५४

अथ चतुष्पञ्चाशोऽनुवाकः।


प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव। यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒य ँ स्याम॑ पत॑यो रयी॒णाम्॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणो पनिषदि चतुष्यञ्चाशोऽनुवाकः॥५४॥ प्रजापत इति। हे प्रजापते ब्रह्मन्पार्वतीवल्लभ त्वत्त्वत्तो जातान्युत्पन्नानि विश्वा विश्वानि समस्तानि (ता) तानि प्रसिद्धान्येतान्युपलभ्यमानानि सुरनरतिर्यगादिलक्षणानि पञ्च भूतानि चतुर्दश भुवनानि नानाविधब्रह्माण्डपिण्डाण्डानि त्वत्तोऽन्यो यः कश्चिन्न परिबभूव। परिपूर्वो भवतिस्तिरस्कारार्थः। नोपसंजहारेति यावत्। औपलक्षण्येन न संजीवयति [न सृजति च]। अपि तु सृष्टिकाले त्वमेव सृजसि जीवनकाले त्वमेव जीवयसि प्रलये त्वमेव त्वय्येवोपसंहरसि नान्यः कश्चिदित्यभिप्रायः। यस्मादेवं तस्मान्ते निखिलजगदुत्पत्तिस्थितिलयकर्त्रे भगवते तुभ्यं जुहुमः। श्रौतस्मार्तानुष्ठानोपयोगिहविस्त्यागं कुर्मः। अत एव यस्मिन्कामो येषामस्माकं ते वयं यत्कामा ऐहिकामुष्मिकोपभोग्ये यद्वा(त्र) वयं जुहुमस्तद्वाञ्छितं वस्तु नोऽस्मभ्यमस्तु। श्रौतस्मार्तहोमफलत्वेन सिध्यतु। किंच तवापाङ्गलोके पतिता वयं रयीणां विद्याविनयसंपदामिहपरोपभोग्यभोगसंपदां च पतयोऽधिपतयः स्याम। अयमेव मन्त्रो ब्राह्मणभोजनादौ पार्वतीपतिप्रीतिकृदुदकदाने विनियुज्यते। तस्मिन्पक्षे जुहुमो ब्राह्मणमुखाग्नौ मिष्टान्नरूपहव्यत्यागरूपं होमं कुर्म इति व्याख्यायान्यत्सर्वमेतदनुकूलत्वेन व्याख्यायतामिति दिक्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये चतुष्पञ्चाशोऽनुवाकः॥५४॥



१ घ. ७१।

[[870]]

परिशिष्टतेन संगृहीतः- [अनु॰ ५५-५६]