७७

अथ सप्तसप्ततितमोऽनुवाकः।


अथेदानीं परमात्मनः सकाशात्स्वाभीष्टं याचते - शि॒वेन॑ मे॒ संति॑ष्ठस्व स्यो॒नेन॑ मे॒ संति॑ष्ठस्व सुभू॒तेन॑ मे॒ संति॑ष्ठस्व ब्रह्मवर्च॒सेन॑ मे॒ संतिष्ठस्व य॒ज्ञस्यर्द्धि॒मनु॒ संति॑ष्ठास्वोप॑ ते यज्ञ॒ नम॒ उप॑ ते॒ नम॒ उप॑ ते॒ नमः॑, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि सप्तसप्ततितमोऽनुवाकः॥७७॥ हे यज्ञ सर्वयज्ञस्वरूप हे भगवन्परमात्मंस्ते तुभ्यमुप सामीप्येन नमोऽस्तु। त्वत्संनिधौ त्वत्समक्षं भूयो भूयो नमस्करोमीत्यर्थः। अत्यादरार्थमाम्रेडितम्। किंच त्वं शिवेन कल्याणप्रदानेन सह मे गृहे संतिष्ठस्व। स्योनेनैहिकसुखप्रदानेन सह। सुभूतेन महैश्वर्यप्रदानेन सह। ब्रह्मवर्चसेन सह। समानमन्यत्। एवंगुणवति त्वयि मद्गृह उपस्थिते सत्यहमप्येवंविधगुणवान्भूयासमिति प्रार्थयितुराशयः। किंच त्वत्प्रीत्यर्थं कृतस्य यज्ञस्य सत्कर्मानुष्ठानस्यर्द्धि समृद्धिमनु पश्चात्तत्त्फलं दातुमस्मत्समीपे संतिष्ठस्व सम्यगचलचित्तः सन्नुपविश॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये सप्तसप्ततितमोऽनुवाकः॥७७॥