अथ पञ्चसप्ततितमोऽनुवाकः।
एवं त्हृदयाभिमन्त्राणमुक्त्वा यावज्जीवं मृत्युपरिहारार्थं देवताप्रा(प्री)णनरूपमन्त्रमाह-
नमो रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि पञ्चसप्ततितमोऽनुवाकः॥७५॥ रुद्राय पार्वतीपतये नमोऽस्तु। विष्णवे लक्ष्मीपतये नमोऽस्तु। किंच हे रुद्र हे विष्णो त्वं त्वं च मृत्युर्व्यत्ययेन मृत्योः सकाशान्मे मां पाहि॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययु- क्तायां याज्ञिक्यामुपनिषदि भाष्ये पञ्चसप्ततितमोऽनुवाकः॥७५॥