७८

अथाष्टसप्ततितमोऽनुवाकः।


समाप्तं भोजनप्रकरणं कर्मप्रकरणं च। अथेदानीं सर्वकर्ममयसंसारबीजदाहार्थं संन्यासप्रकरणमारभ्यते। तत्र ज्ञानप्रतिबन्धकमहापातकपरिहारेण ज्ञानयोग्यतालक्षणां शुद्धिमुक्त्वा योग्यस्य पुरुषस्यापेक्षितेषु ज्ञानसाधनेषु संन्यासस्य निरतिशयोत्कर्षार्थ(र्थत्वं )वक्तुं सत्यादीन्येकादशोत्कृष्टसाधनानि प्रतियोगित्वेन वक्तव्यानि, तत्र प्रथमं साधनमुपन्यस्यति- स॒त्यं परं॒ पर॑ ँ स॒त्य ँ स॒त्येन॒ न सु॑व॒र्गाल्लोकच्च्य॑वन्ते क॒दाच॒न स॒ता ँ हि स॒त्यं तस्मा॑त्स॒त्ये र॑मन्ते॒ -, इति। यद्वस्तु प्रमाणेन दृष्टं तस्य तथैवाभिवदनं सत्यं तच्च परं पुरुषार्थसाधनेषूत्कृष्टम्। तत्र विधाना(स्यैवाऽऽदरा)र्थ परं सत्यमिति पुनर्वचनम्। यद्वा परं [ब्रह्म]सत्यम-


घ. ९४।

[[891]]

[अनु॰ ७८] सभाष्यो दशमप्रपाठकः।

बाध्यं तद्वद्यथार्थवचनमपि बाधरहितमिति व्यावहारिकबाधराहित्येनोत्कर् विवक्षित्वा दृष्टान्तेन परं सत्यमित्युक्तम्। सत्येन यावज्जीवनं यथार्थकथनेन स्वर्गलोकात्कदाचन कदाचिदपि न प्रच्यवन्ते, अनृतवादिनस्तु केनचित्पुण्येन स्वर्गं प्राप्या[ष्य]नृतवदनदोषेण कर्मफलापूर्व(र्ण)तायामपि तदैव स्वर्गात्प्रच्यवन्ते। किंच हि यस्मात्कारणात्सतां सन्मार्गवर्तिनामृष्यादीनां संबन्धि [सत्यं] यथार्थवादित्वं तस्मात्कारणात्सतामिदमिति व्युत्पत्तिमाश्रित्य सत्यवादित्वमेव परमं मोक्षसाधनमिति केचिन्महान्तो वदन्तस्तस्मिन्नेव सत्ये रमन्ते क्रीडन्ति। एकं मतमुक्त्वा द्वितीयं मतमाह- तप॒ इति॒ तपो॒ नानश॑ना॒त्परं॒ यद्धि परं॒ तप॒स्त- द्दुर्ध॑र्षं॒ तद्दुरा॑धर्षं॒ तस्मा॒त्तप॑सि रमन्ते॒ -, इति। तपः परं मोक्षसाधनमिति केषांचिन्मतम्। तीर्थयात्राजपहोमादीनि यद्यपि बहूनि तपांसि सन्ति तथाऽपि तेषु सर्वेष्वनशनमु(नादु)पवासैकभक्ताद्युपदेश(द्यशन)वर्जनात्परमुत्कृष्टं तपो नास्ति। यदनशनरूपं कृच्छ्रचान्द्रायणादिकं परं तपोऽस्ति तद्दुर्धर्षं धर्षयितुं सोढुमशक्यमत एवाऽऽसमन्तात्सर्वेषां प्राणिनां तत्तपो दुर्धर्षं दुःशकमित्यनुभूयते। तस्मात्कारणात्केचन श्रद्धालवः कृच्छ्रचान्द्रायणादिके तपसि रमन्ते क्रीडन्ति। तृतीयं मतमाह- दम॒ इति॒ निय॑तं ब्रह्मचा॒रिण॒स्तस्मादृमे॑ रमन्ते॒ -, इति। वाक्चक्षुरादीन्द्रियाणां बाह्यानां निषिद्धेभ्यो विषयेभ्यो निवृत्तिर्दमः, स एवोत्तमो मोक्षहेतुरिति मन्यमाना नैष्ठिकब्रह्मचारिणो नियतं सर्वदा वदन्ति तस्मादृमे रमन्ते। चतुर्थं मतमाह- शम॒ इत्यर॑ण्ये मु॒नय॒स्तस्मा॒च्छमे॑ रमन्ते -, इति। अन्तःकरणस्य क्रोधादिदोषराहित्यं शमः स एवोत्तमो मोक्षहेतुरित्यरण्ये वर्तमाना मुनयो वानप्रस्था मन्यन्ते तस्मात्ते शमे रमन्ते। पञ्चमं मतमाह- दा॒नमिति॒ सर्वा॑णि भू॒तानि॑ प्र॒श ँस॑न्ति दा॒ना- न्नाति॑दु॒श्चरं॒ तस्मा॑द्दा॒ने र॑मन्ते -, इति। गोभूहिरण्यादीनां स्वकीयानां शास्त्रोक्तवर्त्मना स्व[स्वत्व]परित्यागपूर्वकं परस्वत्वापादनं दानं तदेवोत्तमं मोक्षसाधनमिति सर्वे प्राणिनः प्रशंसन्ति। दानादतिशयितं

[[892]]

परिशिष्टत्वेन संगृहीतः- [अनु ॰ ७८] दुष्क(श्च)रं नास्ति। धनरक्षार्थं प्राणानपि परित्यजतां पुरुषाणामुपलम्भात्। तस्माद्गोभूहिरण्यादिदाने रमन्ते।

[षष्ठं मतमाह-] ध॒र्म इति॒ धर्मे॑ण॒ सर्व॑मि॒दं परि॑गृहीतं ध॒र्मा- न्नाति॑दु॒ष्करं॒ तस्मा॑द्ध॒र्मे र॑मन्ते-, इति। स्मृतिपुराणादिप्रतिपाद्यो वापीकूपतडागादिनिर्माणरूपो धर्मोऽत्र विवक्षितः। स चोत्तमो मोक्षहेतुरिति स(म)हामात्यादयः प्रभवो मन्यन्ते। तडागादिरूपेण धर्मेण सर्वमिदं जगत्परिगृहीतम्। सर्वेऽपि मनुष्यपश्वादयः स्नानपानादिना तुष्यन्ति। तादृशधर्मादन्यदतिदुश्च(ष्क)रं नास्ति। तस्मात्कारणाद्धर्मे रमन्ते प्रभवः। सप्तमं मतमाह- प्र॒जन॒ इति॒ भूया॑ ँस॒स्तस्मा॒द्भूयि॑ष्ठाः॒ प्रजा॑- यन्ते॒ तस्मा॒द्भूयि॑ष्ठाः प्र॒जन॑ने रमन्ते॒ -, इति। प्रजनोऽपत्योत्पादनं तस्यैवोत्तमसाधनत्वं भूयांसो (सोऽति)बहवः प्राणिनो मन्यन्ते। धनिकैर्दरिद्रैः शिष्टैश्च सर्वैरपि पुत्रोत्पादनायातिशयेन प्रयतमान(त्नस्यऽऽदृत)त्वात्। तस्मादेकैकस्य पुरुषस्य भूयिष्ठा द्वित्राः पञ्च षडित्येवं बहवोऽपत्यविशेषा उत्पद्यन्ते। तस्माद्भूयिष्ठा अतिबहवः प्राणिनः प्रजोत्पादने रमन्ते। अष्टमं मतमाह- अ॒ग्नय॒ इत्या॑ह॒ तस्मा॑द॒ग्नय॒ आधा॑तव्याः - , इति। अग्नयो गार्हपत्यादय उत्तमा मुक्तिहेतव इति कश्चिद्वेदार्थपर आह। तस्मात्कारणाद्गृहस्थैरग्नय आधातव्या भवन्ति। नवमं मतमाह- अग्निहो॒त्रमित्या॑ह॒ तस्मा॑दग्निहो॒त्रे र॑मन्ते-, इति।

आहितेष्वग्निषु सायं प्रातश्चानुष्ठेयो होमोऽग्निहोत्रं तदुत्तमं मोक्षसाधनमित्यपरः कश्चिद्वेदार्थपर आह। तस्मात्केचिदग्निहोत्रे रमन्ते। दशमं मतमाह- य॒ज्ञ इति॑ य॒ज्ञो हि दे॒वास्तस्मा॑द्य॒ज्ञे र॑मन्ते-, इति। दर्शपूर्णमासाज्योतिष्टोमादिको यज्ञ उत्तमो मोक्षहेतुरित्यपरे वेदार्थपरा मन्यन्ते। तत्र हेतुरुच्यते - हि यस्मात्कारणाद्यज्ञो व्यत्ययेन तृतीया यज्ञेन पूर्वोक्ता देवा इन्द्रादयो दिवं गता इति वाक्यशेषः। तस्मादेव कारणादद्यापि केचन वैदिका यज्ञे पूर्वोक्ते रमन्त आसक्तचित्ताः सन्तः क्रीडन्ति।

[[893]]

[अनु॰ ७८] सभाष्यो दशमप्रपाठकः।

एकादशं मतमाह- मान॒समिति॑ वि॒द्वा ँस॒स्तस्मा॑द्विद्वा॒ ँस॑ मा॑न॒से र॑मन्ते-, इति। मनसैव निष्पाद्यमुपानं मानसं तदेवोत्तमं मोक्षसाधनमिति विद्वांसः सगुणब्रह्मविदो मन्यन्ते। तस्मात्कारणात्केचन विद्वांसो वेदोपास्तितात्पर्यविदो मानस एवोपासने रमन्ते। द्वादशं मतमाह- न्या॒स इति॑ ब्र॒ह्मा ब्र॒ह्मा हि परः॒ परो॑ हि ब्र॒ह्मा तानि॒ वा ए॒तान्य॑वराणि॒ परा॑ ँसि न्या॒स ए॒वात्य॑रेचय॒त्, इति। पूर्वोक्तकारणा(र्वकाण्डोक्ता)नामग्निहोत्रादिकर्मणामारुणिजाबालाद्युपनिषदुक्तप्रकारेण परित्यागो न्यासः स एवोत्तमो मोक्षहेतुरिति ब्रह्मा हिरण्यगर्भो मन्यते। स च ब्रह्मा परो हि परमात्मरूपो हि न तु पूर्वोक्तमतानुसारिण इव जीवः। यद्यप्यसौ हिरण्यगर्भो देहधारी तथाऽपि परो हि परमात्मैव ब्रह्मा हिरण्यगर्भ इति वक्तुं शक्यते। तच्छिष्यत्वेन तत्समानज्ञानत्वात्। अत एव श्वेताश्वत[रा आमनन्ति] - “यो ब्रह्माणं विदधाति पूर्वे यो वै वेदांश्च प्रहिणोति तस्मै” इति। यानि पूर्वोक्तसत्यादीनि मानसान्ता[नि ता]न्येतानि [परांसि] तपांसि भवन्त्येव तथाऽपि संन्यासमपेक्ष्यावराणि निकृष्टानि। संन्यास एक एव सर्वाण्यत्यरेचयदतिक्रान्तवान्। उत्तमत्वेन तारतम्यं तत्र विश्रान्तमित्यर्थः। उक्तमुत्तमसाधनमुपसंहरति- य ए॒वं वेदे॑त्युप॒निषत्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्येऽष्टसप्ततितमोऽनुवाकः॥७८॥ यः पुमानेवंप्रकारेण (सं) न्यासस्यान्येभ्यः साधनेभ्य उत्तमत्वं वेद तस्य विदुष इत्युक्ता विद्योपनिषद्रहस्यभूता भवति। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्येऽष्टसप्ततितमो॥७८॥