६०

अथ षष्टितमोऽनुवाकः।


यद्वो॑ देवाश्चकृ॒म जि॒ह्वया॑ गु॒रुमन॑सो वा॒ प्रयु॑ती देव॒हेड॑नम्। अरा॑ वा॒यो नो॑ अ॒भि दु॑च्छुना॒- यते॒ तस्मि॒न्तदेनो॑ वसवो॒ निधे॑तन॒ स्वाहा॑॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि षष्टितमोऽनुवाकः॥६०॥ यदिति। [वसवो वासयितारो] गुरु गम्भीरं मनो येषां ते गुरुमनसो हे गुरुमनसः सर्वेदेवा वो युष्मानुद्दिश्य यद्देवहेडनं देवविडम्बनमयमधिकोऽयं न्यून इत्यादि देवगर्हणं जिह्वया वाचा वयं चकृम तदेनो यूयं तस्मिन्पूर्वोक्ते गम्भीरे युष्मदीयमनसि निधेतन। स्वार्थे तनप्। स्थापयत, न तु वाचोद्धाट्यत। अस्मदपराधं सहध्वमिति यावत्। देवहेडनं कीदृशम्। प्रयुतसंख्याऽस्यास्तीति प्रयुति। दीर्घश्छान्दसः। असंख्याकमित्यर्थः। वाशब्दो निश्चये। अगुरुमनस इति वयमित्यस्य विशेषणं वा। गुरुषु जगत्पूज्येषु देवेषु भक्तियुक्तं मनो येषां ते गुरुमनसः। न गुरमनसोऽगुरुमनसः। एवंविधाः सन्तो वयं यद्देवहेडनं चकृम। अगुरुमनस्कत्वादेव देवहेडनप्रसक्तिः। किंच हे वायो सप्तमरुत्प्रधाना हे मरुत उपवायवो नोऽस्मत्संबन्धि यदेनोऽभिदुच्छुनायतेऽभितो दुष्टशुनवदाचरति किल दुष्टशुनवदपवित्रं तदेनस्तस्मिन्नित्यादि पुनर्योजनीयम्। कथंभूतमेनः। अरा व्यत्ययेनारं मरणनिव(र्व?)र्तकम्। तदर्थमिदमाज्यं लिङ्गोक्तदेवताभ्यः स्वाहा सुहुतमस्तु॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये षष्टितमोऽनुवाकः॥६०॥


१ घ. ७७॥

[[874]]

परिशिष्टत्वेन संगृहीतः- [अनु ॰ ६१-६२]