्वक्छिरो(र उ)त्तिष्ठ पुरुष॑ पञ्च॒ पृथिवीशब्दमनोवागव्य- क्ताऽऽत्माऽन्तरात्मा परमात्मा मे क्षुधेऽन्नमय॒ पञ्च॑दशा॒ग्नये॒ स्वाहैक॑चत्वारि॒ ँशर्दो॑ तद्ब्र॒ह्म नव॑ श्र॒द्धायां॑ प्रा॒णे निवि॑ष्ट॒श्चतु॑र्वि ँ- शतिः श्र॒द्धायां॒ दशाङ्गुष्ठमात्रः पुरुषो द्वे वाङ्म॑ आ॒सन्न॒ष्टौ वयः॑ सुप॒र्णाः प्राणानां ग्रन्थिरसि द्वे द्वे नमो रुद्रायैकं त्वमग्ने द्युभि॒र्द्वे शि॒वेन॑ मे॒ संतिष्ठस्व स॒त्यं प्रा॑जाप॒त्यस्तस्यै॒वमेक॑मेक॒मशी॑तिः॥]
ॐ स॒ह ना॑ववतु स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधीत॑मस्तु॒ मा वि॑दिविषा॒वहै॑ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॒॥ हरिः॑ ॐ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके परिशिष्टत्वेन संगृहीतो दशमः प्रपाठकः समाप्तः॥१०॥
[[909]]
[अनु॰ ८०] सभाष्यो दशमप्रपाठकः।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्। पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥१॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके परिशिष्टत्वेन संगृहीतं दशम- प्रपाठकभाष्यं समाप्तम्॥१०॥
समाप्तमिदं सपरिशिष्टं सभाष्यं तैत्तिरीयारण्यकम्।