५७

अथ सप्तपञ्चाशोऽनुवाकः।


ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्याय॒ हन्त॑वे। तान्य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑यजामहे॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि सप्तपञ्चाशोऽनुवाकः॥५७॥ य इति। हे मृत्यो मर्त्याय व्यत्ययेन [मर्त्यं]प्राणिमात्रं हन्तवे हन्तुं सहस्रमयुतमेतत्संख्याका ये ते तव पाशाः सन्ति तान्सर्वान्पाशानवयजामहे निवारयामः। अत्रोपसर्गयोगेण यजतेर्भिन्नार्थतोच्यते। केन साधनेन। यज्ञस्य सत्कर्मानुष्ठानस्य मायया मिषेण च्छद्मना। पुत्रजन्मच्छद्मना पैतृकमृणमद्या-(पा)करोतीत्यादिवदयं प्रयोगो द्रष्टव्यः। यद्वा यज्ञस्य सत्कर्मानुष्ठानस्य मायया शक्त्या बलेन। मायाशब्दः शक्तिपर्यायः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये सप्तपञ्चाशोऽनुवाकः॥५७॥