६९

अथैकोनसप्ततितमोऽनुवाकः।


अथ प्राणाहुतिमन्त्रान्दर्शयति- श्र॒द्धायां॑ प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि। श्र॒द्धायां मपा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि। श्रद्धायां॑ व्या॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि। श्र॒द्धाया॑मुदाने निवि॑ष्टोऽ- मृतं॑ जुहोमि। श्रद्धाया ँ॑ समा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि। ब्रह्मा॑णि म आ॒त्माऽमृ॑त॒त्वाय॑, इति।

वैदिककर्मणि विश्वासातिशयः श्रद्धा, तस्यां सत्यां पञ्चसु शरीरगतवायुभेदेषु मध्ये प्रथमं प्राणनामके वायौ निविष्ट आदरयुक्तोऽहममृतं स्वादुभूतमिदं हविर्जुहोमि प्रक्षिपामि। एवमपानादिषु योज्यम्। एताभिः पञ्चभिराहुतिभिरमृतत्वाय मोक्षाय मे मदीय आत्मा जीवो ब्रह्मणि परमात्मन्येको भवत्विति शेषः। अथ भोजनादावपां प्राशने मन्त्रमाह - अ॒मृ॒तो॒प॒स्तर॑णमसि, इति। हे पीयमान जल त्वममृतं विनाशरहितं प्राणदेवताया [उपस्तरणमसि। यथा शायानस्य पुरुषस्य मञ्चकस्योपरि तूलपटादिकमुपस्तीर्यते तद्वत्प्राणदेवताया] इदमुपस्तरणम्। तथा च वाजसनेयिनः प्राणविद्यायां प्राणदेवताया जलवस्त्रत्वमामनन्ति- “तस्मादशिष्यन्नाचामेदशित्वाऽऽचामेदेतदेव तदन्नमनग्नं कुरुते” इति। प्राणाहुतिष्वेव विकल्पितानि मन्त्रान्तराणि दर्शयति- श्र॒द्धायां॑ प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि। शि॒वो मा॑

[[885]]

[अनु॰ ७०] सभाष्यो दशमप्रपाठकः।

वि॒शाप्र॑दाहाय। प्रा॒णाय॒ स्वाहा॑। श्र॒द्धाया॑मपा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहीमि। शि॒वो मा॑ वि॒शाप्र॑दाहाय। अ॒पा॒नाय॒ स्वाहा॑। श्र॒द्धायां॑ व्या॒ने निवि॑ष्ठो॒ऽमृतं॑ जुहोमि। शि॒वो मा॑ वि॒शाप्र॑दाहाय। व्या॒नाय॒ स्वाहा॑। श्र॒द्धाया॑मुदा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि। शि॒वो मा॑ वि॒शाप्र॑दाहाय। उ॒दा॒नाय॒ स्वाहा॑। श्र॒द्धाया॑ ँ समा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि। शि॒वो मा॑ वि॒शाप्र॑दाहाय। स॒मा॒नाय॒ स्वाहा॑। ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑, इति। हूयमान द्रव्यविशेष त्वं शिवः शान्तो भूत्वा मां प्रविश। किमर्थम्। अप्रदाहाय, क्षुत्संपादितदाहनाशानायेत्यर्थः। किंच हूयमानद्रव्यं प्राणदेवतायै स्वाहा सुहुतमस्तु। पूर्ववदन्यद्व्याख्येयम्। भोजनादूर्ध्वमपां प्राशने मन्त्रमाह- अ॒मृ॒ता॒पि॒धा॒नम॑सि, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषद्ये- कोनसप्ततितमोऽनुवाकः॥६९॥ पीयमान हे जल त्वममृतमविनश्वरमपिधानमाच्छादकमसि॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्य एकोनसप्ततितमोऽनुवाकः॥६९॥