अथाष्टपञ्चाशोऽनुवाकः।
मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॑॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषद्य- ष्टपञ्चाशोऽनुवाकः॥५८॥ मृत्यव इति। अथेदानीं पापमात्रनिवर्हणार्था होममन्त्रा उच्यन्ते तादृग्लिङ्गप्रतीतेः। यो नानाविधापातक[वा]न्पापनिवर्हणकामवांश्च तेन स्वगृह्योक्तविधिना पञ्चभू[त]संस्काराद्याज्यसंस्कारान्तं कर्म कृत्वैतैर्वक्ष्यमाणमन्त्रैः प्रधानाहुतयः कर्तव्याः। स्विष्टकृदाद्यन्यत्समानम्। मन्त्रस्यायमर्थः। येन म्रियन्ते प्राणिनः स मृत्युस्तस्मै [मृत्यवे] स्वाहा सकृत्गृहीतमिदमाज्यं सुहुतमस्तु। आहुतिद्वयद्योतनार्था मन्त्रावृत्तिः। इदमाहुतिद्वयं मृत्युदेवत्यम्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्येऽष्टपञ्चाशोऽनुवाकः॥५८॥
१ घ. ७४। २ घ. ७५।
[[872]]
परिशिष्टतेन संगृहीतः- [अनु ॰५९]