अथ त्रिषष्टितमोऽनुवाकः।
अतः परं सर्वपापनिबर्हणार्थाः सर्वोत्कृष्टचतुर्थाश्रमकरणाङ्गभूते विरा(र?)जाख्यहोमे कर्मणि विनियुक्ता मन्त्राः पठ्यन्ते तादृग्लिङ्गप्रतिभानात्। सर्वपापनिबर्हणद्वारा संन्यासं करिष्यमाणो यथा शास्त्रेक्ताधिकारी स्वगृह्योक्तविधिना पञ्चभूतसंस्काराद्याज्यासंस्कारान्तं कर्म कृत्वैतैर्वक्ष्यमाणमन्त्रैः प्रधानाहुतीः कुर्यात्। स्विष्टकृदाद्यन्यत्समानम्। सर्वत्र हविर्ग्राहिणी देवता तु परमात्मैव। [तत्र प्रथमो मन्त्रः-] तिलाञ्जुहोमि सरसा ँ सपिष्टान्गन्धार मम चित्ते रम॑न्तु स्वा॒हा, इति। मन्त्राणाम(न्त्रस्या)यमर्थः। गन्ध उत्तमदेहसौरभ्यमस्यास्तीति गन्धारस्तत्संबुद्धौ हे गन्धार परमात्मंस्त्वदर्थं तिलाञ्जुहोमि। कथंभूतान्सरसान्न तु शुष्कान्सपिष्टान्सक्त्वादिपिष्टान्तरलेशसहितान्। किंच तद्धोमफलत्वेन त्वदीयाः परमपावना गुणा मम चित्ते रमन्तु रमन्ताम्। स्वाहेदं प्रकृतं हविस्त्वामुद्दिश्य सुहुतमस्तु। एवमेव स्वाहाशब्दार्थ उत्तरत्रापि। गावो हिरण्यं धनमन्नपान ँ सर्वेषा ँ श्रि॑यै स्वा॒हा। गाव इति। हे परमात्मंस्त्वत्प्रसादाद्गावो हिरण्यं धनमन्नपानमेतानि मम सिध्यन्तु। किंच सर्वेषां भोग्यपदार्थानां प्राप्तिरस्तु। किंच श्रियै गजान्तलक्ष्मीसिद्ध्यर्थं हविरिंद तुभ्यं स्वाहा। श्रियं च लक्ष्मिं च पुष्टिं च कीर्तिं॑ चाऽऽनृ॒ण्यताम्। ब्रह्मण्यं ब॑हुपु॒त्रताम्। श्रद्धामेधे प्रजाः संददा॑तु स्वा॒हा॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि षट्त्रिंशोऽनुवाकः॥६३॥ श्रियमिति। श्रियं राज्यलक्ष्मीं *लक्ष्मीं मोक्षलक्ष्मीं पुष्टिं शरीरदेः कीर्ति त्रैलो-
- मूले छान्दसो हृस्व इति सूचयितुं पुष्टिं शरीरादेः कीर्ति निर्देशः।
१ ङ. भूस। २ घ. ८०।
[[876]]
परिशिष्टत्वेन संगृहीतः- [अनु॰ ६४]
क्यविदितकल्याणगुणवत्त्वमानृण्यतां देवर्षिपितॄणत्रयनिर्मुक्तत्वं ब्रह्मण्यं सर्वब्राह्मणोत्तमत्वं बहुपुत्रतां श्रद्धामेधे गुरुवेदान्तवाक्यविश्वासवेदशास्त्रार्थग्रहणधारणपटुत्वे प्रजा दुरित्राद्या भगवान्परमात्मा मह्मं सम्यग्ददातु॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये त्रिपष्टि*तमोऽनुवाकः॥६३॥