अथ सप्ततितमोऽनुवाकः॥
भुक्तसम्यान्नस्याभिमन्त्रणे मन्त्रमाह- श्र॒द्धायां॑ प्रा॒णे निवि॑श्या॒मृत ँ॑ हु॒तम्। प्रा॒णमन्ने॑नाऽऽप्या- यस्व। श्र॒द्धाया॑मपा॒ने निवि॑श्या॒मृत ँ॑ हु॒तम्। अ॒पा॒न- मन्ने॑नाऽऽप्यायस्व। श्र॒द्धायां॑ व्या॒ने निवि॑श्या॒मृत॑ ँ
१ घ. ८६॥
[[886]]
परिशिष्टत्वेन संगृहीतः- [अनु॰ ७१] हु॒तम्। व्या॒नमन्ने॑नाऽऽप्यायस्व। श्र॒द्धाया॑मुदा॒ने निवि॑- श्या॒मृत॑ ँ हु॒तम्। उ॒दा॒नमन्ने॑नाऽऽप्यायस्व। श्र॒द्धाया ँ॑ समा॒ने निवि॑श्या॒मृत॑ ँ हु॒तम्। स॒मा॒नमन्ने॑नाऽऽप्यायस्व, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि सप्ततितमोऽनुवाकः॥७०॥ वैदिककर्मणि विश्वासातिशयः श्रद्धा, तस्यां सत्यां प्राणवायौ निविश्याऽऽदरातिशयं कृत्वाऽमृतमनश्वरं स्वादुभूतमिदं हविर्मया हुतम्। हे प्राणाभिमानिनि देवि त्वं प्राणं मुखनासिकासंचारिणं वायुं हुतेनान्नेनाऽऽप्यायस्व वर्धय। स्पष्टमन्यत्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये सप्तेतितमोऽनुवाकः॥७०॥