७४

अथ चतुःसप्ततितमोऽनुवाकः।


एवंजपानन्तरं त्हृदयमालम्भ्य जप्यं मन्त्रमाह—

प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः । ते नान्नेना॑ऽऽप्याय॒स्व , इति ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि चतुःसप्ततितमोऽनुवाकः॥७४॥

हे त्द्ददयवर्तिन्नहंकार त्वं वायुरूपाणामिन्द्र(न्द्रिय)रूपाणां च प्राणानां ग्रन्थिरसि। परस्परमविश्लेषाय ग्रन्थनहेतुरसि। तादृशस्त्वं रुद्रस्त(स्त्व)दभिमानिदेवतारूपोऽन्तको दुःखस्य विनाशको भूत्वा मा मां विश मच्छरीरे प्रविष्टो भव। तेन मद्भक्तेनान्नेनाऽऽप्यायस्व मामभिवर्धय॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोयापरनामधेय याज्ञिक्यामुपनिषदि भाष्ये चतुःसप्ततितमोऽनुवाकः॥७४॥


१ घ. ९०। २ घ. ९१।

[[889]]

[अनु॰ ७५-७६] सभाष्यो दशमप्रपाठकः।