अथ त्रिपंञ्चाशोऽनुवाकः।
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि प्ना नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः। वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्हविष्म॑न्तो नम॑सा विधेम ते॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि त्रिपञ्चाशोऽनुवाकः॥५३॥ मा न इति। हे महारुद्र तोकमर्थकं तनयं तरुणं पुत्रमायुर्जीवनं गा अश्वानेतदुपलक्षितमस्मदीयं सर्वस्व मा रीरिषः। “रिष हिंसायाम्”। मा +हिंसीः। त्वं
- अन्तर्भावितण्यर्थोऽत्र करोतिः। णिजन्तमेव वा पाठ्यम्। +एतदग्रे “किंच वीरानस्मद्धितकारिणो वीर्यवतः पुरुषान्मा वधीर्मा हिंसीः।” इति ग्रन्थोऽपेक्षित इति ज्ञेयम्।
१ घ. ६९। २ घ. ७०।
[[869]]
[अनु॰५४] सभाष्यो दशमप्रपाठकः।
कथंभूतः सन्। भामितोऽस्मदपराधैः कारितक्रोधः। त(त्व)दर्थं हविष्मन्तो यथाविधिनिष्पादितहविर्युक्तजुहूहस्ता वयं नमसा प्रणामेन ते तवेज्यां विधेम कुर्याम॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये त्रिपञ्चाशोऽनुवाकः॥५३॥