६१

अथैकषष्टितमोऽनुवाकः।


कामोऽकार्षी॑न्नमो॒ नमः। कामोऽकार्षीत्कामः करोति नाहं करोमि कामः कर्ता नाहं कर्ता कामः कार॒यिता नाहं कार॒यिता एष ते काम कामा॑य स्वा॒हा॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषद्ये- कषष्टितमोऽनुवाकः॥६१॥ काम इति। हे त्रयस्त्रिंशत्कोटिदेवता युष्मभ्यं नमो नमः। पूर्वोक्तानि पापानि कामो मकरध्वजोऽकार्षीच्चकार। कामोऽकार्षीदिति पुनरुक्तिः(क्तेः) स्वकर्तृ[त्व]निवृत्तिः। काम एव करोति नाहं करोमि। काम एव कर्ता नाहं कर्ता। अत्र हेतुरुच्यते। काम एव सर्वाणि जगानि (जगन्ति) वशीकृत्य कारयिता भवति नाहं कारयिताऽस्वतन्त्रत्वान्मनुष्याणाम्। हे काम तत्पापनिवृत्त्यर्थं ते तुभ्यमेष आज्यभागः स्वाहा सुहुतोऽस्तु। कथंभूताय तुभ्यं कामाय कमनीयविग्रहाय॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्य एकषष्टितमोऽनुवाकः॥६१॥