७१

अथैकसप्ततितमोऽनुवाकः।


क्षुदादिजनितचित्तविक्षेपशान्तेरूर्ध्वं भोक्तुर्जीवस्य परमेश्वरस्वरूपानुसंधानहेतुं मन्त्रं दर्शयति- अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च॑ समा॒श्रितः। ईशः सर्वस्य जगतः *प्रभु प्रीणाति॑ विश्व॒भुक्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषद्ये- कसप्ततितमोऽनुवाकः॥७१॥ हृदयमध्यगत आकाशः स्वाङ्गुष्ठपरिमितः। तत्र वर्तमाना बुद्धिरपि तावती तयाऽवच्छिन्नो जीवरूपः पुरुषोऽप्यङ्गुष्ठमात्रः स्वाङ्गुष्ठपरिमितः। स च ज्ञानक्रियाशक्त्याऽङ्गुष्ठमाश्रितः। चकारान्मस्तकं चाऽऽश्रितः। आपादमस्तकव्यापीत्यर्थः। स चोपाधिसंबन्धमन्तरेण स्वकीयेन वास्तवरूपेण सर्वस्य जगत ईशो नियन्ता। अत एव विश्वभुक्। सर्व जगद्भुङ्क्ते। तादृशः प्रभुरीश्वरः प्रीणाति, अनेन भोजनेन प्रीतो भवतु॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोयापरमधेययु- क्तायां याज्ञिक्यामुपनिषदि भाष्य एकसप्ततितमोऽनुवाकः॥७१॥


  • छान्दसो विसर्गलोपः।

१ घ. ८७॥ २ घ. ८८॥

[[887]]

[अनु ॰ ७२-७३] सभाष्यो दशमप्रपाठकः।