७३

अथ त्रिसप्ततितमोऽनुवाकः।


एवं सर्वाङ्गस्वास्थ्यमुक्त्वा सर्वपापक्षयार्थत्वेनोत्तरोत्तरधनप्राप्य(पक)त्वेन चेन्द्रसप्तर्षिसंवादकं मन्त्रं जप्यत्वेनाऽऽह- वयः॑ सुप॒र्णा उप॑सेदु॒रिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः।


*पद्दत्रित्यास्यशब्दस्याऽऽसन्नादेशे सप्तभ्याः सुपां सुलुगिति लुकि रूपमिदम्। +अत्र घ. पुस्तकेऽङ्को नास्ति। *आसन्नित्यस्य व्याख्यानमेतत्। +यतोऽहं तृप्तोऽत एवेति संबन्धः।

[[888]]

परिशिष्टत्वेन संगृहीतः- [अनु॰ ७४] अप॑ध्वा॒न्तमू॑र्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य॑स्मान्नि॒धये॑ऽवब॒द्धान्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि त्रिसप्ततितमोऽनुवाकः॥७३॥ ऋषयः सप्तसंख्याकाः कदाचिदिन्द्रं स्वर्गस्थमुपसेदुः। भुलोकात्सकाशादिन्द्रसामीप्यं जग्मुः। कथंभूता ऋषयः। नाधमानाः किमपि याचितुकामाः। प्रियमेधाः सर्वप्राणिप्रियकृतबुद्धिविशेषाः। वय इति विशब्दबहुवचनं पक्षिवाचकम्। वय इव पक्षिण इव शीघ्रगमनाः। कथंभूता वयः। सुपर्णाः शोभनपक्षाः। कथंभूतमिन्द्रम्। अपध्वान्तमपगतहृदयान्धकारम्। इन्द्रमुपेत्य यदूचिरे तदुच्यते। हे भगवन्निन्द्रास्मानूर्णूहि दिव्यदुकूलादिप्रदानेनाऽऽच्छादय। अस्माकं चक्षुः पूर्धि, उत्तमसौन्दर्यादिम-त्पदार्थप्रदर्शनप्रदानाभ्यां पूरय। अस्मान्सर्वेभ्यः पापेभ्यो मुमुग्धि मोचय। किंचास्मान्निधयेऽवबद्धानासक्तान्कुरु। अनेकधनरत्नवन्निधियुक्तानस्मान्कुर्वित्यर्थः। एवमृषियाचितेनेन्द्रेण दत्तैर्भाग्यैः सुखिताः सन्त ऋषयो भूमिमेत्य स्वाश्रमेषु स्थितवन्त इत्याद्युपाख्यानं पूरयितव्यम्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये त्रिसप्ततितमोऽनुवाकः॥७३॥