अथ षट्षष्टितमोऽनुवाकः।
विश्वास-प्रस्तुतिः
पृथिव्यापस्तेजो वायुराकाश मे॑ शुध्य॒न्तां॒ ज्योति- र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ ँ स्वाहा॑।
मूलम्
पृथिव्यापस्तेजो वायुराकाश मे॑ शुध्य॒न्तां॒ ज्योति- र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ ँ स्वाहा॑।
सायण-टीका
टीकाः अन्यत्र ।
विश्वास-प्रस्तुतिः
शब्दस्पर्शरूपरसगन्धा मे॑ शुध्य॒न्तां॒ ज्योति॑- र॒हं वि॒रजां विपा॒प्मा भू॑यास॒ ँ स्वाहा॑।
मूलम्
शब्दस्पर्शरूपरसगन्धा मे॑ शुध्य॒न्तां॒ ज्योति॑- र॒हं वि॒रजां विपा॒प्मा भू॑यास॒ ँ स्वाहा॑।
*दापयितुः सकाशात्तस्य ज्ञानस्य पूर्वोक्ततत्त्वविज्ञानस्योत्पत्तय इति संबन्धः। + एतदग्रे छ. पुस्तके (७२) तमानुवाकस्माप्तिर्वर्तते। सा च मूलोक्तानुवाकपरिगणनविरुद्धा। * एतदग्रे छ. पुस्तके (७३) तमानुवाकसमाप्तिर्दृश्यते। सा च मूलोक्तानुवाकपरिगणनविरुद्धा। +एतदग्रे छ. पुस्तके (७४) तमानुवाकसमाप्तिर्दृश्यते। सा च मूलोक्तानुवाकपरिगणनविरुद्धा।
१ घ. ८२।
[[879]]
[अनु॰ ६६] सभाष्यो दशमप्रपाठकः। ८७९
विश्वास-प्रस्तुतिः
मनोवाक्कायकर्माणि मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ ।
मूलम्
मनोवाक्कायकर्माणि मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासँ॒ स्वाहा॑ ।
सायण-टीका
मन इति। मनोवाक्कायानां कर्माणि। अन्यत्पूर्ववत्*।
विश्वास-प्रस्तुतिः
अव्यक्तभावैर॑हंका॒रै॒र्ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ ँ स्वाहा॑।
मूलम्
अव्यक्तभावैर॑हंका॒रै॒र्ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ ँ स्वाहा॑।
सायण-टीका
अव्यक्तभावैरिति। हे परमात्मंस्त्वत्प्रसादादहंकारैर्व्यर्थगर्वैर्विमुक्तो भूयासम्। कथंभूतैरव्यक्तभावैः। लोकानां निकटेऽप्रकटिताभिप्रायैः। पूर्ववद+न्यत्। आत्मा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपाप्मा भू॑यास॒ ँ स्वाहा॑। आत्मेति। म आत्मा शरीरं शुध्यन्तां शुद्धो भवतु। प्रायःपाठात्सर्वत्र बहुवचनप्रयोगश्छान्दसः।
विश्वास-प्रस्तुतिः
अन्तरात्मा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ ँ स्वाहा॑।
मूलम्
अन्तरात्मा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ ँ स्वाहा॑।
परमात्मेति। [परमात्मा] निखिलजगत्प्रभुः। अन्यत्पूर्ववत्। ननु परमात्मनो नित्यशुद्धत्वात्कथं तच्छुद्धिः प्रार्थ्यत इति चेन्न। अविद्यादोषवशेन परमात्मनोऽप्रतिमानमशुद्धिरित्युच्यते। स्वात्मत्वेन प्रतिभानं शुद्धिरिति विशेषाङ्गीकारात्+।
विश्वास-प्रस्तुतिः
क्षु॒धे स्वाहा॑।
मूलम्
क्षु॒धे स्वाहा॑।
क्षुध इति। क्षुदधिष्ठानदेवतायै स्वाहा। एतदादिवक्ष्यमाणपञ्चमन्त्रेषु लिङ्गोक्ता देवता हविर्भुजः।
विश्वास-प्रस्तुतिः
क्षुत्पि॑पासाय॒ स्वाहा॑।
मूलम्
क्षुत्पि॑पासाय॒ स्वाहा॑।
सायण-टीका
क्षुत्पिपासायेति। एतदधिष्ठानदेवताभ्यां स्वाहा।
विश्वास-प्रस्तुतिः
विवि॑ट्ट्यै॒ स्वाहा॑।
मूलम्
विवि॑ट्ट्यै॒ स्वाहा॑।
विस्तारः (द्रष्टुं नोद्यम्)
*एतदग्रे छ. पुस्तके (७५) तमानुवाकसमाप्तिर्दृश्यते। सा च मूलोक्तानुवाकपरिगणनविरु-द्धा। + एतदग्रे छ. पुस्तके (७६) तमानुवाकसमाप्तिर्दृश्यते। सा च मूलोक्तानुवाकपरिगणनविरुद्धा। * एतदग्रे छ. पुस्तके (७८) तमानुवाकसमाप्तिर्दृश्यते। सा च मूलोक्तानुवाकपरिगणनविरुद्धा। + एतदग्रे छ. पुस्तके (७९) तमानुवाकसमाप्तिर्दृश्यते, सा च मूलोक्तानुवाकपरिगणनविरुद्धा।
[[880]]
परिशिष्टत्वेन संगृहीतः- [अनु॰ ६६]
सायण-टीका
विविट्ट्या इति। “विष्ऌ व्याप्तौ” इति धातोरुत्पन्नोऽयं शब्दः। विशेषेण विष्टिर्व्याप्तिर्यस्य ब्रह्मणस्तद्विविट्टिः। छान्दसः षकारस्य टकारः। तादृशं ब्रह्मोद्दिश्य स्वाहा हुतमस्तु।
विश्वास-प्रस्तुतिः
ऋग्वि॑धानाय॒ स्वाहा॑।
मूलम्
ऋग्वि॑धानाय॒ स्वाहा॑।
सायण-टीका
ऋग्विधानायेति। ऋचो विदधाति करोत्युत्पादयतीति ऋग्विधानः परमात्मा तस्मै स्वाहा हुतमस्तु।
विश्वास-प्रस्तुतिः
क॒षो॑त्काय॒ स्वाहा॑।
मूलम्
क॒षो॑त्काय॒ स्वाहा॑।
सायण-टीका
कषोत्कायेति। “कष करणे” [इति] धातुः। कष्यते क्रियत इति कषो नामरूपकर्मात्मकः कार्यप्रपञ्चस्तस्मिन्नुत्क उपकर्तुमुत्सुकः कषोत्कः परमेश्वरास्तादृशाय सृष्ट्याद्युन्मुखाय परमेश्वराय स्वाहा।
विश्वास-प्रस्तुतिः
क्षु॒त्पि॒पा॒साम॑लं ज्येष्ठामलक्ष्मीर्नाशया॒म्यहम्। अभू॑तिमस॑मृद्धिं॒ च॒ *सर्वान्निर्णुद मे पाप्मा॑न ँ स्वा॒हा।
मूलम्
क्षु॒त्पि॒पा॒साम॑लं ज्येष्ठामलक्ष्मीर्नाशया॒म्यहम्। अभू॑तिमस॑मृद्धिं॒ च॒ *सर्वान्निर्णुद मे पाप्मा॑न ँ स्वा॒हा।
सायण-टीका
क्षुत्पिपासामलमिति। हे परमात्मन्नहं त्वत्प्रसादात्क्षुत्पिपासारूपं मलं लक्ष्म्या ज्येष्ठामग्रजामलक्ष्मीरलक्ष्मीमभूतिमनैश्वर्यमसमृद्धिं धनधान्यादिसमृद्ध्यभावमेतान्सर्वान्नाशयामि। किंच त्वं मे मदीयं पाप्मानं निर्णुद विनाशय। तदर्थं स्वाहा तुभ्यं सुहुतमस्तु।
विश्वास-प्रस्तुतिः
अन्नमयप्राणमयमनोमयविज्ञानमयमानन्दमयमात्मा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ ँ स्वाहा॑॥
मूलम्
अन्नमयप्राणमयमनोमयविज्ञानमयमानन्दमयमात्मा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ ँ स्वाहा॑॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधे- ययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये षट्षष्टितमोऽनुवाकः॥६६॥
*अत्र घ. पुस्तके सर्वा निर्णुदेत्येव पाठः।
१ घ. ८३॥
[[881]]
[अनु॰ ६७] सभाष्यो दशमप्रपाठकः।