६४

अथ चतुःषष्टितमोऽनुवाकः।


तिलाः कृष्णास्ति॑लाः श्वेतास्तिलाः सौम्या व॑शानुगाः। तिलाः पुनन्तु॑ मे पा॒पं॒ यत्किंचिद्दुरितं म॑यि स्वा॒हा। तिला इति। हे परमात्मंस्त्वदाज्ञया मम यस्किंचिद्दुरितं तत्पापं दूरीकृत्य मे मां तिलाः पुनन्तु। तदर्थमिदं हविस्तुभ्यं स्वाहा। तिलाः कथंभूताः। केचित्कृष्णाः केचिच्छ्वेता उभयविधाः सर्वेऽपि सौम्या रोगाद्युपद्रवाप्रदाः। वशानुगा अस्मद्वशवर्तिनः। स्वधर्मोपार्जितं द्रव्यं दत्त्वा विक्रीयाऽऽनीता न त्वनुशासनचौर्यादिनाऽऽनीता इत्यर्थः। अचेतनानां तिलानां पापनाशनसामर्थ्यं त्वदाज्ञयेति भावः+।

चोर॒स्यान्नं न॑वश्रा॒द्धं॒ ब्रह्महा गु॑रुत॒ल्पगः। गोस्तेय ँ सु॑रापा॒नं॒ भ्रूणहत्या तिला शान्ति ँ शमय॑न्तु स्वा॒हा। चोरस्येति। हे परमात्मंस्त्वदाज्ञया तिला* एतन्मन्त्रोक्तानां पापानां शान्तिं विनाशं शमयन्तु कुर्वन्तु। तदर्थमिदं हविस्तुभ्यं स्वाहा। नवश्राद्धमेकोद्दिष्टाद्यन्नभोजनम्। भ्रूणो गर्भः शिशुर्वीरो वा। स्पष्टमन्यत्+। श्रीश्च लक्ष्मीश्च पुष्टीश्च कीर्तिं॑ चाऽऽनृ॒ण्यताम्। ब्रह्मण्यं ब॑हु- पु॒त्रताम्। श्रद्धामेधे प्रज्ञा तु जातवेदः संददा॑तु स्वा॒हा॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि चतुःषष्टितमोऽनुवाकः॥६४॥ श्रीश्चेति। हे जातवेदः सर्ववेदस्य धनस्य वोत्पादक (?) हे परमात्मंस्तत्सर्वं


  • छ. पुस्तकेऽत्र (६४) तमानुवाकसमाप्तिर्दृश्यते। +एतदग्रे छ. पुस्तके (६५) तमानुवाकसमा-प्तिर्दृश्यते। सा चानुवाकपरिगणनविरुद्दा। *छान्दसत्वाद्विसर्गलोपो मूले। + एतदग्रे छ. पुस्तके (६६) तमानुवाकसमाप्तिर्दृश्यते। साऽनुवाकपरिगणनविरुद्धा।

१ घ. ८१।

[[877]]

[अनु ॰ ६५] सभाष्यो दशमप्रपाठकः।

भवान्मह्यं सम्यग्ददातु। किं तत्। श्रीश्चेत्यादि, पदार्था व्याख्याताः। प्रज्ञा कुशाग्रबुद्धित्वम्। तुरेवार्थे। चाः समुच्चये॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये चतुःषष्टितमोऽनुवाकः॥६४*॥