अथ षट्सप्ततितमोऽनुवाकः।
त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षाणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑। त्वं वने॑भ्य॒स्त्वमोष॑धिभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि षट्सप्ततितमोऽनुवाकः॥७६॥ त्वमिति। हेऽग्ने त्वमपि द्युभिरुत्तमकान्तिभिः सहितः सन्नस्मन्मृत्युं निवारय। किंच त्वमाशु शीघ्रं शोषयति भक्तानां पापमित्याशुशुक्षणिः, [तादृशो भव]। किंच त्वमद्भ्य उपरि कणत्वेन (कारणत्वेन?) तिष्ठसि। अप्कारणत्वादग्नेरद्भ्य आधिक्यम्। “अग्नेरापः” इति श्रुतेः। किंच त्वं महामेरुरूपस्य पाषाणस्य पर्युपरि तिष्ठसि। कनकाचलशिखरेष्वग्न्यादिदेवानां विद्यमानत्वप्रसिद्धेः। किंच त्वं वनेभ्यो व्यत्ययेन नन्दनादिवनेषु विहरसि। किंच त्वमोषधीभ्यो व्यत्ययेन सोमलाताद्योषधीषु व्याप्य तिष्ठसि। हे नृपते यजमानरूपमनुष्याधिपतेऽग्ने त्वं नृपां यजमानानां मध्ये पूज्यो जायसे भवसि। किंच त्वं वैदिकलौकिकश्मशानिकसर्वपदार्थभुगपि सन्सर्वदा शुचिरेव। एवंविधप्रभावस्त्वं मृत्योः सकाशान्मां पाहीति पूर्वेणान्वयः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोयापरनामधेययु- क्तायां याज्ञिक्यामुपनिषदि भाष्ये सट्सप्ततितमोऽनुवाकः॥७६॥
१ घ. ९२। २ घ. ९३।
[[890]]
परिशिष्टत्वेन संगृहीतः- [अनु॰ ७७-७८]