अथैकोनाशीतितमोऽनुवाकः ।
पूर्वोक्तमोक्षसाधनसमूहमुपपादयितुमाख्यायिकामाह —- प्रा॒जा॒प॒त्यो हाऽऽरु॑णिः सु॒पर्णेयः प्र॒जाप॑तिं पि॒तर॒मुप॑ससार॒
[[894]]
परिशिष्टत्वेन संगृहीतः- [अनु॰ ७९]
किं भ॑गव॒न्तः प॑र॒मं व॑द॒न्तीति॒ तस्मै॒ प्रो॑वाच -, इति।
प्रजापतेः पुत्रः प्राजापत्यः स चाऽऽरुणिनामकः। स एव सुपर्णाख्यायाः स्त्रिया अपत्यत्वात्सुपर्णेय इत्युच्यते। तादृशः पुरुषः स्वकीयं पितरं प्रजापतिमुपससारोत्तमसाधनजिज्ञासयोपसन्नवान्। उपा(प)सद्य चैवं पप्रछ। हे प्रजापते भगवन्तः पूज्या महर्षयो मोक्षसाधनेषु किं साधनं परममुत्कृष्टं वदन्ति। एवं पृष्टः प्रजापतिस्तस्मा आरुणये प्रोवाच। पूर्वमुक्तेषु साधनेषु प्रथमं दर्शयति- स॒त्येन॑ वा॒युरावा॑ति स॒त्येना॑ऽऽदि॒त्यो रो॑चते दि॒वि स॒त्यं वा॒चः प्र॑ति॒ष्ठा स॒त्ये स॒र्वे प्रति॑- ष्ठितं॒ तस्मा॑त्स॒त्यं प॑र॒मं वद॑न्ति॒ - , इति। योऽयं वायुरन्तरिक्षे वाति सोऽयं पूर्वजन्मनि मनुष्यः सन्सत्यवादित्वं परिपाल्यतेन सत्येन वायुदेवतात्वं प्राप्येदानीं लोकानुग्रहार्थमन्तरिक्षे वाति। तथैवाऽऽदित्योऽपि पूर्वजन्मानुष्ठितेन [सत्येन] दिवि रोचते द्युलोके प्रकाशते। एतत्सत्यं वाचो वागिन्द्रियस्य प्रतिष्ठा स्थिरं स्थानमनृतं तु वाचोक्तमपि परैर्निराक्रियत इति प्रतिष्ठा। तस्य स्वर्ग (था सति) लोकेऽस्मिन्सत्ये भाषणे [सर्व] प्रामावहारजातं प्रतिष्ठितं तस्मात्कारणात्सत्यमेव परमं साधनित्येवं केचिदनुष्ठातारो वदन्ति। त(अ)त्राऽऽरुणेर्मुखविकाशराहित्यलक्षणापरितोषं दृष्ट्वा द्वितीयं साधनमाह- तप॑सा दे॒वा दे॒वता॒मग्र॑ आय॒न्तप॒सर्ष॑यः सुव॒रन्व॑- विन्द॒न्तप॑सा स॒पत्ना॒न्प्रणु॑दा॒मारा॑ती॒स्तप॑सि स॒र्वे प्रति॑ष्ठितं॒ तस्मा॒त्तपः॑ पर॒मं वद॑न्ति॒ -, इति।
इदानीं स्वर्गे वर्तमाना अग्नीन्द्रादयो देवा अग्रे पूर्वजन्मन्यनुष्ठितेनान्नपरित्यागरूपेण कृच्छ्रचान्द्रायणादितपसा देवतामायन्निदानींतनं देवतात्वं प्राप्ताः। तथा वसिष्ठादयो महर्षयः पूर्वानुष्ठितेन तपसा सुवरन्वविन्दन्स्वर्गलोकमनुक्रमेण लब्धवन्तः। तथा वयमपीदानीमभिचाररूपेण तपसा सपत्नाञ्शत्रूनरातीरस्मदीयद्रव्यलाभविरोधिनः पुरुषानपि प्रणुदाम निराकुर्मः। अन्यदपि सर्वे फलजातं तपसि प्रतिष्ठितं तस्मादनशनरूपं तपः परमं मोक्षसाधनमिति वदन्ति।
[[895]]
[अनु ॰ ७९] सभाष्यो दशमप्रपाठकः।
अत्रापि पूर्ववदपरितोषं दृष्ट्वा तृतीयं साधनमाह- दमे॑न दा॒न्ताः कि॒ल्बिष॑मवधू॒न्वन्ति॒ दमे॑न ब्रह्म- चा॒रिणः॒ सुव॑रगच्छ॒न्दमो॑ भू॒तानां॑ दुरा॒धर्षं दमे॑ स॒र्वे प्रति॑ष्ठितं॒ तस्मा॒द्दमः॑ पर॒मं वद॑न्ति॒-, इति। दान्ता बाह्येन्द्रियदमनयुक्ताः पुरुषास्तेन दमेन स्वकीयपापमवधून्वन्ति नाशयन्ति। तथा नैष्ठिकब्रह्मचारिणो दमेन स्वर्गमगच्छन्। स च दमो भूतानां प्राणिनां दुराधर्षं धर्षयितुं सर्वदा सोढुं दुःसह। तस्मिंश्च दमे सर्वमपेक्षितं फलं प्रतिष्ठितम्। तस्मात्कारणाद्दमः परमं मुक्तिसाधनमिति केचिद्वदन्ति। अत्र सर्वत्र पूर्वसाधने परितोषराहित्यादुत्तरसाधनोक्तिर्द्रष्टव्या। चतुर्थ साधनमाह- शमे॑न शा॒न्ताः शि॒वमा॒चर॑न्ति॒ शमे॑न ना॒कं मु॒न- यो॒ऽन्ववि॑न्द॒ञ्छमो॑ भू॒तानां॑ दुरा॒धर्षं॒ छमे॑ स॒र्वे प्रति॑ष्ठितं॒ तस्मा॒च्छमः॑ पर॒मं वद॑न्ति-, इति। शान्ता अन्तःकरणगतक्रोधादिरहितास्तेन शमेन शिवं मङ्गंलं पुरुषार्थमाचरन्ति। नारदाद्या मुनयः शमेन स्वर्गमलभन्त। अन्यत्पूर्ववत्। पञ्चमं साधनमाह- दा॒नं य॒ज्ञानां॒ व॑रूथं॒ दक्षि॑णा लो॒के दा॒तार॑ ँ सर्वभूतान्यु॑- पजी॒वन्ति॑ दा॒नेनारा॑ती॒रपा॑नुदन्त दा॒नेन॑ द्विप॒न्तो मि॒त्रा भ॑वन्ति दा॒ने स॒र्वे प्रति॑ष्ठितं॒ तस्मा॑द्दा॒नं प॑र॒मं वद॑न्ति-, इति।
गोहिरण्यादिदानं यज्ञानां संबन्धिनी दक्षिणा भवति। तस्माद्वरूथं श्रेष्ठम्। लोकेऽपि दातारं पुरुषं वेदशास्त्रसंविदो मूढाश्च सर्वेऽपि पुरुषा उपजीवन्ति। तथा योद्धुकामानां भटानां धनदानेनारातीः शत्रूनपानुदन्त राजानो निराकृतवन्तः। येऽपि प्रबला द्विषन्तस्तेऽपि धनदानेन तुष्टा मित्राणि भवन्ति। अन्यत्पूर्ववत्। षष्ठं साधनामाह- ध॒र्मो विश्व॑स्य॒ जग॑तः प्रति॒ष्ठा लो॒के ध॒र्मिष्टं प्र॒जा उ॑पस॒र्पन्ति॑ धर्मेण॑ पा॒पंम॑प॒नुद॑ति ध॒र्मे स॒र्वे प्रति॑ष्ठितं॒ तस्मा॑द्ध॒र्मे प॑र॒मं वद॑न्ति-, इति।
श्रुतिस्मृतिप्रतिपादितवापीकूपतटाकादिनिर्माणरूपो धर्मो विश्वस्य जगतः सर्वस्य
[[896]]
परिशिष्टत्वेन संगृहीतः- [अनु॰ ७९]
प्राणिजातस्य प्रतिष्ठाऽऽश्रय इत्येतत्प्रसिद्धम्। तथा लोके धर्मिष्ठमतिशयेन धर्मे वर्तमानं पुरुषं प्रजाः सर्वा उपसर्पन्ति धर्माधर्मनिर्णयार्थमुपगच्छन्ति। किंच प्रायश्चित्तरूपेण [धर्मेण] पापं विनाशयन्ति। अन्यत्पूर्ववत्। सप्तमं साधनमाह- प्र॒जन॑नं॒ वै प्र॑तिष्ठा लो॒के सा॒धु प्र॒जाया॑स्त॒न्तुं त॑न्वानः पि॑तृ॒णाम॑नृ॒णो भ॑वति॒ तदे॑व त॒स्या अनृ॑णं॒ तस्मा॑त्प्र॒जन॑नं पर॒मा व॑दन्ति-, इति। प्रजननं पुत्रोत्पादनं यदस्ति तद्गृहस्थानां प्रतिष्ठा पुत्रस्य गृहकृत्यनिर्वाहकत्वात्। “सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा” इति श्रुतेः। किंच प्रजायाः पुत्रपौत्रादिरूपायास्तन्तुं परम्परां साधु तन्वानः शास्त्रीयमार्गो यथा भवति [तथा विस्तारयन्पितृणां मृतानां पितृपितामहादीनामनृणो भवति]। तदीयमृणं पुत्रिणा प्रत्यर्पितं भवति। यत्प्रजननं तदेव तस्य पुत्रिण ऋणापाकरणहेतुः। अन्यत्पूर्ववत्। अष्टमं साधनमाह- अ॒ग्नयो॒ वै त्रयी॑ वि॒द्या दे॑व॒यानः पन्था॑ गार्ह- प॒त्य ऋक्पृ॑थि॒वी र॑थंत॒रम॑न्वाहार्य॒पच॑नं॒ यजु॑र॒- न्तरि॑क्षं वामदे॒व्यमा॑हव॒नीयः॒ साम॑ सुव॒र्गो लोचको बृ॒हत्तस्मा॑द॒ग्नीन्प॑र॒मं वद॑ति—-, इति गार्हपत्यो दक्षिणाग्राहवनीय इति योऽग्नयः सन्ति त एव त्रयी विद्या वेदत्रयात्मका वेदत्रयोक्तकर्मसाधनत्लाद्वेदविहितत्वाच्च, देवयानो यागद्वारेण देवत्वप्रापको मार्गश्च । किंच तेषामग्नीनां मध्ये गार्हपत्योऽगिनिर्ऋग्वेदात्मकः पृथिवीलोकरूपो रथंतरसात्मात्मकश्चेति प्रशस्यते । अन्वाहार्यपचनो दक्षिणाग्निर्यजुर्वोदान्तरिक्षलोकवामदेव्यसामात्मकः ।(दक्षिणाग्निस्तु सामवोदस्वर्गलोकबृहद्रथंतरसामात्मकः।) अन्यत्पूर्ववत् । नवमं साधनमाह- अग्निहो॒त्रं सा॑यं प्रा॒तर्गृहाणां निष्कृ॑तिः॒ स्वि॑ष्ट ँ सुहु॒तं य॑ज्ञक्रतू॒नां प्राय॑ण ँ सुव॒र्गस्य॑ लो॒कस्य॒ ज्यीति॒स्तस्मा॑दग्निहो॒त्रं प॑र॒मं वद॑न्ति-, इति। सायं प्रातश्चानुष्ठितमग्निहोत्रं गृहाणां निष्कृतिः क्रयसाधनं मूल्यम, अग्निहो-
[[897]]
[अनु॰ ७९] सभाष्यो दशमप्रपाठकः।
त्राभावे क्षुधितोऽग्निर्गृहान्दहेत्। किंचाग्निहोत्रं स्विष्टं शोभनयागरूपम्।सुहुतं शोभनहोमरूपम् । देवतामुद्दिश्य द्रव्यत्यागो यागः। तस्य द्रव्यस्याग्नौ प्रक्षेपो होमः। किंचैतद्यज्ञक्रतूनां प्रायणं प्रारभ्भः। अग्नयाधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्त हविर्यज्ञाः। क्रतुशब्दो यूपवत्सु सोमयागेषु रूढः। अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्यामश्चेति सप्त सोमसंस्थाः क्रतवः। तेषां सर्वेषां यज्ञक्रतूनां प्रारम्भकमग्निहोत्रम्। अत एव स्वर्गस्य लोकस्य ज्योतिः प्रकाशकम्। अन्यत्पूर्ववत्। दशम साधनमाह- य॒ज्ञ इति॑ य॒ज्ञेन॒ हि दे॒वा दिंव॑ ग॒ता य॒ज्ञेनासु॑रा॒- नपा॑नुदन्त य॒ज्ञेन॑ द्विष॒न्तो मि॒त्रा भ॑वन्ति यज्ञें स॒र्वं प्रति॑ष्ठितं॒ तस्मा॑द्य॒ज्ञं प॑र॒मं वद॑न्ति-, इति। यज्ञ उत्तमं साधनमिति केचिदाहुः। किंच देवाः पूर्वानुष्ठितेन यज्ञेन स्वर्गं प्राप्ताः। किंच यज्ञेनैव तदा [तदा] देवा असुरान्विनाशितवन्तः। किंच सर्वकामप्राप्तिसाधनेन ज्योतिष्टोमेन द्वेष्टृ (ष)शान्तिकामस्य पूर्वं द्वेषं कुर्वन्तोऽपि शत्रवो मित्रा[णि] भवन्ति। पूर्ववदन्यत्। एकादशं साधनमाह- मान॒सं वै प्रा॑जाप॒त्यं प॒वित्रं॑ मान॒सेन॒ मन॑सा सा॒धु प॑श्यति मान॒सा ऋष॑यः प्र॒जा अ॑सृजन्त मान॒से स॒र्वे प्रति॑ष्ठितं॒ तस्मा॑न्मान॒सं प॑र॒मं वद॑न्ति-, इति। मनसा निष्पाद्यं मानसमुपासनं यदस्ति तदेव [प्राजापत्यं] प्रजापति[पद]प्राप्तिसाधनमत एव पवित्रं चित्तशुद्धिकारणम्। मानसेनैवोपासनेन युक्तं मनोऽन्तःकरणं यदस्ति तेनैकाग्रेण मनसा साधु पश्यति, अतीतानागतव्यवहितादिवस्तुजातं योगी सम्यक्साक्षात्करोति। एतच्च योगशास्त्रे बहुधा प्रपञ्चितम्। मानसा एकाग्रमनोयुक्ता विश्वामित्रादय ऋषयः स्वसंकल्पमात्रेण बह्वीः प्रजा असृजन्त। पूर्ववदन्यत्। द्वादशं साधनमाह- न्या॒स इ॒त्याहु॑र्मनी॒षिणो॑ ब्रह्माण॑म्-, इति। न्यास इत्युक्तो [यो] मोक्षहेतुस्तं ब्रह्माणं हिरण्यगर्भरूपं मनिषिणो बुद्धिमन्तो महर्षयः स्मृतिकर्तार आहुः। तथा च “संन्यासाद्ब्रह्मणः स्थानम्” इति स्मर्यते। हिरण्यगर्भप्राप्त्यन्तरङ्गसाधनत्वात्तद्रूपत्वम्।
[[898]]
परिशिष्टत्वेन संगृहीतः- [अनु॰ ७९]
तमेव संन्यासं स्तोतुं तत्प्राप्यहिरण्यगर्भस्य रूपं प्रपञ्चयति- ब्र॒ह्मा विश्वः॑ कत॒मः स्व॑यं॒भुप्र॒जाप॑तिः संवत्स॒र इति॑-, इति। यो [ब्रह्मा] हिरण्यगर्भः सोऽयं विश्वः सर्वजगदात्मकः। कतमोऽतिशयेन सुखस्वरूपः। पुनः स्वयंभुप्रजापतिरुत्पादकाभ्यां मातापितृभ्यां विना स्वयमेवोत्पन्नः स चासौ प्रजानां पालकश्चेति समासः। संवत्सरः कालात्मकः। इतिशब्दः प्रदर्शनार्थः। इति सर्वस्वरूपत्वमुन्नेयमित्यर्थः। पुनरपि संन्यासस्तुतये हिरण्यगर्भावयवस्य संवत्सरस्य माहात्म्यं दर्शयति- संवत्स॒रो॑ऽसावा॑दि॒त्यो य ए॒ष आ॑दित्यॊ पुरु॑षः॒ स प॑रमे॒ष्ठी ब्रह्मा॒ऽऽत्मा -, इति। योऽयं संवत्सरः काल उक्तोऽसावादित्यस्वरूप एव। आदित्यगत्यभा (भ्या)सेन निष्पादितत्वात्। य एष तस्मिन्नादित्यमण्डले पुरुषः स एव परमेष्ठी हिरण्यगर्भरूपः, आदित्यमण्डलद्वारेण हिरण्यगर्भस्य प्राप्यत्वात्। स च परमेष्ठी ब्रह्म जगतकारणवस्तु। तथैवाऽऽत्मा सर्वेषां प्रत्यगात्मभूतः। एवमादित्यादिद्वारा संवत्सरं प्रशस्य तमादित्यमण्डलद्वारेण सर्वव्यवहारहेतुतया प्रशंसति- याभि॑रादि॒त्यस्तप॑ति र॒श्मिभि॒स्ताभिः॑ प॒र्जन्यो॑ वर्षति प॒र्ज्यन्ये॑नौषधिवनस्प॒तयः॒ प्रजा॑यन्त ओषधिवनस्प॒तिभि॒- रन्नं॑ भव॒त्यन्ने॑न प्रा॒णाः प्रा॒णैर्बलं॒ बले॑न॒ तप॒स्तप॑सा श्र॒द्धा श्र॒द्धया॑ मे॒धा मे॒धया॑ मनी॒षा म॑नी॒षया॒ मनो॒ मन॑सा॒ शान्तिः॒ शान्त्या॑ चि॒त्तं चि॒त्तेन॒ स्मृति॒ ँ स्मृत्या॒ स्मार॒ ँ स्मारे॑ण वि॒ज्ञानं॑ वि॒ज्ञाने॑ना॒ऽऽत्मानं॑ वेदयति॒ तस्मा॑द॒न्नं दद॒- न्त्स॑र्वाण्ये॒तानि॑ ददा॒त्यन्ना॑त्प्राणा भ॑वन्ति भू॒तानां॑ प्रा॒णैर्मनो॒ मन॑सश्च वि॒ज्ञानं॑ वि॒ज्ञाना॑दान॒न्दो ब्र॑ह्म यो॒निः -, इति। अयमादित्यो याभिरुष्णस्वरूपाभी रश्मिभिस्तपति प्रभूत सताप करोति ताभिस्तीव्ररश्मिभिर्भूमिगतं जलमादाय पर्जन्यो भूत्वा वर्षति। तेन च पर्जन्येन वृष्टिजलेन व्रीह्याद्या ओषधयोऽश्वत्थपनासाद्या वनस्पतयश्च प्रकर्षेणोत्पद्यन्ते। ओषधिभिर्वनस्पतिभिश्च भोज्यमन्नं संपद्यते। तेन चान्नेन प्राणाः पु(पो)षिता भवन्ति। तैश्च पुष्टैः प्राणैः शरीरे बलं संपाद्यते। तेन बलेन कृच्छ्रचान्द्रायणादिरूपं तपः संपद्यते। तेन
[[899]]
[अनु॰ ७९] सभाष्यो दशमप्रपाठकः।
च तपसा शुद्धचित्तस्य तत्त्वज्ञानविषया श्रद्धा जायते। तया श्रद्धया पुरुषस्यैकाग्रचित्तस्य मेधा। गुरूपदिष्टग्रन्थतदर्थधारणशक्तिरूपा जायते। तया च मेधया मनीषा बुद्धिरुत्पद्यते। तया च मनीषया मनो निरन्तरं तत्त्वविषयं मननमुपजायते। तेन च मनसा मननेन क्रोधादिदोषस्यावसराभावाच्छान्तिरुपजायते। तया च शान्त्या विक्षेपरहितस्य चित्तं चेतनं तत्त्वविषयप्रमाणजनितज्ञानमुपजायते। तेन चित्तेन ज्ञानेन निद्रा[दि]व्यवधानेऽपि तत्त्वविषया [स्मृतिं] प्राप्नोति। तया निद्राद्यनन्तरभाविन्या स्मृत्या [स्मारं] निरन्तरं स्मरणं प्राप्नोति। तेन च स्मारेण विज्ञानं विजातीय [प्रत्यय]व्यवधानराहित्येन विशिष्टं संततं ज्ञानं प्राप्नोति। तेन च विज्ञानेनाऽऽत्मानं वेदयति परमात्मानं सर्वदाऽनुभवति। यस्मादन्नस्योक्तप्राणबलादिपरम्परया परमात्मानुभवे हेतुत्वं तस्मादीदृशमन्नं ददत्पुरुषः सर्वाण्येतानि प्राणादीन्यात्मानुभवान्तानि वस्तूनि ददाति। अन्नदानस्य सर्वदानरूपत्वं विस्पष्टयितुमुक्तमेवार्थं पुनरप्यन्नात्प्राणा भवन्तीत्यादिवाक्येन संक्षिप्योपन्यस्यते। प्राणादिपरम्परोत्पन्नाद्विज्ञानादानन्दः परमानन्दरूपो भूत्वा ब्रह्म वेदान्तप्रतिपाद्यं योनिर्जगत्कारणम्। यद्वा ब्रह्मणो वेदस्य योनिः कारणं तादृग्रूपः स्वयं भवति। यथोक्तं संन्यासमेव स्तोतुं तेन संन्यासेन प्राप्ततत्त्वज्ञानं पुरुषं प्रशंसति- स वा ए॒ष पुरु॑षः पञ्च॒धा प॑ञ्चा॒त्मा येन॒ सर्वंमि॒दं प्रोतं॑ पृथि॒वी चा॒न्तरि॑क्षं च॒ द्यौश्च॒ दिश॑श्चावा- न्तरदि॒शाश्च॒ स वै सर्व॑मि॒दं जग॒त्स स॒ भूत॑ ँ स भ॒व्यं जि॑ज्ञासक्लृ॒प्त ऋ॑त॒जा रयि॑ष्ठा श्र॒द्धा स॒त्यो मह॑स्वान्त॒पसो॒*वरि॑ष्ठा॒त्-, इति।
यः पुरुषः संन्यासपुरःसरं तत्त्वज्ञानं संपादयति स एवैष पुरुषः सर्वात्मकः पञ्चधा पञ्चभिः प्रकारैः पञ्चात्मा पञ्चविंशतिवस्तुस्वरूपो भवति। शब्दस्पर्शादिकं गुणपञ्चकं पृथिव्यादिकं भूतपञ्चकं चक्षुःश्रोत्रादिकं ज्ञानेन्द्रियपञ्चकं वाक्पाण्यादिकं कर्मेन्द्रियपञ्चकं प्राणापानदिकं वायुपञ्चकमेतावतां वस्तूनां स्वरूपभूत इत्यर्थः। यद्वा पञ्चभिरात्मभिर्युक्तः पञ्चधा वर्तते। तथा च पुराणोऽभिहितम्- “भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान्। आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः” इति। येन ब्रह्मरूपेण सर्वमिदं जगत्सूत्रे मणिगणा इव प्रोतं प्रकर्षेणोतं व्याप्तमित्यर्थः।
- छान्दसत्वान्मकारटकाराणां पकारवकारठकारादेशा इति बोध्यम्।
[[900]]
परिशिष्टत्वेन संगृहीतः- [अनु॰ ७९]
तदेव सर्वं पृथिवी चेत्यादिना प्रपञ्चयते - स एव पृथिव्यादिवस्तुव्यावी पुरुषः सर्वमिदं वर्तमानं जगत्, तत्त्वदृष्ट्या तद्व्यतिरेकेणाभावात्। तथा भूतमतीतं जगत्स एव। भव्यं भविष्यदपि जगत्स एव। ननु तत्त्ववित्पुरुषो मूढवद्धस्तपादातियुक्त देहरूप एव दृश्यते न तु सर्वजगत्स्वरूप इति चेन्मैवम्। यतोऽयं जिज्ञासक्लृप्तो जिज्ञासया वेदान्तविचारेण सर्वात्मकतया निश्चितो भवति ऋतजा ऋतेन सत्येन प्रामाणिकेन ज्ञानेन सर्वात्मा जातः, जिज्ञासाकाले भ्रान्तिज्ञानरूपेषु स(पू)र्वपक्षेषु [निराकृतेषु] प्रामाणिकेन सिद्धान्तज्ञानेन तादृशो जातो भवति। स च रयिष्ठा रयिर्धनं गुरूपदेशस्तत्रैव तिष्ठति न तूपदेशरहितानां प्रतीयत इत्यर्थः। ईदृशस्वरूपाविज्ञानस्य श्रद्धया लभ्यत्वादसौ श्रद्धारूपः। “श्रद्धावाल्लँभते ज्ञानम्” इति स्मृतेः। सत्यमबाध्यं यद्ब्रह्म तत्स्वरूपत्वादयं सत्यः। महस्वांस्तेजस्वान्स्वंयप्रकाश इत्यर्थः। अत एव तमसा संसारकारणाज्ञानेन वियुक्तत्वादुपरिष्टाद्वर्तते। इत्थं संन्यासपूर्वकज्ञानयुक्तपुरुषं प्रशस्य ज्ञानयुक्तफलं दर्शयति- ज्ञात्वा॑ तमे॒वं मन॑सा हृ॒दा च॒ भूयो॑ न मृत्युमुपयाहि वि॒द्वान् -, इति।
हे आरुणे त्वं [तं] परमात्मानं हृदा हृत्पुण्डरीकनिवासित्वाद्धृदयरूपेण मनसैवं पूर्वोक्तसंन्यासरूपसाधनप्रकारेण ज्ञात्वा ज्ञानेन युक्तः सन्भूयः पुनर्मृत्युं नोपयाहि [मा प्राप्नुहि], ज्ञानिनो वर्तमानदेहपाते सति जन्माभावात्पुनर्मृत्युर्नास्तीत्यर्थः। [बहुधा प्रशस्तं संन्यासमुपसंहरति-]
तस्मा॑न्न्या॒समे॒षां तप॑सामतिरिक्त॒माहुः॑ -, इति। यस्मात्पुरुषार्थस्यान्तरङ्गसाधनं तस्मात्ते(दे)षां सत्यादीनां तपसां मध्ये संन्यासमतिरिक्तमत्युत्कृष्टं साधनं मनीषिण आहुः। संन्यासादूर्ध्वं प्रणवेनाऽऽत्मनि समाधिं विधित्संत्सस्मिन्सामाधौ विघ्नपरिहारार्थमादावन्तर्यामिणः सर्वकारणत्वेन स्तुर्तिं दर्शयति - वसुर॒ण्वो॑ वि॒भूर॑सि प्रा॒णे त्वमसि॑ संधा॒ता ब्रह्म॑- न्त्वमसि॑ विश्व॒धृत्ते॑जोदास्त्वम॑स्य॒ग्निर॑सि चर्चो- दास्त्वम॑सि॒ सूर्य॑स्य द्युम्रो॒दास्त्वम॑सि च॒न्द्रम॑स उपया॒मगृ॑हीतोऽसि ब्र॒ह्मणे॑ त्वा॒ महसे॒ -, इति। हे ब्रह्मन्नन्तर्यामिन्वसुरण्वो वसुनो वस्तुतत्त्वस्य रण्वो वशिता कथयिताऽस्मदनुग्रहार्थमुपदेष्टाऽसि। तथा विभुर्हिरण्यगर्भविराडादिविविधरूपेणोत्पन्नोऽसि। प्राणे वायुरूपे जीवात्मनः संधाता योजयिता त्वमसि। विश्वंभ(ध)रतीति विश्वभृ(धृ)द्ब्रह्मा-
[[901]]
[अनु॰ ७९] सभाष्यो दशमप्रपाठकः।
ण्डधारकवायुरूपोऽसि। भूलोकवर्तिनोऽग्नेस्तेजोदाः प्रकाशरूपधनप्रदस्त्वमसि। द्युलोकवर्तिनः सूर्यस्य वर्चोदाः प्रकाशदस्त्वमसि। तथा चन्द्रमसो द्युम्नोदाः प्रकाशरूपधनप्रदस्त्वमसि। तथा यागेषु सोमरूपः सन्नुपयामेन पार्थिवमृन्मयदारुमयपात्रेण गृहीतोऽसि। उपयामशब्दस्य पृथिवीपरत्वं षष्टकाण्डे मन्त्रव्याख्याने समाम्नातम् - “उपयामगृहीतोऽसीत्याह। इयं वा उपयामः” इति। उत्तप्रकारं सर्वकर्तारमन्तर्यामिणं त्वा महसे ब्रह्मणे ज्योतिर्ज्यो(चैतन्यज्यो)तिःस्वरूपब्रह्मतत्त्वाभिव्यक्त्यर्थं भजामीति शेषः। अनेन प्रकारेणान्तर्यामिणं स्तुत्वा परित्दृतविघ्नस्य संन्यासिनः समार्धि विधत्ते - ओमित्या॒त्मानं युञ्जीत॒ -, इति। त्रिमात्रप्रणवमुच्चारयन्सर्ववेदान्तेषु निर्णीतमात्मानं स्वात्मरूपेण चित्ते समादध्यात्। समाधिसाधनर्मोकारं प्रशंसति - एतद्वै म॑होप॒निष॑दं दे॒वानां॒ गुह्य॒म्, इति। यत्प्रणवस्वरूपमस्त्येतद्वै महोपनिषदं महत्यो बह्वय उपनिषदः प्रतिपादिका यस्य परमात्मवाचकस्य प्रणवरूपस्य तन्महोपनिषदम्। अकारान्तत्वं छान्दसम्। “सर्वे वेदा यत्पदमामननन्ति, तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत्” इति प्रणवस्य सर्वोपनिशत्प्रतिपाद्यत्वं कठवल्लीषु श्रुतम्, तच्च प्रणवरूपं निर्गुणतत्त्वप्रतिपादकं देवानामिन्द्रादीनां गुह्यं गोप्यम्। ते हि शमदमाद्यधिकारसंपत्तिरहिताय प्रणवं नोपदिशन्ति। यथोक्तप्रणवसमाधिजनितस्य तत्त्ववेदनस्य फलं दर्शयति - य ए॒वं वेद॑ ब्र॒ह्मणो॑ महि॒मान॑माप्नोति॒ तस्मा॑द्ब्र॒ह्मणो॑ महि॒मान॑म् - , इति।
यः पुमान्संन्यासादूर्ध्वं प्रणवेन ब्रह्मतत्त्वसमाधिं कुर्वन्नेवं वेदान्तमहावाक्योक्तप्रकारेण वेद ब्रह्मतत्त्वं जानाति, असौ ज्ञानी स्वस्मिन्नविद्याकल्पितं जीवत्वापादकं परिच्छेदमपहाय देशकालवस्तुपरिच्छेदशून्यस्य ब्रह्मणो महिमानं महत्त्वमाप्नोति। तत्त्ववेदनेन जीवत्वकृतभ्रुमो निवर्तते ब्रह्मस्वभाव आविर्भवति ततो जीवन्मुक्तो भवतीत्यर्थः। तस्य जीवन्मुक्तस्य प्रारब्धभोगक्षयेण देहपाते सति तस्मात्कृ-त्स्नाविद्यानिवर्तकाद्वेदनादविद्यातत्कार्यवासनालेशरहितस्य मुख्यब्रह्मणो महिमानं महत्त्वं प्राप्नोति, विदेहमुक्तिर्भवतीत्यर्थः। संन्यासपुरःसरां तत्त्वविद्यामुपसंहरति - इत्युप॒निषत्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषद्ये- कोनाशीतितमोऽनुवाकः॥७९॥
[[902]]
परिशिष्टत्वेन संगृहीतः [अनु॰ ७९]
इत्येवमतीतेन ग्रन्थेन प्रोक्ता येयं विद्या सेयमुपनिषद्रहस्यविद्या अथ मीमांसा - तस्य(त्र) संन्यासरूपस्य चतुर्थाश्रमस्य सद्भावस्तृतीयाध्यायस्य चतुर्थपादे चिन्तितः - “नास्त्यूर्ध्वरेताः किंवाऽस्ति नास्त्यसावविधानतः। वीरघाताद्वि(तो वि)धेः क्लृप्तावन्धपङ्ग्वादिगा स्मृतिः॥ अस्त्व(स्त्य)पूर्वविधेः क्लृप्तेवीरहाऽनग्निको गृहो। अन्धादेः पृथगुक्तत्वात्स्वस्थानां श्रूयते विधिः॥ पूर्वोधिकरणे स्वतन्त्रमात्मविज्ञानं कर्मनैरपेक्ष्येण पुरुषार्थसाधनमित्युक्तम्। तस्य चाऽऽत्मज्ञानस्योर्ध्वरेतःस्वाश्रमेषु सुलभत्वादाश्रमसद्भावश्चिन्त्यते। तत्र नास्त्यूर्ध्वरेता इति प्राप्तम्। कुतः। विध्यभावात्। “त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयः” इत्यत्र यज्ञाद्युपलक्षितगार्हस्थ्यस्य तपःशब्दलक्षितवानप्रस्थत्वस्य नैष्ठिकब्रह्मचर्यस्य च परामर्शमात्रं गम्यते। न विधिरुपलभ्यते। न चापूर्वार्थत्वेन विधिः कल्पयितुं शक्यः। “वीरहा वा एष देवानां योऽग्निमुद्वासयते” इत्यग्न्युद्वासनलक्षणस्य गार्हस्थ्यपरित्यागस्य निन्दितत्वात्। चत्वार आश्रमा इति स्मृतिस्तु गार्हस्थ्यधर्मानधिकृतान्धपङ्ग्वादिविषया भविष्यति। न ह्यन्धस्याऽऽज्यावेक्षणोपेते कर्मण्यधिकारः। नापि पङ्गोर्विष्णुक्रमणाद्युपेते कर्मण्यधिकारः। तस्माच्चक्षुरादिपाटवयुक्तास्याऽऽत्मज्ञानोपयुक्त ऊर्ध्वरेता आश्रमो नास्तीति प्राप्ते ब्रूमः। अस्त्यूर्ध्वरेता आश्रमः। विध्यश्रवणेऽप्यपूर्वार्थत्वेन कल्पयितुं शक्यत्वात्। न च वीरघातदोषः। उत्सन्नाग्निविषयत्वाद्वीरहत्यायाः। यत्त्वन्धविषयत्वं स्मृतेरुक्तं तदसत्। “अथ पुनरव्रती वा व्रती वाऽस्नातको वा स्नातको वोत्सन्नाग्निरनग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत्” इति विरक्तानां गार्हस्थ्यानधिकृतानां पृथक्संन्यासविधानात्। न च चक्षुरादिपाटववतामाश्रमान्तरविध्यभावः। जाबालश्रुतौ प्रत्यक्षविध्युपलम्भात् - “ब्रह्मचर्यं समाप्य गृहो भवेद्गृहाद्वनो भूत्वा प्रव्रजेत्” इति। तस्मादस्त्याश्रमान्तरम्”। तत्रैवान्यच्चिन्तितम् - “लोककाम्याश्रमी ब्रह्मनिष्ठामर्हति वा न वा। यथावकाशं ब्रह्मैव ज्ञातुमर्हत्यवारणात्॥ अनन्यचित्तता ब्रह्मनिष्ठाऽसौ कर्मठे कथम्। कर्मत्यागो ततो ब्रह्मनिष्ठामर्हति नेतरः॥ त्रयो धर्मस्कन्धा इत्यत्राऽऽश्रमानधिकृत्य सर्व एते पुण्यलोका भवन्तीत्याश्रमानुष्ठायिनां पुण्यलोकफलमभिधाय ब्रह्मसंस्थोऽमृतत्वमेतीति मोक्षसाधनत्वे[न] ब्रह्मनिष्ठा
[[903]]
[अनु॰ ७९] सभाष्यो दशमप्रपाठकः।
प्रतिपाद्यते। सेयं ब्रह्मनिष्ठा पुण्यलोककामिन आश्रमिणोऽपि संभाव्यते। आश्रमकर्माण्यनुष्ठाय यथावकाशं ब्रह्मनिष्ठायाः कर्तुं शक्यत्वात्। न हि लोककामी ब्रह्म न जानीयादिति निषेधोऽस्ति। तस्मादस्ति सर्वस्याप्याश्रमिणो ब्रह्मनिष्ठेति प्राप्ते ब्रूमः। ब्रह्मनिष्ठा नाम सर्वव्यवहारपरित्यागे सत्यनन्यचित्ततया ब्रह्मणि परिसमाप्तिः। न चासौ कर्मशूरे संभवति। कर्मानुष्ठानत्यागयोः परस्परविरोधात्। तस्मात्कर्मत्यागिन एव ब्रह्मनिष्ठेति स्थितिः। अस्मिन्नर्थे श्रुतिस्मृतिवाक्यानि संक्षिप्य प्रदर्श्यन्त- “त्याग एव हि सर्वेषां मोक्षसाधनमुत्तमम्। त्यजतैव हि विज्ञेयं त्यक्तुः प्रत्यक्परं पदम्॥ मुक्तेश्च बिभ्यतो देवा मोहेनापिदधुर्नरान्। ततस्ते कर्मसूद्युक्ताः प्रा(प्र) वर्तन्ते विचक्षणाः॥ अतः संन्यस्य कर्माणि सर्वाण्यात्मावबोधतः। हत्वाऽविद्यां धिया प्राप त(यैवेयात्त)द्विष्णोः परमं पदम्”॥ इति भाल्लविशाखायामामनन्ति। “सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेढ्बुधः। यदक्षरं परे ब्रह्म तत्सूत्रमिति धारयेत्॥ ज्ञानशिखी(खा) ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः। ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते॥ अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा। स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः”॥ इत्याथर्वणिका आमनन्ति। “कुटुम्बपुत्रदारांश्च वेदाङ्गानि च सर्वशः। यज्ञान्यज्ञोपवीतं च त्यक्त्वा गूढश्चरेन्मुनिः”॥ इति बाष्कलशाखायामामनन्ति। “स शिखान्केशान्निकृन्त्य विसृज्य यज्ञोपवीतं भूः स्वाहेत्यप्सु जुहुयात्। त्रिदण्डं कुण्डिकां शिक्यं त्रिविष्टब्धमुपानहौ। शीतोपघातिनीं कन्थां कौपीनस्य तु छादनम्॥ यज्ञोपवीतं वेदांश्च सर्व तद्वर्जयेद्यतिः”॥ इति कठा आमनन्ति।
[[904]]
परिशिष्टत्वेन संगृहीतः - [अनु ॰ ८०]
“अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवति” इति जाबालिका आमनन्ति। “अथ परिव्राडेकशाटी [परिवृतो] मुण्डोदरपात्र्यरण्यनित्यो भिक्षार्थं ग्रामं प्रविशेदासायं प्रदक्षिणेनावि चिकित्सन्सार्ववर्णिकभैक्षाचरणमभिशस्तपतितवर्जमयज्ञोपवीती शौचनिष्ठः काममेकं वैणवं दण्डमाददीत” इति मैत्रायणीशाखायामामनन्ति। “कन्याकौपीनोत्तरासङ्गानां त्यागिनो यथाजातरूपधरा निर्ग्रन्था निष्परिग्रहाः” इति संवर्तश्रुतिः। “गृहस्थो ब्रह्मचारी वानप्रस्थो [वा] लौकिकाग्नीनुदराग्नौ समारोपयेद्गायत्रीं च स्वमुखाग्नौ समारोपयेदुपवीतं भूमौ वाऽप्सु वा विसृजेत्” इति वारुणीश्रुतिः। “यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः। आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान्॥ एतद्द्विजन्मसाफल्यं ब्राह्मणस्य विशेषतः। प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा॥ यदा तु विदितं तत्स्यात्परं ब्रह्म सनातनम्। तदैकदण्डं संगृह्य उपवीतं शिखां त्यजेत्”॥
इत्यादयः स्मृतयः उदाहार्याः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्य एकोनाशीतितमोऽनुवाकः॥ ७९॥