अथ द्विपञ्चाशोऽनुवाकः।
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम्। मा नो॑ बधीः पि॒तरं॒ मोत मा॒तरं प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि द्विपञ्चाशोऽनुवाकः॥५२॥ मा न इति। हे रुद्र दुष्टरोदनकर्तर्नोऽस्माकं* महान्तं गुरुप्रभृतिपूज्यवर्गं मा वधीर्मा हिंसीः। “वध बन्धनहिंसयोः” अस्माल्लुङ्। अपि चार्भकं स्तनंधयम्। उक्षन्तम्। “उक्ष सेचने” अस्माच्छता सेचेनपटीयसं तरुणम्। उक्षितं योनिष्वासिक्तं गर्भस्थं पिण्डं पितरं मातरं [च] मा वधीः। उतशब्दा अपिपर्याया उक्तानुक्तसमुच्चयद्योतिनः। किंच हे वृषभवाहन प्रिया अभिलषिता नस्तन्वस्तनूर्मा रीरिषः। “रिष हिंसायाम्” अस्माल्लुङि मध्यमपुरषैकवचनम्। सर्वानस्मानस्मदीयांश्च सुखयेति भावः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये द्विपञ्चाशोऽनुवाकः॥५२॥