५५

अथ पञ्चपञ्चाशोऽनुवाकः।


स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा विमृधो॑ व॒शी। वृषेन्द्रः॑ पु॒र ए॑तु नः स्वस्ति॒दा अ॑भयंक॒रः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि पञ्चपञ्चाशोऽनुवाकः॥५५॥ स्वस्तिदा इति। इतस्ततो गच्छतां नोऽस्माकं पुरः पुरस्तादौपलक्षण्येन प्रागवाक्प्रत्यगुदगूर्ध्वाधोदिक्षु परिपालनायेन्द्र एत्वागच्छतु। सर्वतो दिक्षु वज्रहस्तेन पालिता वयं निर्भयाः स्यामेति भावः। इन्द्रः कीदृक्। स्वस्तिदा भूलोकसुखकृत्। पुनः स्वस्तिदा आमुत्रिकसुखकृत्। विशो नानाविधप्रजायाः पतिः प्रभुः। वृत्रहा स्फीतम् (स्पष्टम्)। विमृधो रक्षोजातिमथनकर्ता। वशी त्रैलोक्यवशीकारवान्। वृषा प्रावृषि वृष्ट्युदकसेचकः। अभयंकरः स्वाश्रितानाम्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये पञ्चपञ्चाशोऽनुवाकः॥५५॥