अथ द्विषष्टितमोऽनुवाकः।
मन्युरकार्षीन्नमो॒ नमः। मन्युरकार्षीन्मन्युः करोति नाहं करोमि मन्युः कर्ता नाहं कर्ता मन्युः॑ कार॒- यिता नाहं॑ कार॒यिता एष ते मन्यो मन्य॑वे स्वा॒हा॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि द्विषष्टितमोऽनुवाकः॥६२॥ मन्युरिति। मन्युः कोपाभिमानी देव। मन्यवे क्रोधरूपाय। अन्यत्पूर्ववत्। अत्र मीमांसा - कारयितुरेव पापं न कर्तुरनिच्छतः। *यदि स्वयमपीच्छत्यन्योऽपि कारयति तर्ह्युभयोरपि पापलेपः। यथा कश्चिद्यवनोऽनिच्छन्तमपि कंचित्पापमकारयत्। ननु बलात्कारितपापस्यापि धर्मशास्त्रेषु प्रायश्चित्तं श्रूयत इति चेन्न। स्वयंकृतप्रायश्चित्तमपेक्ष्य(?) बलात्कारितपापस्य(स्या)+ त्यल्पत्वात्। किंचाऽऽभ्यां मन्त्राभ्यां पुरुषो हस्त-
- अस्या अग्निमायाश्च फक्किकाया व्यत्यासेन पाठो युक्तः। +प्रायश्चितस्येत्यनुषङ्गः।
१ घ. ७८। २ घ. ७९।
[[875]]
[अनु॰ ६३] सभाष्यो दशमप्रपाठकः।
मुद्धृत्य रोदिति काममन्यू बलात्पापं मां कारयतोऽनिच्छन्तमपि किं करोमि क्व गच्छामि कस्ताभ्यां त्रायते मामिति। तस्माद्रोदनपश्चातापादिवशादेवमवगम्यते कारयितुरेव पापं न कर्तुरिति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये द्विषष्टितमोऽनुवाकः॥६२॥