६८

अथाष्टषष्टितमोऽनुवाकः।


जपमात्रेण पापक्षयार्थोऽयं मन्त्रः- ओं॑ तत्स॒त्यम्। ओं॑ तद्ब्र॒ह्म। ओं॑ तद्वा॒युः। ओं॑ तदा॒त्मा। ओं॑ तत्सर्वम्। ओं॑ तत्पुरो॒र्नमः। अन्तश्चरति॑ भूते॒षु॒ गुहायां वि॑श्वमू॒र्तिषु। त्वं यज्ञ- स्त्वं वषट्कारस्त्वमिन्द्रस्त्व ँ रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः। त्वं त॑दाप॒ आपो॒ ज्योती रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषद्यऽ- ष्टषष्टितमोऽनुवाकः॥६८॥ तद्वेदान्तवेद्यं वस्तु ब्रह्मातिबृहत्। तदेव वायुः। तदेवाऽऽत्मा जीवोऽपि। तदेव सत्यमवितथम्। किं बहुना, तदेव सर्वं चराचरं जगद्। तदेव पुरोर्विस्तीर्णस्य ब्रह्माण्डस्य कारणं य(णम)तस्तस्मै नमोऽस्तु। किंचैवंविधं यद्ब्रह्म तद्विश्वमूर्तिषु नाना-


*एतदाद्यों तद्ब्रह्मेत्यस्मात्प्राग्विद्यमानं मूलं ज. पुस्तके नास्ति।


१ घ. ८४। २ ङ. णादिनिधि। ३ घ. ८५।

[[884]]

परिशिष्टत्वेन संगृहीतः- [अनु॰ ६९] विधशरीरेषु भूतेषु प्राणिषु गुहायामन्तर्हृदयपुण्डरीकमध्ये चरति वर्तते। एवं परोक्षेण सर्वात्मकत्वमुक्त्वेदानीमपरोक्षेण परमात्मनः सर्वात्मकत्वं दर्शयति। हे भगवंस्त्वं यज्ञो नानाविधक्रतुरूपः। त्वमेव वषट्कारो देवान्नदायकशब्दविशेषः। औपलक्षण्येन त्वमेव स्वाहास्वधाहन्तकारादिः। त्वमेवेन्द्ररुद्रविष्णुब्रह्मरूपः। त्वमेव प्रजापतिर्विराट्। त्वमेव तत्प्रसिद्धं ब्रह्माण्डम्। त्वमेवाऽऽपो नद्यादिगताः। त्वमेवाऽऽपः पारावारगताः। त्वमेव ज्योतिः सूर्यादि। त्वमेव रसो मधुरादिः। त्वमेवामृतं सुधा। त्वमेव ब्रह्म वेदकूटम्। त्वमेव भूर्भुवः सुवस्त्रैलोक्यम्। त्वमेवोंकारः शब्दब्रह्म॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्येऽष्टषष्टितमोऽनुवाकः॥६८॥