७२

अथ द्विसप्ततितमोऽनुवाकः।


इत्थं भोजनोत्तरं परमेश्वरानुसंधानप्रतिपादकं मन्त्रमुदाहृत्य भोक्तुः सर्वेषामङ्गानां स्वस्थताप्रतिपादकं मन्त्रमनुभवपूर्वकं पठति - वाङ्म॑ *आ॒सन्। न॒सोः प्रा॒णः। अ॒क्ष्योश्चक्षुः॑। कर्ण॑योः॒ श्रोत्र॑म्। बा॒हु॒वोर्वल॑म्। ऊ॒रु॒वोरोजः॑। अरि॑ष्टा॒ विश्वा॒न्य- ङ्गा॑नि त॒नुः। त॒नुवा॑ मे स॒ह नम॑स्ते अस्तु॒ मा मा॑ हि ँसीः, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि द्विसप्ततिमोऽनुवाकः॥७२॥ + हे भगवन्षड्समन्नमाकण्ठं भुक्तवतस्तृप्तस्य मे मम वाग्वागिन्द्रियशक्तिस्तद्गोलक * आस्ये, प्राणो नसोर्नासिकयोः, चक्षुश्चक्षुरिन्द्रियशक्तिरक्ष्योरक्ष्णोस्तद्गोलकयोः, श्रोत्रं श्रोत्रेन्द्रियं कर्णयोस्तद्गोलकयोः, लब्धस्वास्थ्यान्यासन्। प्राग्भोजनात्क्षुदादिवशेन विकलान्यभवन्नित्यर्थः। अत एव बाहुवोर्बाह्वोर्बलमभूत्। ऊरुवोरोजो गमनागमनसामर्थ्यमभूत्। किं बहुना, विश्वानि सर्वाणि ममाङ्गान्यरिष्टान्यनुपहिंसितानि स्वस्थान्यभूवन्। किंवा परिमितगणनया, मे मम तनुवा तन्वा लिङ्गशरीरेण सह तनूः स्थूलशरीरं स्वस्थी भवति स्म। अत एव भो भगवंस्त्वत्प्रसादात्सृ(न्मि)ष्टान्नं लब्ध्वा +यतोऽहं तृप्तो मत्कृतं नमस्ते तुभ्यमस्तु ।इत्थं प्रत्यहं सहकुटुम्बस्य मे तृप्तिं कृत्वा सर्वाङ्गस्वास्थ्यं च संपाद्य यावन्मरणं सहकुटुम्बं मां मा हि ँसीर्मा पीडय। किंतु मृडय। मन्त्रोऽयं भोजनोत्तरं प्रत्यहं परमेश्वरकृतोपकृतिस्मृतिसिद्धये ब्राह्मणैरर्थानुसंधानपूर्वकं पठनीय इति रहस्यम्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये द्विसस्पतितमोऽनुवाकः॥७२॥