अथ षट्पञ्चाशोऽनुवाकः।
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम्। उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता॑त्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यक दशमप्रपाठके नारायणोपनिषदि षट्पञ्चाशोऽनुवाकः॥५६॥
त्र्यम्बकमिति। हे भगवन्पार्वतीपते त्वां यजामहे। त्वां कीदृशम्। त्र्यम्बकं त्रिनेत्रम्। सुगन्धिं यथा केतक्यादिसौगन्ध्यं दूरादाघ्रायते तथा तदीयदिव्यदेहसौरभ्यं सोऽयं सुगन्धिः। सुपूर्वकत्वाद्गन्धशब्दस्ये*कारः। पुनः कीदृशम्। पुष्टिवर्धनं पुष्टिं लौकिकवैदिकपुष्टिं वर्धयतीति तथोक्तम्। हे भगवंस्त्वां संध्यावर्ध(न्द)नादिसत्कर्मभिर्यजि+त्वा यथोर्वरुकं कर्कट्यादेः फलं पक्कं सद्बन्धनाट्वृन्तादनायासेन मुच्यते तथा वयं मृत्योः सकाशान्मुक्षीय मुक्षीमहि मुक्ता भवेम। “व्यत्ययो बहुलम्” इति वचनव्यत्ययः। अमृतान्मोक्षान्मा मुक्षोमहि न वियुज्यामहे॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये षट्पञ्चाशोऽनुवाकः॥५६॥
- गन्धस्येदुत्पूतिसुसुरभिभ्य इति सूत्रेणोते भावः। + इष्टेति पाठ्यमा।
१ घ. ७२। २ घ. ७३
[[871]]
[अनु ॰५७-५८] सभाष्यो दशमप्रपाठकः।