अथ पञ्चषष्टितमोऽनुवाकः।
विश्वास-प्रस्तुतिः
प्राणापानव्यानोदानसमाना मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ ँ स्वाहा॑।
मूलम्
प्राणापानव्यानोदानसमाना मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ ँ स्वाहा॑।
सायण-टीका
टीकाः अन्यत्र ।
विश्वास-प्रस्तुतिः
वाङ्ममनश्चक्षुः श्रोत्रजिह्वाघ्राणरेतो बुद्ध्याकूतिः संकल्पा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपाप्मा भू॑यास॒ ँ स्वाहा॑।
मूलम्
वाङ्ममनश्चक्षुः श्रोत्रजिह्वाघ्राणरेतो बुद्ध्याकूतिः संकल्पा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपाप्मा भू॑यास॒ ँ स्वाहा॑।
विश्वास-प्रस्तुतिः
त्वक्चर्ममा ँसरुधिरमेदोमज्जास्नायवोऽस्थीनि मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ ँ स्वाहा॑।
मूलम्
त्वक्चर्ममा ँसरुधिरमेदोमज्जास्नायवोऽस्थीनि मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ ँ स्वाहा॑।
विश्वास-प्रस्तुतिः
शिरःपाणिपादपार्श्वपृष्टोरूदरजङ्घशिश्नोपस्थपायवो मे॑ शुध्य॒न्तां ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ ँ स्वाहा॑।
मूलम्
शिरःपाणिपादपार्श्वपृष्टोरूदरजङ्घशिश्नोपस्थपायवो मे॑ शुध्य॒न्तां ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ ँ स्वाहा॑।
विस्तारः (द्रष्टुं नोद्यम्)
*इयं चानुवाकपरिगणनानुरोधेनानुवाकसमाप्तिः। छ. पुस्तकानुरोधेन तु (६७) तमानुवाकसमाप्ति। +छ. पुस्तकेऽत्र (६८) तमानुवाकसमाप्तिः। इयं च मूलोक्तानुवाकपरिगणनविरुद्धा। *छ. पुस्तकेऽत्र (६९) तमानुवाकसमाप्तिः। इयं च मूलोक्तानुवाकपरिगणनविरुद्धा। +एतदग्रे छ. पुस्तके (७०) तमानुवाकसमाप्तिर्मूलोक्तानुवाकपरिगणनविरुद्धा। * एतदग्रे छ. पुस्तके (७१) तमानुवाकसमाप्तिः, सा च मूलोक्तानुवाकपरिगणनविरुद्धा।
[[878]]
परिशिष्टत्वेन संगृहीतः- [अनु॰ ६६]
विश्वास-प्रस्तुतिः
उत्तिष्ठ पुरुष हरित पिङ्गल लोहिताक्षि देहि देहि ददापयिता मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ ँ स्वाहा॑।
मूलम्
उत्तिष्ठ पुरुष हरित पिङ्गल लोहिताक्षि देहि देहि ददापयिता मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ ँ स्वाहा॑।
सायण-टीका
उत्तिष्ठेति। शुद्धिहेतुत्वेनात्र सर्वकर्मनिष्पादकं वह्निशरीरोपाधिकं [परमात्मानं] प्रार्थयते - पुरुष पुरि [वह्नि]शरीरे शयान हे परमात्मन्नुत्तिष्ठ, औदासीन्यं परित्यज्य मदनुग्रहार्थमुद्युक्तो भव। संबुद्ध्यन्तपुरुषशब्दस्यैव हरितादीनि त्रीणि पदानि विशेषणानि। हे हरित प्रतिबन्धहरणकुशल। हे पिङ्गल पिङ्गलवर्ण। लोहिताक्षि रक्तनयन। देहि देहि पुनः पुनः शुद्धिं मे प्रयच्छ। ददापयिताऽऽचार्यमुखात्त-त्त्वविज्ञानस्यातिशयेन दापयिता भवेति शेषः। तस्य* दापयितुर्ज्ञानस्योत्पत्तये मे मदीयाश्चित्तवृत्तयः शुध्यन्ताम्। ज्योतिरहमित्यादि पूर्ववत्+॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधे- ययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये पञ्चषष्टितमोऽनुवाकः॥६५॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोप- निषदि पञ्चषष्टितमोऽनुवाकः॥६५॥