५९

अथैकोनषष्टितमोऽनुवाकः।


दै॒वकृ॑त॒स्यैनसोऽव॒यज॑नमसि॒ स्वाहा॑। म॒नु॒ष्य॑कृत- स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा॑। पि॒तृकृ॑त॒स्यैन॑- सोऽव॒यज॑नमसि॒ स्वाहा॑। आ॒त्मकृ॑त॒स्यैन॑सोऽव॒- यज॑नमसि॒ स्वाहा॑। अ॒न्यकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा॑। अ॒स्मत्कृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा॑। यद्दि॒वा च॒ नक्तं॒ चैन॑श्चकृ॒म तस्या॑व॒यज॑नमसि॒ स्वाहा॑। यत्स्व॒पन्त॑श्च॒ जाग्र॑त॒श्चेन॑कृ॒म तस्या॑व॒य- ज ॑नमसि॒ स्वाहा॑। यत्सु॒षुप्त॑श्च॒ जाग्र॑त॒श्चैन॑श्चकृ॒म तस्या॑व॒यज॑नमसि॒ स्वाहा॑। यद्वि॒द्वा ँ स॒श्चावि॑- द्वा ँस॒श्चैन॑श्चकृ॒म तस्या॑व॒यज॑नमसि॒ स्वाहा॑। एनस एनसोऽवयजनम॑सि॒ स्वा॒हा॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषद्ये- कोनषष्टितमोऽनुवाकः॥५९॥

देवकृतस्येति। देवकृतस्यैनस इत्यादिषु यद्वो देवा इत्यतः प्राक्तनेष्वकादशसु मन्त्रेषु हविर्ग्रहीतृदेवताया अप्रतीतेरग्निर्देवतात्वेनाङ्गीकर्तव्यः, सर्वदेवताप्रधानत्वादग्नेः। तत्र क्रमेण षड्विधुरवैश्वदेवेऽपि विनियुक्ताः। तथा चायमर्थः। हे आज्य त्वमेनसः पापस्यावयजनं निवारकमसि। अवपूर्वो यज्ञतिर्निवारणार्थः सर्वत्र। तदर्थमिदमाज्यमग्नेय स्वाहा सुहुतमस्तु। यद्वा हेऽग्ने त्वमेनसोऽवयजनं निवारको-ऽसि। लिङ्गव्यत्ययः। तदर्थमिदमाज्यं तुभ्यं स्वाहा सुहुतमस्तु। एवमुत्तरत्रापि वाक्यार्थः। एनसः कथंभूतस्य। देवाय कृतं देवकृतं तस्य देवकृतस्य। दैवेषु कर्मस्वङ्गवैकल्यादिरूपस्येत्यर्थः। देवैर्द्योतनशीलैरस्मादिन्द्रियैः कृतस्येति वा। मनुष्यार्थं कृतं मनुष्यकृतं तस्य धिक्कारान्नप्रदानाद्यभावरूपस्य। पितृकृतस्य पैतृकेषु कर्मस्वङ्गवैकल्यादिरूपस्य। आत्मकृतस्य स्वयंकृतस्यागम्य(म्या)गमनादेः। अन्यकृत-स्यास्मद्भार्यादिकृतस्य। आत्मत्कृतस्यास्मज्ज्ञातिवर्गकृतस्य। किंच दिवा नक्तं रात्रिंदिवं यदेनश्चकृम कृतवन्तस्तस्य। स्वपन्तः स्वप्नावस्थामनुभवन्तो जाग्रतो जागरूकाश्च यदेनो नानाविधं पापं चकृम तस्य। सुषुप्तो व्यत्ययेन सुषुप्ताः सुषुप्त्यवस्थामनुभवन्तः सन्तो यदेनश्चकृम


१ घ. ७६।

[[873]]

[अनु ॰ ६०] सभाष्यो दशमप्रपाठकः। तस्य। जाग्रदवस्थायां पापबाहुल्यस्य संभावितत्वान्मन्त्रद्वये जाग्रच्छब्दप्रयोगः। सुषुप्त्यवस्थायामपि किंचित्सूक्ष्मतरं पापं द्रष्टव्यम्। विद्वांसोऽविद्वांसश्च वयं यदेनश्चकृम तस्य। ज्ञानाज्ञानपूर्वकृतस्येत्यर्थः। एनस उपपातकादेरष्यधिकं यदेनो महापातकादि तस्य। यद्वा - एनसो विनो लोपश्छान्दसः। एनस्विनः पुरुषात्सकाशाद्यदेनो जातं तस्य। “तत्संसर्गी तु पञ्चमः” इतिशास्त्रसिद्धस्य महापापस्येत्यर्थः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्य एकोनषष्टितमोऽनुवाकः॥५९॥